२२

इन् रेए निच्ह्त् ज़ुल्Äस्सिगे ज़ेइच्हेन्:

व्यास उवाच

विश्वास-प्रस्तुतिः

गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः ।
सन्निपात्य द्विजान् सर्वान् साधुभिः सन्निमन्त्रयेत् ॥ १ ॥

मूलम्

श्वो भविष्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च ।
असम्भवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान् ॥ २ ॥

तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।
अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवाः ॥ ३ ॥

ब्राह्मणैस्ते सहाश्नन्ति पितरो ह्यन्तरिक्षगाः ।
वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥ ४ ॥

आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते ।
वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः ॥ ५ ॥

अक्रोधनो ऽत्वरो ऽमत्तः सत्यवादी समाहितः ।
भारं मैथुनमध्वानं श्राद्धकृद् वर्जयेज्जपम् ॥ ६ ॥

आमन्त्रितो ब्राह्मणो वा यो ऽन्यस्मै कुरुते क्षणम् ।
स याति नरकं घोरं सूकरत्वां प्रायाति च ॥ ७ ॥

आमन्त्रयित्वा यो मोहादन्यं चामन्त्रयेद् द्विजम् ।
स तस्मादधिकः पापी विष्ठाकीटो ऽभिजायते ॥ ८ ॥

श्राद्धे निमन्त्रितो विप्रो मैथुनं यो ऽधिगच्छति ।
ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते ॥ ९ ॥

निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः ।
भवन्ति पितरस्तस्य तं मासं पांशुभोजनाः ॥ १० ॥

निमन्त्रितस्तु यः श्राद्धे प्रकुर्यात् कलहं द्विजः ।
भवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥ ११ ॥

तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेद् द्विजः ।
अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः ॥ १२ ॥

श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितः ।
समूलानाहरेद् वारि दक्षिणाग्रान् सुनिर्मलान् ॥ १३ ॥

दक्षिणाप्रवणं स्निग्धं विभक्तं शुभलक्षणम् ।
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ॥ १४ ॥

नदीतीरेषु तीर्थेषु स्वभूमौ चैव सानुषु ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ १५ ॥

पारक्ये भूमिभागे तु पितॄणां नैव निर्वपेत् ।
स्वामिभिस्तद् विहन्येत मोहाद् यत् क्रियते नरैः ॥ १६ ॥

अटव्यः पर्वताः पुण्यास्तीर्थान्यायतनानि च ।
सर्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः ॥ १७ ॥

तिलान् प्रविकिरेत् तत्र सर्वतो बन्धयेदजान् ।
असुरोपहतं सर्वं तिलैः शुद्ध्यत्यजेन वा ॥ १८ ॥

ततो ऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् ।
चोष्यपेयसमृद्धं च यथाशक्त्या प्रकल्पयेत् ॥ १९ ॥

ततो निवृत्ते मध्याह्ने लुप्तलोमनखान् द्विजान् ।
अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम् ॥ २० ॥

तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् ।
पात्रैरौदुम्बरैर्दद्याद् वैश्वदैवत्यपूर्वकम् ॥ २१ ॥

ततः स्नात्वा निवृत्तेभ्यः प्रत्युत्थायकृताञ्जलिः ।
पाद्यमाचमनीयं च सम्प्रयच्छेद् यथाक्रमम् ॥ २२ ॥

ये चात्र विश्वेदेवानां विप्राः पूर्वं निमन्त्रिताः ।
प्राङ्मुखान्यासनान्येषां त्रिदर्भोपहितानि च ॥ २३ ॥

दक्षिणामुखयुक्तानि पितॄणामासनानि च ।
दक्षिणाग्रैकदर्भाणि प्रोक्षितानि तिलोदकैः ॥ २४ ॥

तेषूपवेशयेदेतानासनं स्पृश्य स द्विजम् ।
आसध्वमिति सञ्जल्पन् आसनास्ते पृथक् पृथक् ॥ २५ ॥

द्वौ दैवे प्राङ्मुखौ पित्र्ये त्रयश्चोदङ्मुखास्तथा ।
एकैकं वा भवेत् तत्र देवमातामहेष्वपि ॥ २६ ॥

सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ २७ ॥

अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् ।
श्रुतशीलादिसम्पन्नमलक्षणविवर्जितम् ॥ २८ ॥

