व्यास उवाच
विश्वास-प्रस्तुतिः
स्नात्वा यथोक्तं सन्तर्प्य पितॄंश्चन्द्रक्षये द्विजः ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यात् सौम्यमनाः शुचिः ॥ १ ॥
मूलम्

पूर्वमेव परीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थं तद् हव्यकव्यानां प्रदाने चातिथिः स्मृतः ॥ २ ॥

ये सोमपा विरजसो धर्मज्ञाः शान्तचेतसः ।
व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥ ३ ॥

पञ्चाग्निरप्यधीयानो यजुर्वेदविदेव च ।
बह्वृचश्च त्रिसौपर्णस्त्रिमधुर्वाथ यो भवेत् ॥ ४ ॥

त्रिणाचिकेतच्छन्दोगो ज्येष्ठसामग एव च ।
अथर्वशिरसो ऽध्येता रुद्राध्यायी विशेषतः ॥ ५ ॥

अग्निहोत्रपरो विद्वान् न्यायविच्च षडङ्गवित् ।
मन्त्रब्राह्मणविच्चैव यश्च स्याद् धर्मपाठकः ॥ ६ ॥

ऋषिव्रती ऋषीकश्च तथा द्वादशवार्षिकः ।
ब्रह्मदेयानुसन्तानो गर्भशुद्धः सहस्रदः ॥ ७ ॥

चान्द्रायणव्रतचरः सत्यवादी पुराणवित् ।
गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥ ८ ॥

विमुक्तः सर्वतो धीरो ब्रह्मभूतो द्विजोत्तमः ।
महादेवार्चनरतो वैष्णवः पङ्क्तिपावनः ॥ ९ ॥

अहिंसानिरतो नित्यमप्रतिग्रहणस्तथा ।
सत्रिणो दाननिरता विज्ञेयाः पङ्क्तिपावनाः ॥ १० ॥

युवानः श्रोत्रियाः स्वस्था महायज्ञपरायणाः ।
सावित्रीजापनिरता ब्राह्मणाः पङ्क्तिपावनाः ॥ ११ ॥

कुलीनाः श्रुतवन्तश्च शीलवन्तस्तपस्विनः ।
अग्निचित्स्नातका विप्रा विज्ञेयाः पङ्क्तिपावनाः ॥ १२ ॥

मातापित्रोर्हिते युक्तः प्रातः स्नायी तथा द्विजः ।
अध्यात्मविन्मुनिर्दान्तो विज्ञेयः पङ्क्तिपावनः ॥ १३ ॥

ज्ञाननिष्ठो महायोगी वेदान्तार्थविचिन्तकः ।
श्रद्धालुः श्राद्धनिरतो ब्राह्मणः पङ्क्तिपावनः ॥ १४ ॥

वेदविद्यारतः स्नातो ब्रह्मचर्यपरः सदा ।
अथर्वणो मुमुक्षुश्च ब्राह्मणः पङ्क्तिपावनः ॥ १५ ॥

असमानप्रवरको ह्यसगोत्रस्तथैव च ।
असम्बन्धी च विज्ञेयो ब्राह्मणः पङ्क्तिपावनः ॥ १६ ॥

भोजयेद् योगिनं पूर्वं तत्त्वज्ञानरतं यतिम् ।
अलाभे नैष्ठिकं दान्तमुपकुर्वाणकं तथा ॥ १७ ॥

तदलाभे गृहस्थं तु मुमुक्षुं सङ्गवर्जितम् ।
सर्वालाभे साधकं वा गृहस्थमपि भोजयेत् ॥ १८ ॥

प्रकृतेर्गुणतत्त्वज्ञो यस्याश्नाति यतिर्हविः ।
फलं वेदविदां तस्य सहस्रादतिरिच्यते ॥ १९ ॥

तस्माद् यत्नेन योगीन्द्रमीश्वरज्ञानतत्परम् ।
भोजयेद् हव्यकव्येषु अलाभादितरान् द्विजान् ॥ २० ॥

एष वै प्रथमः कल्पः प्रिदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ २१ ॥

मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥ २२ ॥

न श्राद्धे भोजयेन्मित्रं धनैः कार्यो ऽस्य सङ्ग्रहः ।
पैशाची दक्षिणा सा हि नैवामुत्र फलप्रदा ॥ २३ ॥

काम श्राद्धे ऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ २४ ॥

ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ।
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ २५ ॥

यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम् ।
तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥ २६ ॥

