२६

इन् रेए निच्ह्त् ज़ुल्Äस्सिगे ज़ेइच्हेन्:

व्यास उवाच

विश्वास-प्रस्तुतिः

अथातः सम्प्रवक्ष्यामि दानधर्ममनुत्तमम् ।
ब्रह्मणाभिहितं पूर्वमृषीणां ब्रह्मवादिनाम् ॥ १ ॥

मूलम्

अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् ।
दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ॥ २ ॥

यद् ददाति विशिष्टेभ्यः श्रद्धया परया युतः ।
तद् वै वित्तमहं मन्ये शेषं कस्यापि रक्षति ॥ ३ ॥

नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते ।
चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ॥ ४ ॥

अहन्यहनि यत् किञ्चिद् दीयते ऽनुपकारिणे ।
अनुद्दिश्य फलं तस्माद् ब्राह्मणाय तु नित्यकम् ॥ ५ ॥

यत् तु पापोपशान्त्यर्थं दीयते विदुषां करे ।
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ ६ ॥

अपत्यविजयैश्वर्यस्वर्गार्थं यत् प्रदीयते ।
दानं तत् काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ॥ ७ ॥

यदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते ।
चेतसा धर्मयुक्तेन दानं तद् विमलं शिवम् ॥ ८ ॥

दानधर्मं निषेवेत पात्रमासाद्य शक्तितः ।
उत्पत्स्यते हि तत्पात्रं यत् तारयति सर्वतः ॥ ९ ॥

कुटुम्बभक्तवसनाद् देयं यदतिरिच्यते ।
अन्यथा दीयते यद्धि न तद् दानं फलप्रदम् ॥ १० ॥

श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।
वृत्तस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ॥ ११ ॥

यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये ।
स याति परमं स्थानं यत्र गत्वा न शोचति ॥ १२ ॥

इक्षुभिः सन्ततां भुमिं यवगोधूमशलिनीम् ।
ददाति वेदविदुषे यः स भूयो न जायते ॥ १३ ॥

गोचर्ममात्रामपि वा यो भूमिं सम्प्रयच्छति ।
ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते ॥ १४ ॥

भूमिदानात् परं दानं विद्यते नेह किञ्चन ।
अन्नदानं तेन तुल्यं विद्यादानं ततो ऽधिकम् ॥ १५ ॥

यो ब्राह्मणाय शान्ताय शुचये धर्मशालिने ।
ददाति विद्यां विधिना ब्रह्मलोके महीयते ॥ १६ ॥

दद्यादहरहस्त्वन्नं श्रद्धया ब्रह्मचारिणे ।
सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् ॥ १७ ॥

गृहस्थायान्नदानेन फलं प्राप्नोति मानवः ।
आममेवास्य दातव्यं दत्त्वाप्नोति परां गतिम् ॥ १८ ॥

वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।
उपोष्य विधिना शान्तः शुचिः प्रयतमानसः ॥ १९ ॥

पूजयित्वा तिलैः कृष्णैर्मधुना न विशेषतः ।
गन्धादिभिः समभ्यर्च्य वाचयेद् वा स्व्यं वदेत् ॥ २० ॥

प्रीयतां धर्मराजेति यद् वा मनसि वर्तते ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ २१ ॥

कृष्णाजिने तिलान् कृत्त्वा हिरण्यं मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥ २२ ॥

कृतान्नमुदकुम्भं च वैशाख्यां च विशेषतः ।
निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ॥ २३ ॥

सुवर्णतिलयुक्तैस्तु ब्राह्मणान् सप्त पञ्च वा ।
तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ॥ २४ ॥

माघमासे तु विप्रस्तु द्वादश्यां समुपोषितः ।
शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ॥ २५ ॥

प्रदद्याद् ब्राह्मणेभ्यस्तु तिलानेव समाहितः ।
जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः ॥ २६ ॥

अमावस्यामनुप्राप्य ब्राह्मणाय तपस्विने ।
यत्किचिद् देवदेवेशं दद्याच्चोद्दिश्य शङ्करम् ॥ २७ ॥