उद्धृत्य पात्रे चान्नं तत् सर्वस्मात् प्रकृतात् पुनः ।
देवतायतने चास्मै निवेद्यान्यत्प्रवर्तयेत् ॥ २९ ॥

प्रास्येदग्नौ तदन्नं तु दद्याद् वा ब्रह्मचारिणे ।
तस्मादेकमपि श्रेष्ठं विद्वांसं भोजयेद् द्विजम् ॥ ३० ॥

भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ॥ ३१ ॥

अतिथिर्यस्य नाश्नाति न तच्छ्राद्धं प्रशस्यते ।
तस्मात् प्रयत्नाच्छ्राद्धेषु पूज्या ह्यतिथयो द्विजैः ॥ ३२ ॥

आतिथ्यरहिते श्राद्धे भुञ्जते ये द्विजातयः ।
काकयोनिं व्रजन्त्येते दाता चैव न संशयः ॥ ३३ ॥

हीनाङ्गः पतितः कुष्ठी व्रणी पुक्कसनास्तिकौ ।
कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ॥ ३४ ॥

बीभत्सुमशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् ।
नीलकाषायवसनं पाषण्डांश्च विवर्जयेत् ॥ ३५ ॥

यत् तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति ।
तत्सर्वमेव कर्तव्यं वैश्वदैवत्यपूर्वकम् ॥ ३६ ॥

यथोपविष्टान् सर्वांस्तानलङ्कुर्याद् विभूषणः ।
स्त्रग्दामभिः शिरोवेष्टैर्धूपवासो ऽनुलेपनैः ॥ ३७ ॥

ततस्त्वावाहयेद् देवान् ब्राह्मणानामनुज्ञया ।
उदङ्मुखो यथान्यायं विश्वे देवास इत्यृचा ॥ ३८ ॥

द्वे पवित्रे गृहीत्वाथ भाजने क्षालिते पुनः ।
शं नो देव्या जलं क्षिप्त्वा यवो ऽसीति यवांस्तथा ॥ ३९ ॥

या दिव्या इति मन्त्रण हस्ते त्वर्घं विनिक्षिपेत् ।
प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः ॥ ४० ॥

अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः ।
आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः ॥ ४१ ॥

आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ।
शं नो देव्योदकं पात्रे तिलो ऽसीति तिलांस्तथा ॥ ४२ ॥

क्षिप्त्वा चार्घं यथापूर्वं दत्त्वा हस्तेषु वै पुनः ।
विश्वास-प्रस्तुतिः

संस्त्रवांश्च ततः सर्वान् पात्रे कुर्यात् समाहितः ।
पितृभ्यः स्थानमेतेन न्युब्जं पात्रं निधापयेत् ॥ ४३ ॥

अग्नौ करिष्येत्यादाय पृच्छत्यन्नं घृतप्लुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान् ॥ ४४ ॥

यज्ञोपवीतिना होमः कर्तव्यः कुशपाणिना ।
प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवत् ॥ ४५ ॥

दक्षिणं पातयेज्जानुं देवान् परिचरन् पुमान् ।
पितृणां परिचर्यासु पातयेदितरं तथा ॥ ४६ ॥

सोमाय वै पितृमते स्वधा नम इति ब्रुवन् ।
अग्नये कव्यवाहनाय स्वधेति जुहुयात् ततः ॥ ४७ ॥

अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
महादेवान्तिके वाथ गोष्ठे वा सुसमाहितः ॥ ४८ ॥

ततस्तैरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् ।
गोमयेनोपतिप्योर्वों स्थानं कृत्वा तु सैकतम् ॥ ४९ ॥

मण्डलं चतुरस्त्रं वा दक्षिणावनतं शुभम् ।
त्रिरुल्लिखेत् तस्य मध्यं दर्भेणैकेन चैव हि ॥ ५० ॥

ततः संस्तीर्य तत्स्थाने दर्भान् वैदक्षिणाग्रकान् ।
त्रीन् पिण्डान् निर्वपेत् तत्र हविः शेषात्समाहितः ॥ ५१ ॥

