२३

इन् रेए निच्ह्त् ज़ुल्Äस्सिगे ज़ेइच्हेन्:

व्यास उवाच

विश्वास-प्रस्तुतिः

दशाहं प्राहुराशौचं सपिण्डेषु विपश्चितः ।
मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तमाः ॥ १ ॥

मूलम्

नित्यानि चैव कर्माणि काम्यानि च विशेषतः ।
नकुर्याद् विहितं किञ्चित् स्वाध्यायं मनसापिच ॥ २ ॥

शुचीनक्रोधनान् भूम्यान् शालाग्नौ भावयेद् द्विजान् ।
शुष्कान्नेन फलैर्वापि वैतानं जुहुयात् तथा ॥ ३ ॥

न स्पृशेयुरिमानन्ये न च तेभ्यः समाहरेत् ।
चतुर्थे पञ्चमे वाह्नि संस्पर्शः कथितो बुधैः ॥ ४ ॥

सूतके तु सपिण्डानां संस्पर्शो न प्रदुष्यति ।
सूतकं सूतिकां चैव वर्जयित्वा नृणां पुनः ॥ ५ ॥

अधीयानस्तथा यज्वा वेदविच्च पिता भवेत् ।
संस्पृश्याः सर्व एवैते स्नानान्माता दशाहतः ॥ ६ ॥

दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे ।
एकद्वित्रिगुणैर्युक्तं चतुस्त्र्येकदिनैः शुचिः ॥ ७ ॥

दशाहात् तु परं सम्यगधीयीत जुहोति च ।
चतुर्थे तस्य संस्पर्शं मनुराह प्रजापतिः ॥ ८ ॥

क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्याहुर्मरणान्तमशौवकम् ॥ ९ ॥

मूलम्

क्रियाहीनस्य मूर्खस्य महारोगिण एव च ।
यथेष्टाचरणस्याहुर्मरणान्तमशौवकम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

त्रिरात्रं दशरात्रं वा ब्राह्मणानामशौचकम् ।
प्राक्संस्कारात् त्रिरात्रं स्यात् तस्मादूर्ध्वं दशाहकम् ॥ १० ॥

ऊनद्विवार्षिके प्रेते मातापित्रोस्तदिष्यते ।
त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः ॥ ११ ॥

अदन्तजातमरणे पित्रोरेकाहमिष्यते ।
जातदन्ते त्रिरात्रं स्याद् यदि स्यातां तु निर्गुणौ ॥ १२ ॥

आदन्तजननात् सद्य आचौलादेकरात्रकम् ।
त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम् ॥ १३ ॥

जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः ।
मातुश्च सूतकं तत् स्यात् पिता स्यात् स्पृश्य एव च ॥ १४ ॥

सद्यः शौचं सपिण्डानां कर्तव्यं सोदरस्य च ।
ऊर्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ॥ १५ ॥

अथोर्ध्वं दन्तजननात् सपिण्डानामशौचकम् ।
एकरात्रं निर्गुणानां चैलादूर्ध्वं त्रिरात्रकम् ॥ १६ ॥

अदन्तजातमरणं सम्भवेद् यदि सत्तमाः ।
एकरात्रं सपिण्डानां यदि ते ऽत्यन्तनिर्गुणाः ॥ १७ ॥

व्रतादेशात् सपिण्डानामर्वाक् स्नानं विधीयते ।
सर्वेषामेव गुणिनामूर्ध्वं तु विषमं पुनः ॥ १८ ॥

अर्वाक् षण्मासतः स्त्रीणां यदि स्याद् गर्भसंस्त्रवः ।
तदा माससमैस्तासामशौचं दिवसैः स्मृतम् ॥ १९ ॥

तत ऊर्ध्वं तु पतने स्त्रीणां द्वादशरात्रिकम् ।
सद्यः शौचं सपिण्डानां गर्भस्त्रावाच्च वा ततः ॥ २० ॥

गर्भच्युतावहोरात्रं सपिण्डे ऽत्यन्तनिर्गुणे ।
यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः ॥ २१ ॥

यदि स्यात् सूतके सूतिर्मरणे वा मृतिर्भवेत् ।
शेषेणैव भवेच्छुद्धिरहः शेषे त्रिरात्रकम् ॥ २२ ॥