यावतो ग्रसते पिण्डान् हव्यकव्येष्वमन्त्रवित् ।
तावतो ग्रसते प्रेत्य दीप्तान् स्थूलांस्त्वयोगुडान् ॥ २७ ॥

अपि विद्याकुलैर्युक्ता हीनवृत्ता नराधमाः ।
यत्रैते भुञ्जते हव्यं तद् भवेदासुर द्विजाः ॥ २८ ॥

यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
स वै दुर्ब्राह्मणो नार्हः श्राद्धादिषु कदाचन ॥ २९ ॥

शूद्रप्रेष्यो भृतो राज्ञो वृषलो ग्रामयाजकः ।
बधबन्धोपजीवी च षडेते ब्रह्मबन्धवः ॥ ३० ॥

दत्तानुयोगान् वृत्यर्थं पतितान् मनुरब्रवीत् ।
वेदविक्रायिणो ह्येते श्राद्धादिषु विगर्हिताः ॥ ३१ ॥

श्रुतिविक्रयिणो ये तु परपूर्वासमुद्भवाः ।
असमानान् याजयन्ति पतितास्ते प्रकीर्तिताः ॥ ३२ ॥

असंस्कृताध्यापका ये भृत्या वाध्यापयन्ति ये ।
अधीयते तथा वेदान् पतितास्ते प्रकीर्तिताः ॥ ३३ ॥

वृद्धश्रावकनिर्ग्रन्थाः पञ्चरात्रविदो जनाः ।
कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥ ३४ ॥

यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ।
न तस्य तद् भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम् ॥ ३५ ॥

अनाश्रमो यो द्विजः स्यादाश्रमी वा निरर्थकः ।
मिथ्याश्रमी च ते विप्रा विज्ञेयाः पङ्क्तिदूषकाः ॥ ३६ ॥

दुश्चर्मा कुनखी कुष्ठी श्वित्री च श्यावदन्तकः ।
विद्धप्रजननश्चैव स्तेनः क्लीबो ऽथ नास्तिकः ॥ ३७ ॥

मद्यपो वृषलीसक्तो वीरहा दिधिषूपतिः ।
आगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः ॥ ३८ ॥

परिवेत्ता तथा हिंस्त्रः परिवित्तिर्निराकृतिः ।
पौनर्भवः कुसीदी च तथा नक्षत्रदर्शकः ॥ ३९ ॥

गीतवादित्रनिरतो व्याधितः काण एव च ।
हीनाङ्गश्चातिरिक्ताङ्गो ह्यवकीर्णिस्तथैव च ॥ ४० ॥

कन्यादूषी कुण्डगोलौ अभिशस्तो ऽथ देवलः ।
मित्रध्रुक् पिशुनश्चैव नित्यं भार्यानुवर्तकः ॥ ४१ ॥

मातापित्रोर्गुरोस्त्यागी दारत्यागी तथैव च ।
गोत्रभिद् भ्रष्टशौचश्च काण्डस्पृष्टस्तथैव च ॥ ४२ ॥

अनपत्यः कूटसाक्षी याचको रङ्गजीवकः ।
समुद्रयायी कृतहा तथा समयभेदकः ॥ ४३ ॥
मूलम्
अनपत्यः कूटसाक्षी याचको रङ्गजीवकः ।
समुद्रयायी कृतहा तथा समयभेदकः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
देवनिन्दापरश्चैव वेदनिन्दारतस्तथा ।
द्विजनिन्दारतश्चैते वर्ज्याः श्राद्धादिकर्मसु ॥ ४४ ॥

कृतघ्नः पिशुनः क्रूरो नास्तिको वेदनिन्दकः ।
मित्रध्रुक् कुहकश्चैव विशेषात् पङ्क्तिदूषकाः ॥ ४५ ॥

सर्वे पुनरभोज्यान्नास्त्वदानार्हाश्च कर्मसु ।
ब्रह्मभावनिरस्ताश्च वर्जनीयाः प्रयत्नतः ॥ ४६ ॥

शूद्रान्नरसपुष्टाङ्गः सन्ध्योपासनवर्जितः ।
महायज्ञविहीनश्च ब्राह्मणः पङ्क्तिदूषकः ॥ ४७ ॥

अधीतनाशनश्चैव स्नानहोमविवर्जितः ।
तामसो राजसश्चैव ब्राह्मणः पङ्क्तिदूषकः ॥ ४८ ॥

बहुनात्र किमुक्तेन विहितान् ये न कुर्वते ।
निन्दितानाचरन्त्येते वर्जनीयाः प्रयत्नतः ॥ ४९ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकविशो ऽध्याय