व्यास उवाच
विश्वास-प्रस्तुतिः
अग्निहोत्रं तु जुहुयादाद्यन्ते ऽहर्निशोः सदा ।
दर्शेन चैव पक्षान्ते पौर्णमासेन चैव हि ॥ १ ॥
मूलम्

शस्यान्ते नवशस्येष्ट्या तथर्त्वन्ते द्विजो ऽध्वरैः ।
पशुना त्वयनस्यान्ते समान्ते सौमिकैर्मखैः ॥ २ ॥

नानिष्ट्वा नवशस्येष्ट्या पशुना वाग्निमान् द्विजः ।
नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः ॥ ३ ॥

नवेनान्नेन चानिष्ट्वा पशुहव्येन चागन्यः ।
प्राणानेवात्तुमिच्छन्ति नवान्नामिषगृद्धिनः ॥ ४ ॥

सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः ।
पितॄंश्चैवाष्टकास्वर्चन् नित्यमन्वष्टकासु च ॥ ५ ॥

एष धर्मः परो नित्यमपधर्मो ऽन्य उच्यते ।
त्रयाणामिह वर्णानां गृहस्थाश्रमवासिनाम् ॥ ६ ॥

नास्तिक्यादथवालस्याद् यो ऽग्नीन् नाधातुमिच्छति ।
यजेत वा न यज्ञेन स याति नरकान् बहून् ॥ ७ ॥

तामिस्त्रमन्धतामिस्त्रं महारौरवरौरवौ ।
कुम्भीपाकं वैतरणीमसिपत्रवनं तथा ॥ ८ ॥
मूलम्
तामिस्त्रमन्धतामिस्त्रं महारौरवरौरवौ ।
कुम्भीपाकं वैतरणीमसिपत्रवनं तथा ॥ ८ ॥
विश्वास-प्रस्तुतिः
अन्यांश्च नरकान् घोरान् सम्प्राप्यान्ते सुदुर्मतिः ।
अन्त्यजानां कुले विप्राः शूद्रयोनौ च जायते ॥ ९ ॥

तस्मात् सर्वप्रयत्नेन ब्राह्मणो हि विशेषतः ।
आधायाग्निं विशुद्धात्मा यजेत परमेश्वरम् ॥ १० ॥

अग्निहोत्रात् परो धर्मो द्विजानां नेह विद्यते ।
तस्मादाराधयेन्नित्यमग्निहोत्रेण शाश्वतम् ॥ ११ ॥

यश्चाधायाग्निमालस्यान्न यष्टुं देवमिच्छति ।
सो ऽसौ मूढो न सम्भाष्यः किं पुनर्नास्तिको जनः ॥ १२ ॥

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं चापि विद्येत स सोमं पातुमर्हति ॥ १३ ॥

एष वै सर्वयज्ञानां सोमः प्रथम इष्यते ।
सोमेनाराधयेद् देवं सोमलोकमहेश्वरम् ॥ १४ ॥

न सोमयागादधिको महेशाराधने क्रतुः ।
समो वा विद्यते तस्मात् सोमेनाभ्यर्चयेत् परम् ॥ १५ ॥

पितामहेन विप्राणामादावभिहितः शुभः ।
धर्मो विमुक्तये साक्षाच्छ्रौतः स्मार्तो द्विधा पुनः ॥ १६ ॥

श्रौतस्त्रेताग्निसम्बन्धात् स्मार्तः पूर्वं मयोदितः ।
श्रेयस्करतमः श्रौतस्तस्माच्छ्रौतं समाचरेत् ॥ १७ ॥

उभावभिहितौ धर्मौ वेदादेव विनिः सृतौ ।
शिष्टाचारस्तृतीयः स्याच्छ्रतिस्मृत्योरलाभतः ॥ १८ ॥

धर्मेणाभिगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥ १९ ॥

तेषामभिमतो यः स्याच्चेतसा नित्यमेव हि ।
स धर्मः कथितः सद्भिर्नान्येषामिति धारणा ॥ २० ॥

पुराणं धर्मशास्त्रं च वेदानामुपबृंहणम् ।
एकस्माद् ब्रह्मविज्ञानं धर्मज्ञानं तथैकतः ॥ २१ ॥

धर्मं जिज्ञासमानानां तत्प्रमाणतरं स्मृतम् ।
धर्मशास्त्रं पुराणं तद् ब्रह्मज्ञाने परा प्रमा ॥ २२ ॥

नान्यतो जायते धर्मो ब्रह्मविद्या च वैदिकी ।
तस्माद् धर्मं पुराणं च श्रद्धातव्यं द्विजातिभिः ॥ २३ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुर्विशो ऽध्यायः