१८

ऋषय ऊचुः

विश्वास-प्रस्तुतिः

अहन्यहनि कर्तव्यं ब्राह्मणानां महामुने ।
तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात् ॥ १ ॥

मूलम्

व्यास उवाच
विश्वास-प्रस्तुतिः

वक्ष्ये समाहिता यूयं शृणुध्वं गदतो मम ।
अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद् विधिम् ॥ २ ॥

ब्राह्मे मुहूर्ते तूत्थाय धर्ममर्थं च चिन्तयेत् ।
कायक्लेशं तदुद्भूतं ध्यायीत मनसेश्वरम् ॥ ३ ॥

उषः काले ऽथ सम्प्राप्ते कृत्वा चावश्यकं बुधः ।
स्नायान्नदीषु सुद्धासु शौचं कृत्वा यथाविधि ॥ ४ ॥

प्रातः स्नानेन पूयन्ते ये ऽपि पापकृतो जनाः ।
तस्मात् सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ॥ ५ ॥

प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् ।
ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः ॥ ६ ॥

मुखे सुप्तस्य सततं लाला याः संस्त्रवन्ति हि ।
ततो नैवाचरेत् कर्म अकृत्वा स्नानमादितः ॥ ७ ॥

अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम् ।
प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः ॥ ८ ॥

न च स्नानं विना पुंसां पावनं कर्म सुस्मृतम् ।
होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ॥ ९ ॥

अशक्तावशिरस्कं वा स्नानमस्य विधीयते ।
आर्द्रेण वाससा वाथ मार्जनं कापिलं स्मृतम् ॥ १० ॥

असामर्थ्ये समुत्पन्ने स्नानमेवं समाचरेत् ।
ब्राह्मादीनि यथाशक्तौ स्नानान्याहुर्मनीषिणः ॥ ११ ॥

ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ।
वारुणं यौगिकं तद्वत् षोढा स्नानं प्रकीर्तितम् ॥ १२ ॥

ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।
आग्नेयं भस्मना पादमस्तकाद्देहधूलनम् ॥ १३ ॥

गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।
यत्तु सातपवर्षेण स्नानं तद् दिव्यमुच्यते ॥ १४ ॥

वारुणं चावगाहस्तु मानसं त्वात्मवेदनम् ।
यौगिकं स्नानमाख्यातं योगो विष्णुविचिन्तनम् ॥ १५ ॥

आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ।
मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत् ॥ १६ ॥

शक्तश्चेद् वारुणं विद्वान् प्राजापत्यं तथैव च ।
प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ॥ १७ ॥

आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ।
मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसम्मितम् ॥ १८ ॥

सत्वचं दन्तकाष्ठं स्यात् तदग्रेण तु धावयेत् ।
विश्वास-प्रस्तुतिः

क्षीरवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ।
अपामार्गं च बिल्वं च करवीरं विशेषतः ॥ १९ ॥

वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम् ।
परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥ २० ॥

नोत्पाटयेद्दन्तकाष्टन्नाङ्गुल्या धावयेत् क्वचित् ।
प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौदेशे समाहितः ॥ २१ ॥

स्नात्वा सन्तर्पयेद् देवानृषीन् पितृगणांस्तथा ।
आचम्य मन्त्रवन्नित्यं पुनराचम्य वाग्यतः ॥ २२ ॥

सम्मार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः ।
आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥ २३ ॥

ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् ।
जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः ॥ २४ ॥

प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः ।
प्राणायामत्रयं कृत्वा ध्यायेत् सन्ध्यामिति श्रुतिः ॥ २५ ॥

या सन्ध्या सा जगत्सूतिर्मायातीता हि निष्कला ।
ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा ॥ २६ ॥

ध्यात्वार्ऽकमण्डलगतां सावित्रीं वै जपन् बुधः ।
प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत् ॥ २७ ॥

सन्ध्याहीनो ऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत् कुरुते किञ्चिन्न तस्य फलमाप्नुयात् ॥ २८ ॥

अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।
उपास्य विधिवत् सन्ध्यां प्राप्ताः पूर्वं परां गतिम् ॥ २९ ॥

यो ऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः ।
विहाय सन्ध्याप्रणतिं स याति नरकायुतम् ॥ ३० ॥

तस्मात् सर्वप्रयत्नेन सन्ध्योपासनमाचरेत् ।
उपासितो भवेत् तेन देवो योगतनुः परः ॥ ३१ ॥

सहस्रपरमां नित्यं शतमध्यां दशावराम् ।
सावित्ररिं वै जपेद् विद्वान् प्राङ्मुखः प्रयतः स्थितः ॥ ३२ ॥

अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।
मन्त्रैस्तु विविधैः सौरेरृग्यजुः सामसम्भवैः ॥ ३३ ॥

उपस्थाय महायोगं देवदेवं दिवाकरम् ।
कुर्वोत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ॥ ३४ ॥

ॐ खषोल्काय शान्ताय
कारणत्रयहेतवे ।
निवेदयामि चात्मानं
नमस्ते ज्ञानरूपिणे ।
नमस्ते घृणिने तुभ्यं
सूर्याय ब्रह्मरूपिणे ॥ ३५ ॥

मूलम्

ॐ खखोल्काय(=??-) शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ।
नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ॥ ३५ ॥

विश्वास-प्रस्तुतिः

त्वमेव ब्रह्म परमम्
आपो ज्योती रसो ऽमृतम् ।
भूर्भुवः स्वस्त्वमोङ्कारः
सर्वे रुद्राः सनातनाः ।
पुरुषः सन्महो ऽतस्त्वां
प्रणमामि कपर्दिनम् ॥ ३६ ॥

मूलम्

त्वमेव ब्रह्म परममापो ज्योती रसो ऽमृतम् ।
भूर्भुवः स्वस्त्वमोङ्कारः सर्वे रुद्राः सनातनाः ।
पुरुषः सन्महो ऽतस्त्वां प्रणमामि कपर्दिनम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

त्वमेव विश्वं बहुधा
सदसत् सूयते च यत् ।
नमो रुद्राय सूर्याय
त्वामहं शरणं गतः ॥ ३७ ॥

मूलम्

त्वमेव विश्वं बहुधा सदसत् सूयते च यत् ।
नमो रुद्राय सूर्याय त्वामहं शरणं गतः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

प्रचेतसे नमस्तुभ्यं
नमो मीढुष्टमाय ते ।
नमो नमस्ते रुद्राय
त्वामहं शरणं गतः ॥ ३८ ॥

मूलम्

प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते ।
नमो नमस्ते रुद्राय त्वामहं शरणं गतः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

हिरण्यबाहवे तुभ्यं
हिरण्यपतये नमः ।
अम्बिकापतये तुभ्यम्
उमायाः पतये नमः ॥ ३९ ॥

मूलम्

हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः ।
अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

नमो ऽस्तु नीलग्रीवाय
नमस्तुभ्यं पिनाकिने ।
विलोहिताय भर्गाय
सहस्राक्षाय ते नमः ॥ ४० ॥

मूलम्

नमो ऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ।
विलोहिताय भर्गाय सहस्राक्षाय ते नमः ॥ ४० ॥

विश्वास-प्रस्तुतिः

नमो हंसाय ते नित्यम्
आदित्याय नमो ऽस्तु ते ।
नमस्ते वज्रहस्ताय
त्र्यम्बकाय नमो ऽस्तु ते ॥ ४१ ॥

मूलम्

नमो हंसाय ते नित्यमादित्याय नमो ऽस्तु ते ।
नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो ऽस्तु ते ॥ ४१ ॥

विश्वास-प्रस्तुतिः

प्रपद्ये त्वां विरूपाक्षं
महान्तं परमेश्वरम् ।
हिरण्मयं गृहे गुप्तम्
आत्मानं सर्वदेहिनाम् ॥ ४२ ॥