न्युप्य पिण्डांस्तु तं हस्तं निमृज्याल्लेपभागिनाम् ।
विश्वास-प्रस्तुतिः

तेषु दर्भेष्वथाचम्य त्रिरायम्य शनैरसून् ।
तदन्नं तु नमस्कुर्यात् पितॄनेव च मन्त्रवित् ॥ ५२ ॥

उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।
अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ ५३ ॥

अथ पिण्डावशिष्टान्नं विधिना भोजयेद् द्विजान् ।
मांसान्यपूपान् विविधान् दद्यात् कृसरपायसम् ॥ ५४ ॥

सूपशाकफलानीक्षून् पयो दधि घृतं मधु ।
अन्नं चैव यथाकामं विविधं भक्ष्यपेयकम् ॥ ५५ ॥

यद् यदिष्टं द्विजेन्द्राणां तत्सर्वं विनिवेदयेत् ।
धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा ॥ ५६ ॥

उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ।
अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ॥ ५७ ॥

नाश्रूणि पातयेज्जातु न कुप्येन्नानृतं वदेत् ।
न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥ ५८ ॥

क्रोधेन चैव यत् दत्तं यद् भुक्तं त्वरया पुनः ।
यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ॥ ५९ ॥

स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजन्मनाम् ।
विश्वास-प्रस्तुतिः

न चात्र श्येनकाकादीन् पक्षिणः प्रतिषेधयेत् ।
तद्रूपाः पितरस्तत्र समायान्ति बुभुक्षवः ॥ ६० ॥

न दद्यात् तत्र हस्तेन प्रत्यक्षलवणं तथा ।
न चायसेन पात्रेण न चैवाश्रद्धया पुनः ॥ ६१ ॥

काञ्चनेन तु पात्रेण राजतौदुम्बरेण वा ।
दत्तमक्षयतां याति खड्गेन च विशेषतः ॥ ६२ ॥

पात्रे तु मृण्मये यो वै श्राद्धे भोजयते पितन् ।
स याति नरकं घोरं भोक्ता चैव पुरोधसः ॥ ६३ ॥

न पङ्क्त्यां विषमं दद्यान्न याचेन्न च दापयेत् ।
याचिता दापिता दाता नरकान् यान्ति दारुणान् ॥ ६४ ॥

भुञ्जीरन् वाग्यताः शिष्टा न ब्रूयुः प्राकृतान् गुणान् ।
तावद्धि पितरो ऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ ६५ ॥

नाग्रासनोपविष्टस्तु भुञ्जोत प्रथमं द्विजः ।
बहूनां पश्यतां सो ऽज्ञः पङ्क्त्या हरति किल्बिषम् ॥ ६६ ॥

न किञ्चिद् वर्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः ।
न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ॥ ६७ ॥

यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्मणि ।
स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ॥ ६८ ॥

स्वाध्यायं श्रावयेदेषां धर्मशास्त्राणि चैव हि ।
इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ॥ ६९ ॥

ततो ऽन्नमुत्सृजेद् भुक्ते अग्रतो विकिरन् भुवि ।
पृष्ट्वा तृप्ताः स्थ इत्येवं तृप्तानाचामयेत् ततः ॥ ७० ॥

आचान्ताननुजानीयादभितो रम्यतामिति ।
स्वधास्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥ ७१ ॥

ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।
यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्तु वै द्विजैः ॥ ७२ ॥

पित्र्ये स्वदित इत्येव वाक्यं गोष्ठेषु सूनृतम् ।
सम्पन्नमित्यभ्युदये दैवे रोचत इत्यपि ॥ ७३ ॥

विसृज्य ब्राह्मणांस्तान् वै दैवपूर्वं तु वाग्यतः ।
दक्षिणां दिशमाकाङ् क्षन्याचेतेमान् वरान् पितॄन् ॥ ७४ ॥

दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो मा व्यगमद् बहुदेयं च नोस्त्त्विति ॥ ७५ ॥

पिण्डांस्तु गो ऽजविप्रेभ्यो दद्यादग्नौ जले ऽपि वा ।
मध्यमं तु ततः पिण्डमद्यात् पत्नी सुतार्थिनी ॥ ७६ ॥

प्रक्षाल्य हस्तावाचम्य ज्ञातीन् शेषेण तोषयेत् ।
विश्वास-प्रस्तुतिः

ज्ञातिष्वपि चतुष्टेषु स्वान् भृत्यान् भोजयोत् ततः ।
पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ॥ ७७ ॥