प्रीयतामीश्वरः सोमो महादेवः सनातनः ।
सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ २८ ॥

यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् ।
आराधयेद् द्विजमुखे न तस्यास्ति पुनर्भवः ॥ २९ ॥

कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये ।
स्नात्वाभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ॥ ३० ॥

प्रीयतां मे महादेवो दद्याद् द्रव्यं स्वकीयकम् ।
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ॥ ३१ ॥

द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ।
अमावास्यायां भक्तैस्तु पूजनीयस्त्रिलोचनः ॥ ३२ ॥

एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ।
अर्चयेद् बाह्मणमुखे स गच्छेत् परमं पदम् ॥ ३३ ॥

एषा तिथिर्वैष्णवीं स्याद् द्वादशी शुक्लपक्षके ।
तस्यामाराधयेद् देवं प्रयत्नेन जनार्दनम् ॥ ३४ ॥

यत्किञ्चिद् देवमीशानमुद्दिश्य ब्राह्मणे शुचौ ।
दीयते विष्णवे वापि तदनन्तफलप्रदम् ॥ ३५ ॥

यो हि यां देवतामिच्छेत् समाराधयितुं नरः ।
ब्राह्मणान् पूजयेद् यत्नात् सतस्यां तोषयेत् ततः ॥ ३६ ॥

द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः ।
पूज्यन्ते ब्राह्मणालाभे प्रतिमादिष्वपि क्वचित् ॥ ३७ ॥

तस्मात् सर्वप्रयत्नेन तत् तत् फलमभीप्सता ।
द्विजेषु देवता नित्यं पूजनीया विशेषतः ॥ ३८ ॥

विभूतिकामः सततं पूजयेद् वै पुरन्दरम् ।
ब्रह्मवर्चसकामस्तु ब्रह्माणं ब्रह्मकामुकः ॥ ३९ ॥

आरोग्यकामो ऽथ रविं धनकामो हुताशनम् ।
कर्मणां सिद्धिकामस्तु पूजयेद् वै विनायकम् ॥ ४० ॥

भोगकामस्तु शशिनं बलकामः समीरणम् ।
मुमुक्षुः सर्वसंसारात् प्रयत्नेनार्चयेद्धरिम् ॥ ४१ ॥

यस्तु योगं तथा मोक्षमन्विच्छेज्ज्ञानमैश्वरम् ।
सोर्ऽचयेद् वै विरूपाक्षं प्रयत्नेनेश्वरेश्वरम् ॥ ४२ ॥

ये वाञ्छन्ति महायोगान् ज्ञानानि च महेश्वरम् ।
ते पूजयन्ति भूतेशं केशवं चापि भोगिनः ॥ ४३ ॥

वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ।
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ ४४ ॥

भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ।
गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ ४५ ॥

वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।
अनडुदः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम् ॥ ४६ ॥

यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसात्म्यताम् ॥ ४७ ॥

धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् ।
वेदवित्सु विशिष्टेषु प्रेत्य स्वर्गं समश्नुते ॥ ४८ ॥

गवां घासप्रदानेन सर्वपापैः प्रमुच्यते ।
इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ॥ ४९ ॥

फलमूलानि शाकानि भोज्यानि विविधानि च ।
प्रदद्याद् ब्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत् ॥ ५० ॥

औषधं स्नेहमाहारं रोगिणे रोगशान्तये ।
ददानो रोगरहितः सुखी दीर्घायुरेव च ॥ ५१ ॥

असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ।
तीव्रितापं च तरति छत्रोपानत्प्रदो नरः ॥ ५२ ॥

यद् यदिष्टतमं लोके यच्चापि दयितं गृहे ।
तत्तद् गुणवते देयं तदेवाक्ष्यमिच्छता ॥ ५३ ॥

अपने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
सङ्क्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ॥ ५४ ॥

प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च ।
दत्त्वा चाक्षयमाप्नोति नदीषु च वनेषु च ॥ ५५ ॥

दानधर्मात् परो धर्मो भूतानां नेह विद्यते ।
तस्माद् विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ॥ ५६ ॥

