२८

व्यास उवाच

विश्वास-प्रस्तुतिः

एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः ।
चतुर्थमायुषो भागं सन्न्यासेन नयेत् क्रमात् ॥ १ ॥

मूलम्

अग्नीनात्मनी संस्थाप्य द्विजः प्रव्रजितो भवेत् ।
योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ २ ॥

यदा मनसि सञ्जातं वैतृष्ण्यं सर्ववस्तुषु ।
तदा सन्न्यासमिच्छेच्च पतितः स्याद् विपर्यये ॥ ३ ॥

प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः ।
दान्तः पक्वकषायो ऽसौ ब्रह्माश्रममुपाश्रयेत् ॥ ४ ॥

ज्ञानसन्न्यासिनः केचिद् वेदसन्न्यासिनः परे ।
कर्मसन्न्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥ ५ ॥

यः सर्वसङ्गनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः ।
प्रोच्यते ज्ञानसन्न्यासी स्वात्मन्येव व्यवस्थितः ॥ ६ ॥

वेदमेवाभ्यसेन्नित्यं निराशी निष्परिग्रहः ।
प्रोच्यते वेदसन्न्यासी मुमुक्षुर्विजितेन्द्रियः ॥ ७ ॥

यस्त्वग्नीनात्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः ।
ज्ञेयः स कर्मसन्न्यासी महायज्ञपरायणः ॥ ८ ॥

त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः ।
न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः ॥ ९ ॥

निर्ममो निर्भयः शान्तो निर्द्वन्द्वः पर्णभोजनः ।
जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ॥ १० ॥

ब्रह्मचारी मिताहारो ग्रामादन्नं समाहरेत् ।
अध्यात्ममतिरासीत निरपेक्षो निरामिषः ॥ ११ ॥

आत्मनैव सहायेन सुखार्थं विचरेदिह ।
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ १२ ॥

कालमेव प्रतीक्षेत निदेशं भृतको यथा ।
विश्वास-प्रस्तुतिः

नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन ।
एवं ज्ञात्वा परो योगी ब्रह्मभूयाय कल्पते ॥ १३ ॥

एकवासाथवा विद्वान् कौपीनाच्छादनस्तथा ।
विश्वास-प्रस्तुतिः

मुण्डी शिखी वाथ भवेत् त्रिदण्डी निष्परिग्रहः ।
काषायवासाः सततं ध्यानयोगपरायणः ॥ १४ ॥

ग्रामान्ते वृक्षमूले वा वसेद् देवालये ऽपि वा ।
विश्वास-प्रस्तुतिः

समः शत्रौ च मित्रे च तथा मानापमानयोः ।
भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत् क्वचित् ॥ १५ ॥

यस्तु मोहेन वालस्यादेकान्नादी भवेद् यतिः ।
न तस्य निष्कृतिः काचिद् धर्मशास्त्रेषु कथ्यते ॥ १६ ॥

रागद्वेषविमुक्तात्मा समलोष्टाश्मकाञ्चनः ।
प्राणिहंसानिवृत्तश्च मौनी स्यात् सर्वनिस्पृहः ॥ १७ ॥

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद् वाणीं मनः पूतं समाचरेत् ॥ १८ ॥

नैकत्र निवसेद् देशे वर्षाभ्यो ऽन्यत्र भिक्षुकः ।
स्नानशौचरतो नित्यं कमण्डलुकरः शुचिः ॥ १९ ॥

ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् ।
मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेन्द्रियः ॥ २० ॥

दम्भाहङ्कारनिर्मुक्तो निन्दापैशुन्यवर्जितः ।
आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ॥ २१ ॥

अभ्यसेत् सततं वेदं प्रणवाख्यं सनातनम् ।
स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु ॥ २२ ॥

यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः ।
धौतकाषायवसनो भस्मच्छन्नतनूरहः ॥ २३ ॥

अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ २४ ॥

पुत्रेषु वाथ निवसन् ब्रह्मचारी यतिर्मुनिः ।
वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् ॥ २५ ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः परम् ।
क्षमा दया च सतोषो व्रतान्यस्य विशेषतः ॥ २६ ॥

वेदान्तज्ञाननिष्ठो वा पञ्च यज्ञान् समाहितः ।
कुर्यादहरहः स्नात्वा भिक्षान्नेनैव तेन हि ॥ २७ ॥

होममन्त्राञ्जपेन्नित्यं काले काले समाहितः ।
स्वाध्यायं चान्वहं कुर्यात् सावित्रीं सन्ध्ययोर्जपेत् ॥ २८ ॥

ध्यायीत सततं देवमेकान्ते परमेश्वरम् ।
एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम् ॥ २९ ॥

एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् ।
कमण्डलुकरो विद्वान् त्रिदण्डी याति तत्परम् ॥ ३० ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे ऽष्टाविंशो ऽध्यायः