मरणोत्पत्तियोगे तु मरणाच्छुद्धिरिष्यते ।
अघवृद्धिमदाशौचमूर्घ्वं चेत् तेन शुध्यति ॥ २३ ॥

अथ चेत् पञ्चमीरात्रिमतीत्य परतो भवेत् ।
अघवृद्धिमदाशौचं तदा पूर्वेण शुध्यति ॥ २४ ॥

देशान्तरगतं श्रुत्वा सूतकं शावमेव तु ।
तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते ॥ २५ ॥

अतीते सूतके प्रोक्तं सपिण्डानां त्रिरात्रकम् ।
तथैव मरणे स्नानमूर्ध्वं संवत्सराद् यदि ॥ २६ ॥

वेदान्तविच्चाधीयानो यो ऽग्निमान् वृत्तिकर्षितः ।
सद्यः शौचं भवेत् तस्य सर्वावस्थासु सर्वदा ॥ २७ ॥

स्त्रीणामसंस्कृतानां तु प्रदानात् पूर्वतः सदा ।
सपिण्डानां त्रिरात्रं स्यात् संस्कारे भर्तुरेव हि ॥ २८ ॥

अहस्त्वदत्तकन्यानामशौचं मरणे स्मृतम् ।
ऊनद्विवर्षान्मरणे सद्यः शौचमुदाहृतम् ॥ २९ ॥

आदन्तात् सोदरे सद्य आचौलादेकरात्रकम् ।
आप्रदानात् त्रिरात्रं स्याद् दशरात्रमतः परम् ॥ ३० ॥

मातामहानां मरणे त्रिरात्रं स्यादशौचकम् ।
एकोदकानां मरणे सूतके चैतदेव हि ॥ ३१ ॥

पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च ।
एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणि ॥ ३२ ॥

प्रेते राजनि सज्योतिर्यस्य स्याद् विषये स्थितिः ।
गृहे मृतासु दत्तासु कन्यकासु त्र्यहं पितुः ॥ ३३ ॥

परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च ।
त्रिरात्रं स्यात् तथाचार्ये स्वभार्यास्वन्यगासु च ॥ ३४ ॥

आचार्यपुत्रे पत्न्यां च अहोरात्रमुदाहृतम् ।
एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रिये ऽपि च ॥ ३५ ॥

त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च ।
एकाहं चास्ववर्ये स्यादेकरात्रं तदिष्यते ॥ ३६ ॥

त्रिरात्रं श्वश्रूमरणे श्वशुरे वै तदेव हि ।
सद्यः शौचं समुद्दिष्टं सगोत्रे संस्थिते सति ॥ ३७ ॥

शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्यति ॥ ३८ ॥

क्षत्रविट्शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः ।
तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥ ३९ ॥

राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु ।
स्वमेव शौचं कुर्यातां विशुद्ध्यर्थमसंशयम् ॥ ४० ॥

सर्वे तूत्तरवर्णानामशौचं कुर्युरादृताः ।
तद्वर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु ॥ ४१ ॥

षड्रात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण हि ।
वैश्यक्षत्रियविप्राणां शूद्रेष्वाशौचमेव तु ॥ ४२ ॥

अर्धमासो ऽथ षड्रात्रं त्रिरात्रं द्विजपुङ्गवाः ।
शूद्रक्षत्रियविप्राणां वैश्येष्वाशौचमिष्यते ॥ ४३ ॥

षड्रात्रं वै दशाहं च विप्राणां वैश्यशूद्रयोः ।
अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुङ्गवाः ॥ ४४ ॥

शूद्रविट्क्षत्रियाणां तु ब्राह्मणे संस्थिते सति ।
दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ॥ ४५ ॥

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
अशित्वा च सहोषित्वा दशरात्रेण शुध्यति ॥ ४६ ॥

यद्यन्नमत्ति तेषां तु त्रिरात्रेण ततः शुचिः ।
अनदन्नन्नमह्नैव न च तस्मिन् गृहे वसेत् ॥ ४७ ॥

सोदकेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु ।
दशाहेन शवस्पर्शे सपिण्डश्चैव शुध्यति ॥ ४८ ॥