स्वगायुर्भूतिकामेन तथा पापोपशान्तये ।
मुमुक्षुणा च दातव्यं ब्राह्मणेभ्यस्तथान्वहम् ॥ ५७ ॥

दीयमानं तु यो मोहाद् गोविप्राग्निसुरेषु च ।
निवारयति पापात्मा तिर्यग्योनिं व्रजेत् तु सः ॥ ५८ ॥

यस्तु द्रव्यार्जनं कृत्वा नार्चयेद् ब्राह्मणान् सुरान् ।
सर्वस्वमपहृत्यैनं राजा राष्ट्रात् प्रवासयेत् ॥ ५९ ॥

यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ।
म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः ॥ ६० ॥

न तस्मात् प्रतिगृह्णीयुर्न विशेयुश्च तेन हि ।
अङ्कयित्वा स्वकाद् राष्ट्रात् तं राजा विप्रवासयेत् ॥ ६१ ॥

यस्त्वसद्भ्यो ददातीह स्वद्रव्यं धर्मसाधनम् ।
स पूर्वाभ्यधिकः पापी नरके पच्यते नरः ॥ ६२ ॥

स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः ।
सत्यसंयमसंयुक्तास्तेभ्यो दद्याद् द्विजोत्तमाः ॥ ६३ ॥

सुभुक्तमपि विद्वांसं धार्मिकं भोजयेद् द्विजम् ।
न तु मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ॥ ६४ ॥

सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ।
स तेन कर्मणा पापी दहत्यासप्तमं कुलम् ॥ ६५ ॥

यदिस्यादधिको विप्रः शीलविद्यादिभिः स्वयम् ।
तस्मै यत्नेन दातव्यं अतिक्रम्यापि सन्निधिम् ॥ ६६ ॥

यो ऽर्चितं प्रतिगृह्णीयाद् दद्यादर्चितमेव च ।
तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ ६७ ॥

न वार्यपि प्रयच्छेत नास्तिके हैतुके ऽपि च ।
पाषण्डेषु च सर्वेषु नावेदविदि धर्मवित् ॥ ६८ ॥

अपूपं च हिरण्यं च गामश्वं पृथिवीं तिलान् ।
अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत् ॥ ६९ ॥

द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः ।
अपि वा जातिमात्रेभ्यो न तु शूद्रात् कथञ्चन ॥ ७० ॥

वृत्तिसङ्कोचमन्विच्छेन्नेहेत धनविस्तरम् ।
धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ॥ ७१ ॥

वेदानधीत्य सकलान् यज्ञांश्चावाप्य सर्वशः ।
न तां गतिमवाप्नोति सङ्कोचाद् यामवाप्नुयात् ॥ ७२ ॥

प्रतिग्रहरुचिर्न स्यात् यात्रार्थं तु समाहरेत् ।
स्थित्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधोगतिम् ॥ ७३ ॥

यस्तु याचनको नित्यं न स स्वर्गस्य भाजनम् ।
उद्वेजयति भूतानि यथा चौरस्तथैव सः ॥ ७४ ॥

गुरून् भृत्यांश्चोज्जिहीर्षुरर्चिष्यन् देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयं ततः ॥ ७५ ॥

एवं गृहस्थो युक्तात्मा देवतातिथिपूजकः ।
वर्तमानः संयातात्मा याति तत् परमं पदम् ॥ ७६ ॥

पुत्रे निधाय वा सर्वं गत्वारण्यं तु तत्त्ववित् ।
एकाकी विचरेन्नित्यमुदासीनः समाहितः ॥ ७७ ॥

एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः ।
ज्ञात्वानुतिष्ठेन्नियतं तथानुष्ठापयेद् द्विजान् ॥ ७८ ॥

इति देवमनादिमेकमीशं गृहधर्मेण समर्चयेदजस्त्रम् । समतीत्य स सर्वभूतयोनिं प्रकृतिं याति परं न याति जन्म ॥ ७९ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षड्विंशो ऽध्यायः