मूलम्

प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् ।
हिरण्मयं गृहे गुप्तमात्मानं सर्वदेहिनाम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

नमस्यामि परं ज्योतिर्
ब्रह्माणं त्वां परां गतिम् ।
विश्वं पशुपतिं भीमं
नर-नारी-शरीरिणम् ॥ ४३ ॥

मूलम्

नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् ।
विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

नमः सूर्याय रुद्राय
भास्वते परमेष्ठिने ।
उग्राय सर्वभक्ताय
त्वां प्रपद्ये सदैव हि ॥ ४४ ॥

मूलम्

नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ।
उग्राय सर्वभक्ताय त्वां प्रपद्ये सदैव हि ॥ ४४ ॥

विश्वास-प्रस्तुतिः

एतद् वै सूर्यहृदयं
जप्त्वा स्तवमनुत्तमम् ।
प्रातः काले ऽथ मध्याह्ने
नमस्कुर्याद् दिवाकरम् ॥ ४५ ॥

मूलम्

एतद् वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् ।
प्रातः काले ऽथ मध्याह्ने नमस्कुर्याद् दिवाकरम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

इदं पुत्राय शिष्याय
धार्मिकाय द्विजातये ।
प्रदेयं सूर्यहृदयं
ब्रह्मणा तु प्रदर्शितम् ॥ ४६ ॥

मूलम्

इदं पुत्राय शिष्याय धार्मिकाय द्विजातये ।
प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

सर्वपापप्रशमनं
वेदसारसमुद्भवम् ।
ब्राह्मणानां हितं पुण्यम्
ऋषिसङ्घैर् निषेवितम् ॥ ४७ ॥

मूलम्

सर्वपापप्रशमनं वेदसारसमुद्भवम् ।
ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

अथागम्य गृहं विप्रः समाचम्य यथाविधि ।
प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ॥ ४८ ॥

ऋत्विक्पुत्रो ऽथ पत्नी वा शिष्यो वापि सहोदरः ।
प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ॥ ४९ ॥

पवित्रपाणिः पूतात्मा शुक्लाम्बरधरोत्तरः ।
अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ॥ ५० ॥

विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः ।
राक्षसं तद्भवेत् सर्वं नामुत्रेह फलप्रदम् ॥ ५१ ॥

दैवतानि नमस्कुर्याद् देयसारान्निवेदयेत् ।
दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ॥ ५२ ॥

गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ।
वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः ॥ ५३ ॥

जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् ।
विश्वास-प्रस्तुतिः

अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः ।
वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः ॥ ५४ ॥

उपेयादीश्वरं चाथ योगक्षेमप्रसिद्धये ।
साधयेद् विविधानर्थान् कुटुम्बार्थे ततो द्विजः ॥ ५५ ॥

ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ।
पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च ॥ ५६ ॥

नदीषु देवखातेषु तडागेषु सरःसु च ।
स्नानं समाचरेन्नित्यं गर्तप्रस्त्रवणेषु च ॥ ५७ ॥

परकीयनिपानेषु न स्नायाद् वै कदाचन ।
पञ्चपिण्डान् समुद्धृत्य स्नायाद् वासम्भवे पुनः ॥ ५८ ॥

मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ।
अधश्च तिसृभिः कायं पादौ षड्भिस्तथैव च ॥ ५९ ॥

मृत्तिका च समुद्दिष्टा त्वार्द्रामलकमात्रिका ।
गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः ॥ ६० ॥

लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ।
प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः ॥ ६१ ॥

अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः ।
भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ॥ ६२ ॥

आपो नारायणोद्भूतास्ता एवास्यायनं पुनः ।
तस्मान्नारायणं देवं स्नानकाले स्मरेद् बुधः ॥ ६३ ॥

प्रोच्य सोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ।
आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ॥ ६४ ॥

अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः ।
त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसो ऽमृतम् ॥ ६५ ॥

