व्यास उवाच
विश्वास-प्रस्तुतिः
अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।
पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ १ ॥
मूलम्

पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
अपराह्ने द्विजातीनां प्रशस्तेनामिषेण च ॥ २ ॥

प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके ।
चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तराः ॥ ३ ॥

अमावास्याष्टकास्तिस्त्रः पौषमासादिषु त्रिषु ।
तिस्त्रश्चान्वष्टकाः पुण्या माघी पञ्चदशी तथा ॥ ४ ॥

त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।
शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ॥ ५ ॥

नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नारकी स्यादतो ऽन्यथा ॥ ६ ॥

काम्यानि चैव श्राद्धानि शस्यान्ते ग्रहणादिषु ।
अयने विषुवे चैव व्यतीपाते ऽप्यनन्तकम् ॥ ७ ॥

सङ्क्रान्त्यमक्षयं श्राद्धं तथा जन्मदिनेष्वपि ।
नक्षत्रेषु च सर्वेषु कार्यं काम्यं विशेषतः ॥ ८ ॥

स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमः ।
अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ॥ ९ ॥

रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च ।
पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ॥ १० ॥

सर्वान् कामांस्तथा सार्पे पित्र्ये सौभाग्यमेव च ।
अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम् ॥ ११ ॥

ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् ।
वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ॥ १२ ॥

मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च ।
मूले कृषिं लभेद् यानसिद्धिमाप्ये समुद्रतः ॥ १३ ॥

सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः ।
श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ॥ १४ ॥

रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा ।
याम्ये ऽथ जीवनं तत् स्याद्यदि श्राद्धं प्रयच्छति ॥ १५ ॥

आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च ।
कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ॥ १६ ॥

विद्यामभीष्टा जीवे तु धनं वै भार्गवे पुनः ।
शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ॥ १७ ॥

कन्यकां वै द्वितीयायां तृतीयायां तु वन्दिनः ।
पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान् ॥ १८ ॥

षष्ट्यां द्यूतं कृषिं चापि सप्तम्यां लभते नरः ।
अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ॥ १९ ॥

स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु ।
एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ॥ २० ॥

ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः ।
पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ॥ २१ ॥

तस्माच्छ्राद्धं न कर्तव्यं चतुर्दश्यां द्विजातिभिः ।
शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥ २२ ॥

द्रव्यब्राह्मणसम्पत्तौ न कालनियमः कृतः ।
तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ॥ २३ ॥

कर्मारम्भेषु सर्वेषु कुर्यादाभ्युदयं पुनः ।
पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वणि स्मृतम् ॥ २४ ॥

अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः ।
एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ॥ २५ ॥

एतत् पञ्चविधं श्राद्धं मनुना परिकीर्तितम् ।
यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ॥ २६ ॥

शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिभाषितम् ।
दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात् ॥ २७ ॥

सन्ध्यारात्र्योर्न कर्तव्यं राहोरन्यत्र दर्शनात् ।
देशानां च विशेषेण भवेत् पुण्यमनन्तकम् ॥ २८ ॥

गङ्गायामक्षयं श्राद्धं प्रयागे ऽमरकण्टके ।
गायन्ति पितरो गाथां कीर्तयन्ति मनीषिणः ॥ २९ ॥

एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।
तेषां तु समवेतानां यद्येको ऽपि गायां व्रजेत् ॥ ३० ॥

गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् ।
तारिताः पितरस्तेन स याति परमां गतिम् ॥ ३१ ॥

वराहपर्वते चैव गङ्गायां वै विशेषतः ।
वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥ ३२ ॥

गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ।
कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ॥ ३३ ॥

केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।
सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ॥ ३४ ॥

नर्मदायां कुशावर्ते श्रीशैले भद्रकर्णके ।
वेत्रवत्यां विपाशायां गोदावर्यां विशेषतः ॥ ३५ ॥

एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च ।
नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा ॥ ३६ ॥

श्यामाकैश्च यवैः शाकैर्नोवारैश्च प्रियङ्गुभिः ।
गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ॥ ३७ ॥

आम्रान् पाने रतानिक्षून् मृद्वीकांश्च सदाडिमान् ।
विदार्याश्च भरण्डाश्च श्राद्धकाले प्रादपयेत् ॥ ३८ ॥

लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह ।
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान् ॥ ३९ ॥

द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेनतु ।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ॥ ४० ॥

षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै ।
अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ ४१ ॥

दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मर्योर्मांसेन मासानेकादशैव तु ॥ ४२ ॥

संवत्सरं तु गव्येन पयसा पायसेन तु ।
वार्ध्रोणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ४३ ॥

कालशाकं महाशल्कं खङ्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ ४४ ॥

क्रीत्वा लब्ध्वा स्वयं वाथ मृतानाहृत्य वा द्विजः ।
दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ॥ ४५ ॥

पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् ।
कूष्माण्डालाबुवार्ताकान् भूस्तृणं सुरसं तथा ॥ ४६ ॥

कुसुम्भपिण्डमूलं वै तन्दुलीयकमेव च ।
राजमाषांस्तथा क्षीरं माहिषं च विवर्जयेत् ॥ ४७ ॥

कोद्रवान् कोविदारांश्चपालक्यान् मरिचांस्तथा ।
वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ ४८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे विशो ऽध्यायः