यदि निर्हरति प्रेतं प्रोलभाक्रान्तमानसः ।
दशाहेन द्विजः शुध्येद् द्वादशाहेन भूमिपः ॥ ४९ ॥

अर्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति ।
षड्रात्रेणाथवा सर्वे त्रिरात्रेणाथवा पुनः ॥ ५० ॥

अनाथं चैव निर्हृत्य ब्राह्मणं धनवर्जितम् ।
स्नात्वा सम्प्राश्य तु घृतं शुध्यन्ति ब्राह्मणादयः ॥ ५१ ॥

अवरश्चेद् वरं वर्णमवरं वा वरो यदि ।
अशौचे संस्पृशेत् स्नेहात् तदाशौचेन शुध्यति ॥ ५२ ॥

प्रेतीभूतं द्विजं विप्रो यो ऽनुगच्छत कामतः ।
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ ५३ ॥

एकाहात् क्षत्रिये शुद्धिर्वैश्ये स्याच्च द्व्यहेन तु ।
शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥ ५४ ॥

अनस्थिसञ्चिते शूद्रे रौति चेद् ब्राह्मणः स्वकैः ।
त्रिरात्रं स्यात् तथाशौचमेकाहं त्वन्यथा स्मृतम् ॥ ५५ ॥

अस्थिसञ्चयनादर्वागेकाहं क्षत्रवैश्ययोः ।
अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु ॥ ५६ ॥

अनस्थिसञ्चित् विप्रे ब्राह्मणो रौति चेत् तदा ।
स्नानेनैव भवेच्छुद्धिः सचैलेन न संशयः ॥ ५७ ॥

यस्तैः सहाशनं कुर्याच्छयनादीनि चैव हि ।
बान्धवो वापरो वापि स दशाहेन शुध्यति ॥ ५८ ॥

यस्तेषामन्नमश्नाति सकृदेवापि कामतः ।
तदाशौचे निवृत्ते ऽसौ स्नानं कृत्वा विशुध्यति ॥ ५९ ॥

यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः ।
तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत् ॥ ६० ॥

दाहाद्यशौचं कर्तव्यं द्विजानामग्निहोत्रिणाम् ।
सपिण्डानां तु मरणे मरणादितरेषु च ॥ ६१ ॥

सपिण्डता च पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ ६२ ॥

मूलम्

सपिण्डता च पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ ६२ ॥

विश्वास-प्रस्तुतिः

पिता पितामहश्चैव तथैव प्रपितामहः ।
लेपभाजस्त्रयश्चात्मा सापिण्ड्यं साप्तपौरुषण् ॥ ६३ ॥

अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम् ।
ऊढानां भर्तुसापिण्ड्यं प्राह देवः पितामहः ॥ ६४ ॥

ये चैकजाता बहवो भिन्नयोनय एव च ।
भिन्नवर्णास्तु सापिण्ड्यं भवेत् तेषां त्रिपूरुषम् ॥ ६५ ॥

कारवः शिल्पिनो वैद्या दासीदासास्तथैव च ।
दातारो नियमी चैव ब्रह्मविद्ब्रह्मचारिणौ ॥ ६६ ॥

सत्रिणो व्रतिनस्तावत् सद्यः शौचा उदाहृताः ।
राजा चैवाभिषिक्तश्च प्राणसत्रिण एव च ॥ ६७ ॥

यज्ञे विवाहकाले च देवयागे तथैव च ।
सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपद्रवे ॥ ६८ ॥

डिम्बाहवहतानां च विद्युता पार्थिवैर्द्विजैः ।
सद्यः शौचं समाख्यातं सर्पादिमरणे तथा ॥ ६९ ॥

अग्नौ मरुप्रपतने वीराध्वन्यप्यनाशके ।
ब्राह्मणार्थे च सन्न्यस्ते सद्यः शौचं विधीयते ॥ ७० ॥

नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् ।
नाशौचं कीर्त्यते सद्भिः पतिते च तथा मृते ॥ ७१ ॥

पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः ।
न चाश्रुपातपिण्डौ वा कार्यं श्राद्धादि कङ्क्वचित् ॥ ७२ ॥

व्यापादयेत् तथात्मानं स्वयं यो ऽग्निविषादिभिः ।
विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकम् ॥ ७३ ॥