द्रुपदां वा त्रिरभ्यस्येद् व्याहृतिप्रणवान्विताम् ।
सावित्रीं वा जपेद् विद्वान् तथा चैवाघमर्षणम् ॥ ६६ ॥

ततः सम्मार्जनं कुर्यादापो हि ष्ठा मयोभुवः ।
इदमापः प्रवहत व्याहृतिभिस्तथैव च ॥ ६७ ॥

ततो ऽभिमन्त्र्य तत् तीर्थमापो हिष्ठादिमन्त्रकैः ।
अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम् ॥ ६८ ॥

त्रिपदां वाथ सावित्रीं तद्विष्णोः परमं पदम् ।
आवर्तयेद् वा प्रणवं देवं वा संस्मरेद्धरिम् ॥ ६९ ॥

द्रुपदादिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः ।
अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते ॥ ७० ॥

अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ।
विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः ॥ ७१ ॥

यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः ।
तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ ७२ ॥

अथोपतिष्ठेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिम् ।
प्रक्षिप्यालोकयेद् देवमुद्वयं तमसस्परि ॥ ७३ ॥

उदुत्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः ।
हंसः शुचिषदेतेन सावित्र्या च विशेषतः ॥ ७४ ॥

अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः ।
सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ॥ ७५ ॥

विविधानि पवित्राणि गुह्यविद्यास्तथैव च ।
शतरुद्रीयमथर्वशिरः सौरांश्च शक्तितः ॥ ७६ ॥

प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः ।
तिष्ठंश्चेदीक्षमाणोर्ऽकं जप्यं कुर्यात् समाहितः ॥ ७७ ॥

स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवः ।
कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता ॥ ७८ ॥

जपकाले न भाषेत नान्यानि प्रेक्षयेद् बुधः ।
न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत् ॥ ७९ ॥

गुह्यका राक्षसा सिद्धा हरन्ति प्रसभं यतः ।
एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत् ॥ ८० ॥

चण्डालाशौचपतितान् दृष्ट्वाचम्य पुनर्जपेत् ।
तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत् पुनः ॥ ८१ ॥

आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।
सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः ॥ ८२ ॥

यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् ।
अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥ ८३ ॥

प्रदक्षिणं समावृत्य नमस्कृत्वा ततः क्षितौ ।
आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥ ८४ ॥

ततः सन्तर्पयेद् देवानृषीन् पितृगणांस्तथा ।
अदावोङ्कारमुच्चार्य नमो ऽन्ते तर्पयामि वः ॥ ८५ ॥

देवान् ब्रह्मःऋषींश्चैव तर्पयेदक्षतोदकैः ।
तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ॥ ८६ ॥

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।
देवर्षोस्तर्पयेद् धीमानुदकाञ्जलिभिः पितन् ॥ ८७ ॥

यज्ञोपवीती देवानां निवीती ऋषीतर्पणे ।
प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावतः ॥ ८८ ॥

निष्पीड्य स्नानवस्त्रं तु समाचम्य च वाग्यतः ।
स्वैर्मन्त्रैरर्चयेद् देवान् पुष्पैः पत्रैरथाम्बुभिः ॥ ८९ ॥

ब्रह्माणं शङ्करं सूर्यं तथैव मधुसूदनम् ।
अन्यांश्चाभिमतान् देवान् भक्त्या चाक्रोधनो ऽत्वरः ॥ ९० ॥

प्रदद्याद् वाथ पुष्पाणि सूक्तेन पौरुषेण तु ।
आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ॥ ९१ ॥

ध्यात्वा प्रणवपूर्वं वै दैवतानि समाहितः ।
नमस्कारेण पुष्पाणि विन्यसेद् वै पृथक् पृथक् ॥ ९२ ॥

न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ ९३ ॥

तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ।
विश्वास-प्रस्तुतिः

नैताभ्यां सदृशो मन्त्रो सूक्तेन पुरुषेण तु ।
नैताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ॥ ९४ ॥

