२५

इन् रेए निच्ह्त् ज़ुल्Äस्सिगे ज़ेइच्हेन्:

व्यास उवाच

विश्वास-प्रस्तुतिः

एष वो ऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः ।
द्विजातेः परमो धर्मो वर्तनानि निबोधत ॥ १ ॥

मूलम्

द्विविधस्तु गृही ज्ञेयः साधकश्चाप्यसाधकः ।
विश्वास-प्रस्तुतिः

अध्यापनं याजनं च पूर्वस्याहुः प्रतिग्रहम् ।
कुसीदकृषिवाणिज्यं प्रकुर्वोतास्वयङ्कृतम् ॥ २ ॥

कृषेरभावाद् वाणिज्यं तदभावात् कुसीदकम् ।
आपत्कल्पो ह्यं ज्ञेयः पूर्वोक्तो मुख्य इष्यते ॥ ३ ॥

स्वयं वा कर्षणं कुर्याद् वाणिज्यं वा कुसीदकम् ।
कष्टा पापीयसी वृत्तिः कुसीदं तद् विवर्जयेत् ॥ ४ ॥

क्षात्रवृत्तिं परां प्रहुर्न स्वयं कर्षणं द्विजैः ।
तस्मात् क्षात्रेण वर्तेत वर्तनेनापदि द्विजः ॥ ५ ॥

तेन चावाप्यजीवंस्तु वैश्यवृत्तिं कृषिं व्रजेत् ।
न कथञ्चन कुर्वोत ब्राह्मणः कर्म कर्षणम् ॥ ६ ॥

लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चापि पूजयेत् ।
ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ॥ ७ ॥

देवेभ्यश्च पितृभ्यश्च दद्याद् भागं तु विंशकम् ।
त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन् न दुष्यति ॥ ८ ॥

वणिक् प्रदद्याद् द्विगुणं कुसीदी त्रिगुणं पुनः ।
कृषीवलो न दोषेण युज्यते नात्र संशयः ॥ ९ ॥

शिलोञ्छं वाप्याददीत गृहस्थः साधकः पुनः ।
विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः ॥ १० ॥

असाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः ।
शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः ॥ ११ ॥

अमृतेनाथवा जीवेन्मृतेनाप्यथवा यदि ।
अयाचितं स्यादमृतं मृतं भेक्षं तु याचितम् ॥ १२ ॥

कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेदश्वस्तनिक एव च ॥ १३ ॥

चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् ।
श्रेयान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ १४ ॥

षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते ।
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥ १५ ॥

वर्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः ।
इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥ १६ ॥

न लोकवृतिं वर्तेत वृत्तिहेतोः कथञ्चन ।
अजिह्मामशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥ १७ ॥

याचित्वा वापि सद्भ्यो ऽन्नं पितॄन्देवांस्तु तोषयेत् ।
याचयेद् वा शुचिं दान्तं न तृप्येत स्वयं ततः ॥ १८ ॥

यस्तु द्रव्यार्जनं कृत्वा गृहस्थस्तोषयेन्न तु ।
देवान् पितृंश्च विधिना शुनां योनिं व्रजत्यसौ ॥ १९ ॥

धर्मश्चार्थश्च कामश्च श्रेयो मोक्षश्चतुष्टयम् ।
धर्माविरुद्धः कामः स्याद् ब्राह्मणानां तु नेतरः ॥ २० ॥

योर्ऽथो धर्माय नात्मार्थः सोर्ऽथो ऽनर्थस्तथेतरः ।
तस्मादर्थं समासाद्य दद्याद् वै जुहुयाद् यजेत् ॥ २१ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चविंशो ऽध्यायः