व्यास उवाच
विश्वास-प्रस्तुतिः
प्राङ्मुखो ऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।
आसीनस्त्वासने शुद्धे भूम्यां पादौ निधाय तु ॥ १ ॥
मूलम्

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखाः ॥ २ ॥

पञ्चार्द्रे भोजनं कुर्याद् भूमौ पात्रं निधाय तु ।
उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥ ३ ॥

उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ ।
आचम्यार्द्राननो ऽक्रोधः पञ्चार्द्रे भोजनं चरेत् ॥ ४ ॥

महाव्यहृतिभिस्त्वन्नं परिधायोदकेन तु ।
अमृतोपस्तरणमसीत्यापोशानक्रियां चरेत् ॥ ५ ॥

स्वाहाप्रणवसंयुक्तां प्राणायाद्याहुतिं ततः ।
अपानाय ततो हुत्वा व्यानाय तदनन्तरम् ॥ ६ ॥

उदानाय ततः कुर्यात् समानायेति पञ्चमीम् ।
विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ॥ ७ ॥

शेषमन्नं यथाकामं भुञ्जीतव्यं जनैर्युतम् ।
ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ॥ ८ ॥

अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ।
आचान्तः पुनराचामेदायं गौरिति मन्त्रतः ॥ ९ ॥

द्रुपदां वा त्रिरावर्त्य सर्वपापप्रणाशनीम् ।
प्राणानां ग्रन्थिरसीत्यालभेद् हृदयं ततः ॥ १० ॥

आचम्याङ्गुष्ठमात्रेति पादाङ्गुष्ठे ऽथ दक्षिणे ।
निः स्त्रवयेद् हस्तजलमूर्ध्वहस्तः समाहितः ॥ ११ ॥

हुतानुमन्त्रणं कुर्यात् श्रद्धायामिति मन्त्रतः ।
अथाक्षरेण स्वात्मानं योजयेद् ब्रह्मणेति हि ॥ १२ ॥

सर्वेषामेव यागानामात्मयागः परः स्मृतः ।
यो ऽनेन विधिना कुर्यात् स याति ब्रह्मणः क्षयम् ॥ १३ ॥

यज्ञोपवीती भुञ्जीत स्त्रग्गन्धालङ्कृतः शुचिः ।
सायम्प्रापर्नान्तरा वै सन्ध्यायां तु विशेषतः ॥ १४ ॥

नाद्यात् सूर्यग्रहात् पूर्वमह्नि सायं शशिग्रहात् ।
ग्रहकाले च नाश्नीयात् स्नात्वाश्नीयात् तु मुक्तयोः ॥ १५ ॥

मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा ।
अमुक्तयोरस्तङ्गतयोरद्याद् दृष्ट्वा परे ऽहनि ॥ १६ ॥

नाश्नीयात् प्रेक्षमाणानामप्रदायैव दुर्मतिः ।
न यज्ञशिष्टादन्द् वा न क्रुद्धो नान्यमानसः ॥ १७ ॥

आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् ।
वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ॥ १८ ॥

यद्भुङ्क्ते वेष्टितशिरा यच्च भुङ्क्ते उदङ्मुखः ।
सोपानत्कश्च यद् भुङ्क्ते सर्वं विद्यात् तदासुरम् ॥ १९ ॥

नार्धरात्रे न मध्याह्ने नाजीर्णे नार्द्रवस्त्रधृक् ।
न च भिन्नासनगतो न शयानः स्थितो ऽपि वा ॥ २० ॥

न भिन्नभाजने चैव न भूम्यां न च पाणिषु ।
नोच्छिष्टो घृतमादद्यान्न मूर्धानं स्पृशेदपि ॥ २१ ॥

न ब्रह्म कीर्तयन् वापि न निः शेषं न भार्यया ।
नान्धकारे न चाकाशे न च देवालयादिषु ॥ २२ ॥

नैकवस्त्रस्तु भुञ्जीत न यानशयनस्थितः ।
न पादुकानिर्गतो ऽथ न हसन् विलपन्नपि ॥ २३ ॥

भुक्त्वैवं सुखमास्थाय तदन्नं परिणामयेत् ।
इतिहासपुराणाभ्यां वेदार्थानुपबृंहयेत् ॥ २४ ॥

ततः सन्ध्यामुपासीत पूर्वोक्तविधिना द्विजः ।
आसीनस्तु जपेद् देवीं गायत्रीं पश्चिमां प्रति ॥ २५ ॥

न तिष्ठति तु यः पुर्वां नास्ते सन्ध्यां तु पश्चिमाम् ।
स शूद्रेण समो लोके सर्वधर्मविवर्जितः ॥ २६ ॥

हुत्वाग्निं विधिवन्मन्त्रैर्भुक्त्वा यज्ञावशिष्टकम् ।
सभृत्यबान्धवजनः स्वपेच्छुष्कपदो निशि ॥ २७ ॥

नोत्तराभिमुखः स्वप्यात् पश्चिमाभिमुखो न च ।
न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् ॥ २८ ॥

न शीर्णायां तु खट्वायां शून्यागारे न चैव हि ।
नानुवंशं न पालाशे शयने वा कदाचन ॥ २९ ॥

इत्येतदखिलेनोक्तमहन्यहनि वै मया ।
ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम् ॥ ३० ॥

नास्तिक्यादथवालस्यात् ब्राह्मणो न करोति यः ।
स याति नरकान् घोरान् काकयोनौ च जायते ॥ ३१ ॥

नान्यो विमुक्तये पन्था मुक्त्वाश्रमविधिं स्वकम् ।
तस्मात् कर्माणि कुर्वोत तुष्टये परमेष्ठिनः ॥ ३२ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनविंशो ऽध्यायः