व्यास उवाच
विश्वास-प्रस्तुतिः
नाद्याच्छूद्रस्य विप्रो ऽन्नं मोहाद् वा यदि वान्यतः ।
स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ १ ॥
मूलम्

षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।
जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ २ ॥

ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः ।
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ ३ ॥

राजान्नं नर्तकान्नं च तक्ष्णो ऽन्नं चर्मकारिणः ।
गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत् ॥ ४ ॥

चक्रोपजीविरजकतस्करध्वजिनां तथा ।
गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत् ॥ ५ ॥

कुलालचित्रकर्मान्नं वार्धुषेः पतितस्य च ।
पौनर्भवच्छत्रिकयोरभिशस्तस्य चैव हि ॥ ६ ॥

सुवर्णकारशैलूषव्याधबद्धातुरस्य च ।
चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ॥ ७ ॥

स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च ।
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥ ८ ॥

भार्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ।
उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ॥ ९ ॥

क्लीबसन्न्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव हि ।
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम् ॥ १० ॥

ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च ।
वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ॥ ११ ॥

अप्रजानां तु नारीणां भृतकस्य तथैव च ।
कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥ १२ ॥

शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च ।
विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव च ॥ १३ ॥

अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् ।
गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ॥ १४ ॥

दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ।
यो यस्यान्नं समश्नाति स तस्याश्नानि किल्बिषम् ॥ १५ ॥

आर्धिकः कुलमित्रश्च स्वगोपालश्च नापितः ।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ १६ ॥

कुशीलवः कुम्भकारः क्षेत्रकर्मक एव च ।
एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः ॥ १७ ॥

पायसं स्नेहपक्वं यद् गोरसं चैव सक्तवः ।
पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं द्विजातिभिः ॥ १८ ॥

वृन्ताकं नालिकाशाकं कुसुम्भाश्मन्तकं तथा ।
पलाण्डुं लशुनं शुक्तं निर्यासं चैव वर्जयेत् ॥ १९ ॥

छत्राकं विड्वराहं च शेलं पेयूषमेव च ।
विलयं सुमुखं चैव कवकानि च वर्जयेत् ॥ २० ॥

गृञ्जनं किंशुकं चैव ककुभाण्डं तथैव च ।
उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ॥ २१ ॥

वृथा कृशरसंयावं पायसापूपमेव च ।
अनुपाकृतमांसं च देवान्नानि हवींषि च ॥ २२ ॥

यवागूं मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् ।
नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ॥ २३ ॥

पिण्याकं चोद्धृतस्नेहं देवधान्य तथैव च ।
रात्रौ च तिलसम्बद्धं प्रयत्नेन दधि त्यजेत् ॥ २४ ॥

नाश्नीयात् पयसा तक्रं न बीजान्युपजीवयेत् ।
क्रियादुष्टं भावदुष्टमसत्संसर्गि वर्जयेत् ॥ २५ ॥

केशकीटावपन्नं च सहृल्लेखं च नित्यशः ।
श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा ॥ २६ ॥

उदक्यया च पतितैर्गवा चाघ्रातमेव च ।
अनर्चितं पुर्युं षितं पर्यायान्नं च नित्यशः ॥ २७ ॥

काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संयुतम् ।
मनुष्यैरप्यवघ्रातं कुष्ठिना स्पृष्टमेव च ॥ २८ ॥

न रजस्वलया दत्तं न पुंश्चाल्या सरोषया ।
मलबद्वाससा वापि परवासो ऽथ वर्जयेत् ॥ २९ ॥

विवत्सायाश्च गोः क्षीरमौष्ट्रं वानिर्दशं तथा ।
आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ॥ ३० ॥

बलाकं हंसदात्यूहं कलविङ्कं शुकं तथा ।
कुररं च चकोरं च जालपादं च कोकिलम् ॥ ३१ ॥

उलूकं चक्रवाकं च भासं पारावतानपि ।
कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ ३२ ॥

सिंहव्याघ्रं च मार्जारं श्वानं शूकरमेव च ।
शृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ॥ ३३ ॥

न भक्षयेत् सर्वमृगान् पक्षिणो ऽन्यान् वनेचरान् ।
जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा ॥ ३४ ॥

गोधा कूर्मः शशः श्वाविच्छल्यकश्चेति सत्तमाः ।
भक्ष्याः पञ्चनखा नित्यं मनुराह प्रिजापतिः ॥ ३५ ॥

मत्स्यान् सशल्कान् भुञ्जीयान् मांसं रौरवमेवच ।
निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ॥ ३६ ॥

मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् ।
वाध्रीणसं बकं भक्ष्यं मीनहंसपराजिताः ॥ ३७ ॥

शफरं सिंहतुण्डं च तथा पाठीनरोहितौ ।
मत्स्याश्चैते समुद्दिष्टा भक्षणाय द्विजोत्तमाः ॥ ३८ ॥

प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया ।
यथाविधि नियुक्तं च प्राणानामपि चात्यये ॥ ३९ ॥

भक्षयेन्नैव मांसानि शेषभोजी न लिप्यते ।
औषधार्थमशक्तौ वा नियोगाद् यज्ञकारणात् ॥ ४० ॥

आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ॥ ४१ ॥

अदेयं चाप्यपेयं च तथैवास्पृश्यमेव च ।
द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ॥ ४२ ॥

तस्मात् सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् ।
पीत्वा पतति कर्मभ्यस्त्वसम्भाष्यो भवेद् द्विजः ॥ ४३ ॥

भक्षयित्वा ह्यभक्ष्याणि पीत्वापेयान्यपि द्विजः ।
नाधिकारी भवेत् तावद् यावद् तन्न जहात्यधः ॥ ४४ ॥

तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।
अपेयानि च विप्रो वै तथा चेद् याति रौरवम् ॥ ४५ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तदशो ऽध्यायः