अथ कश्चित् प्रमादेन म्रियते ऽग्निविषादिभिः ।
तस्याशौचं विधातव्यं कार्यं चैवोदकादिकम् ॥ ७४ ॥

जाते कुमारे तदहः कामं कुर्यात् प्रतिग्रहम् ।
हिरण्यधान्यगोवासस्तिलान्नगुडसर्पिषाम् ॥ ७५ ॥

फलानि पुष्पं शाकं च लवणं काष्ठमेव च ।
विश्वास-प्रस्तुतिः

तोयं दधि घृतं तैलमौषधं क्षीरमेव च ।
आशौचिनां गृहाद् ग्राह्यं शुष्कान्नं चैव नित्यशः ॥ ७६ ॥

आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः ।
अनाहिताग्निर्गृह्येण लौकिकेनेतरो जनः ॥ ७७ ॥

देहाभावात् पलाशैस्तु कृत्वा प्रतिकृतिं पुनः ।
दाहः कार्यो यथान्यायं सपिण्डैः श्रद्धयान्वितैः ॥ ७८ ॥

सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः ।
दशाहं बान्धवैः सार्धं सर्वे चैवार्द्रवाससः ॥ ७९ ॥

पिण्डं प्रतिदिनं दद्युः सायं प्रातर्यथाविधि ।
प्रेताय च गृहद्वारि चतुर्थे भोजयेद् द्विजान् ॥ ८० ॥

द्वितीये ऽहनि कर्तव्यं क्षुरकर्म सबान्धवैः ।
विश्वास-प्रस्तुतिः

चतुर्थे बान्धवैः सर्वैरस्थनां सञ्चयनं भवेत् ।
पूर्वं तु भोजयेद् विप्रानयुग्मान् श्रद्धया शुचीन् ॥ ८१ ॥

पञ्चमे नवमे चैव तथैवैकादशे ऽहनि ।
अयुग्मान् भोजयेद् विप्रान् नवश्राद्धं तु तद्विदुः ॥ ८२ ॥

एकादशे ऽह्नि कुर्वोत प्रेतमुद्दिश्य भावतः ।
विश्वास-प्रस्तुतिः

द्वादशे वाथ कर्तव्यमनिन्द्ये त्वथवाहनि ।
एकं पवित्रमेकोर्ऽघः पिण्डपात्रं तथैव च ॥ ८३ ॥

एवं मृताह्नि कर्तव्यं प्रतिमासं तु वत्सरम् ।
सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः ॥ ८४ ॥

कुर्याच्चत्वारि पात्राणि प्रेतादीनां द्विजोत्तमाः ।
प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत् ततः ॥ ८५ ॥

ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ।
सपिण्डीकरणं श्राद्धं देवपूर्वं विधीयते ॥ ८६ ॥

पितॄनावाहयेत् तत्र पुनः प्रेतं च निर्दिशेत् ।
विश्वास-प्रस्तुतिः

ये सपिण्डीकृताः प्रेतान तेषां स्यात् पृथक्क्रियाः ।
यस्तु कुर्यात् पृथक् पिण्डं पितृहा सो ऽभिजायते ॥ ८७ ॥

मृते पितरि वै पुत्रः पिण्डमब्दं समाचरेत् ।
दद्याच्चान्नं सोदकुम्भं प्रत्यहं प्रेतधर्मतः ॥ ८८ ॥

पार्वणेन विधानेन संवत्सरिकमिष्यते ।
प्रतिसंवत्सरं कार्यं विधिरेष सनातनः ॥ ८९ ॥

मातापित्रोः सुतैः कार्यं पिण्डदानादिकं च यत् ।
पत्नी कुर्यात् सुताभावे पत्न्य भावे सहोदहः ॥ ९० ॥

अनेनैव विधाने जीवन् वा श्राद्धमाचरेत् ।
कृत्वा दानादिकं सर्वं श्रद्धायुक्तः समाहितः ॥ ९१ ॥

एष वः कथितः सम्यग् गृहस्थानां क्रियाविधिः ।
स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्य इहेष्यते ॥ ९२ ॥

स्वधर्मपरमो नित्यमीश्विरार्पितमानसः ।
प्राप्नोति तत् परं स्थानं यदुक्तं वेदवादिभिः ॥ ९३ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयोविंशो ऽध्यायः