नोद्वासयेत् तदुच्छिष्टं यावन्नास्तङ्गतो रविः ।
ब्रह्मचारी भवेतां तु दम्पती रजनीं तु ताम् ॥ ७८ ॥

दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् ।
महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ॥ ७९ ॥

शुचिरक्रोधनः शान्तः सत्यवादी समाहितः ।
स्वाध्यायं च तथाध्वानं कर्ता भोक्ता च वर्जयेत् ॥ ८० ॥

श्राद्धं भुक्त्वा परश्राद्धं भुञ्जते ये द्विजातयः ।
महापातिकिभिस्तुल्या यान्ति ते नरकान् बहून् ॥ ८१ ॥

एष वो विहितः सम्यक् श्राद्धकल्पः सनातनः ।
आमेन वर्तयेन्नित्यमुदासीनो ऽथ तत्त्ववित् ॥ ८२ ॥

अनग्निरध्वगो वापि तथैव व्यसनान्वितः ।
विश्वास-प्रस्तुतिः

आमश्राद्धं द्विजः कुर्याद् विधिज्ञः श्रद्धयान्वितः ।
तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ॥ ८३ ॥

यो ऽनेन विधिना श्राद्धं कुर्यात् संयतमानसः ।
व्यपेतकल्पषो नित्यं योगिनां वर्तते पदम् ॥ ८४ ॥

तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्याद् द्विजोत्तमः ।
आराधितो भवेदीशस्तेन सम्यक् सनातनः ॥ ८५ ॥

अपि मूलैर्फलैर्वापि प्रकुर्यान्निर्धनो द्विजः ।
तिलोदकैस्तर्पयेद् वा पितॄन् स्नात्वा समाहितः ॥ ८६ ॥

न जीवत्पितृको दद्याद्धोमान्तं चाभिधीयते ।
येषां वापि पिता दद्यात् तेषां चैके प्रचक्षते ॥ ८७ ॥

पिता पितामहश्चैव तथैव प्रपितामहः ।
यो यस्य म्रियते तस्मै देयं नान्यस्य तेन तु ॥ ८८ ॥

भोजयेद् वापि जीवन्तं यथाकामं तु भक्तितः ।
न जीवन्तमतिक्रम्य ददाति श्रूयते श्रुतिः ॥ ८९ ॥

द्व्यामुष्यायणिको दद्याद् बीजिक्षेत्रिकयोः समम् ।
ऋक्यादर्धं समादद्यान्नियोगोत्पादितो यदि ॥ ९० ॥

अनियुक्तः सुतो यश्च शुल्कतो जायते त्विह ।
प्रदद्याद् बीजिने पिण्डं क्षेत्रिणे तु ततो ऽन्यथा ॥ ९१ ॥

द्वौ पिण्डौ निर्वपेत् ताभ्यां क्षेत्रिणे बीजिने तथा ।
कीर्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ॥ ९२ ॥

मृताहनि तु कर्तव्यमेकोदिष्टं विधानतः ।
अशौचे स्वे परिक्षीणे काम्यं वै कामतः पुनः ॥ ९३ ॥

पूर्वाह्ने चैव कर्तव्यं श्राद्धमभ्युदयार्थिना ।
देववत्सर्वमेव स्याद् यवैः कार्या तिलक्रिया ॥ ९४ ॥

दर्भाश्च ऋजवः कार्या युग्मान् वै भोजयेद् द्विजान् ।
नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् ॥ ९५ ॥

मातृश्राद्धं तु पूर्वं स्यात् पितॄणां स्यादनन्तरम् ।
ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम् ॥ ९६ ॥

दवपूर्वं प्रदद्याद् वै न कुर्यादप्रदक्षिणम् ।
प्राङ्मुखो निर्वपेत् पिण्डानुपवीती समाहितः ॥ ९७ ॥

पूर्वं तु मातरः पूज्या भक्त्या वै सगणेश्वराः ।
स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ॥ ९८ ॥

पुष्पेर्धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि ।
पूजयित्वा मातृगणं कूर्याच्छ्राद्धत्रयं बुधः ॥ ९९ ॥

अकृत्वा मातृयागं तु यः श्राद्धं परिवेषयेत् ।
तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥ १०० ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वाविशो ऽध्यायः