व्यास उवाच
विश्वास-प्रस्तुतिः
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः ।
वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च ॥ २ ॥
मूलम्

निक्षिप्य भार्यां पुत्रेषु गच्छेद् वनमथापि वा ।
दृष्ट्वापत्यस्य चापत्यं जर्जरीकृतविग्रहः ॥ २ ॥

शुक्लपक्षस्य पूर्वाह्ने प्रशस्ते चोत्तरायणे ।
गत्वारण्यं नियमवांस्तपः कुर्यात् समाहितः ॥ ३ ॥

फलमूलानि पूतानि नित्यमाहारमाहरेत् ।
यताहारो भवेत् तेन पूजयेत् पितृदेवताः ॥ ४ ॥

पूजयित्वातिथिं नित्यं स्नात्वा चाभ्यर्चयेत् सुरान् ।
गृहादाहृत्य चाश्नीयादष्टौ ग्रासान् समाहितः ॥ ५ ॥

जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् ।
स्वाध्यायं सर्वदा कुर्यान्नियच्छेद् वाचमन्यतः ॥ ६ ॥

अग्निहोत्रं च जुहुयात् पञ्चयज्ञान् समाचरेत् ।
मुन्यन्नैंर्विविधैर्मेध्यैः शाकमूलफलेन वा ॥ ७ ॥

चीरवासा भवेन्नित्यं स्नायात् त्रिषवणं शुचिः ।
सर्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः ॥ ८ ॥

ऋक्षेष्वाग्रयणे चैव चातुर्मास्यानि चाहरेत् ।
उत्तरायणं च क्रमशो दक्षस्यायनमेव च ॥ ९ ॥

वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः ।
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत् पृथक् ॥ १० ॥

देवताभ्यश्च तद् हुत्वा वन्यं मेध्यतरं हविः ।
शेषं समुपभुञ्जीत लवणं च स्वयं कृतम् ॥ ११ ॥

वर्जयेन्मधुमांसानि भौमानि कवकानि च ।
भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥ १२ ॥

न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् ।
न ग्रामजातान्यार्तो ऽपि पुष्पाणि च फलानि च ॥ १३ ॥

श्रावणेनैव विधिना वह्निं परिचरेत् सदा ।
न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेत् ॥ १४ ॥

जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः ।
ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥ १५ ॥

यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् ।
तद् व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥ १६ ॥

तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः ।
न हि वेदे ऽधिकारो ऽस्य तद्वंशेप्येवमेव हि ॥ १७ ॥

अधः शयीत सततं सावित्रीजाप्यतत्परः ।
शरण्यः सर्वभूतानां संविभागपरः सदा ॥ १८ ॥

परिवादं मृषावादं निद्रालस्यं विवर्जयेत् ।
एकाग्निरनिकेतः स्यात् प्रोक्षितां भूमिमाश्रयेत् ॥ १९ ॥

मृगैः सह चरेद् वासं तैः सहैव च संवसेत् ।
शिलायां शर्करायां वा शयीत सुसमाहितः ॥ २० ॥

सद्यः प्रक्षालको वा स्यान्माससञ्चयिको ऽपि वा ।
षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ २१ ॥

त्यजेदाश्वयुजे मासि सम्पन्नं पूर्वसञ्चितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ २२ ॥

दन्तोलूखलिको वास्यात् कापोतीं वृत्तिमाश्रयेत् ।
अश्मकुट्टो भवेद् वापि कालपक्वभुगेव वा ॥ २३ ॥

नक्तं चान्न समश्नीयाद् दिवा चाहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात् स्याद्वाप्यष्टमकालिकः ॥ २४ ॥

चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्तयेत् ।
पक्षे पक्षे समश्नीयाद् यवागूं क्वथितां सकृत् ॥ २५ ॥

पुष्पमूलफलैर्वापि केवलैर्वर्तयेत् सदा ।
स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ २६ ॥

भूमौ वा परिवर्तेत तिष्ठेद् वा प्रपदैर्दिनम् ।
स्थानासनाभ्यां विहरेन्न क्वचिद् धैर्यमुत्सृजेत् ॥ २७ ॥

ग्रीष्मे पञ्चतपाश्च स्याद् वर्षास्वभ्रावकाशकः ।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ २८ ॥

उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत् ।
एकपादेन तिष्ठेत मरीचीन् वा पिबेत् तदा ॥ २९ ॥

पयः पिबेच्छुक्लपक्षे कृष्णापक्षे तु गोमयम् ।
शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर् वा वर्तयेत् सदा ॥ ३० ॥

योगाभ्यासरतश्च स्याद् रुद्राध्यायी भवेत् सदा ।
अथर्वशिरसो ऽध्येता वेदान्ताभ्यासतत्परः ॥ ३१ ॥

यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ।
कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् ॥ ३२ ॥

अथ चाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ।
अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ॥ ३३ ॥

तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ।
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ ३४ ॥

ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ।
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ ३५ ॥

विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ।
विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च ॥ ३६ ॥

महाप्रास्थानिकं चासौ कुर्यादनशनं तु वा ।
अग्निप्रवेशमन्यद् वा ब्रर्ह्मार्पणविधौ स्थितः ॥ ३७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तविशो ऽध्याय