निवेदयेत स्वात्मानं विष्णावमलतेजसि ।
तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥ ९५ ॥

अथवा देवमीशानं भगवन्तं सनातनम् ।
आराधयेन्महादेवं भावपूतो महेश्वरम् ॥ ९६ ॥

मन्त्रेण रुद्रागायत्र्या प्रणवेनाथ वा पुनः ।
ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः ॥ ९७ ॥

पुष्पैः पत्रैरथाद्भिर्वा चन्दनाद्यैर्महेश्वरम् ।
उक्त्वा नमः शिवायेति मन्त्रेणानेन योजयेत् ॥ ९८ ॥

नमस्कुर्यान्महादेवं ऋतं सत्यमितिश्वरम् ।
निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम् ॥ ९९ ॥

प्रदक्षिणं द्विजः कुर्यात् पञ्च ब्रह्माणि वै जपन् ।
ध्यायीत देवमीशानं व्योममध्यगतं शिवम् ॥ १०० ॥

अथावलोकयेदर्कं हंसः सुचिषदित्यृचा ।
कुर्यात् पञ्च महायज्ञान् गृहं गत्वा समाहितः ॥ १०१ ॥

देवयज्ञं पितृयज्ञं भूतयज्ञं तथैव च ।
मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते ॥ १०२ ॥

यदि स्यात् तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि ।
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥ १०३ ॥

अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा ।
कुशपुञ्जे समासीनः कुशपाणिः समाहितः ॥ १०४ ॥

शालाग्नौ लौकिके वाग्नौ जले भूभ्यामथापिवा ।
वैश्वदेवं ततः कुर्याद् देवयज्ञः स वै स्मृतः ॥ १०५ ॥

यदि स्याल्लौकिके पक्वं ततो ऽन्नं तत्र हूयते ।
शालाग्नौ तत्र देवान्नं विधिरेष सनातनः ॥ १०६ ॥

देवेभ्यस्तु हुतादन्नाच्छेषाद् भूतबलिं हरेत् ।
भूतयज्ञः स वै ज्ञेयो भूतिदः सर्वदेहिनाम् ॥ १०७ ॥

श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ।
दद्याद् भूमौ बलिं त्वन्नं पक्षिभ्यो ऽथ द्विजोत्तमः ॥ १०८ ॥

सायं चान्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
भूतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते ॥ १०९ ॥

एकं तु भोजयेद् विप्रं पितॄनुद्दिश्य सत्तमम् ।
नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः ॥ ११० ॥

उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः ।
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥ १११ ॥

पूजयेदतिथिं नित्यं नमस्येदर्चयेद् द्विजम् ।
मनोवाक्कर्मभिः शान्तमागतं स्वगृह ततः ॥ ११२ ॥

हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ।
दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ॥ ११३ ॥

भिक्षामाहुर्ग्रासमात्रमग्रं तस्याश्चतुर्गुणम् ।
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ॥ ११४ ॥

गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ।
अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा ॥ ११५ ॥

भिक्षां वै भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ।
दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ॥ ११६ ॥

सर्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयेत् ।
भुञ्जीत बन्धुभिः सार्धं वाग्यतो ऽन्नमकुत्सयन् ॥ ११७ ॥

अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमाः ।
भृञ्जीत चेत् स मूढात्मा तिर्यग्योनिं सगच्छति ॥ ११८ ॥

वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रिया क्षमा ।
नाशयत्याशु पापानि देवानामर्चनं तथा ॥ ११९ ॥

यो मोहादथवालस्यादकृत्वा देवतार्चनम् ।
भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते ॥ १२० ॥

तस्मात् सर्वप्रयत्नेन कृत्वा कर्माणि वै द्विजाः ।
भुञ्जीत स्वजनैः सार्धं सयाति परमां गतिम् ॥ १२१ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे अष्टादशो ऽध्यायः