१६

व्यास उवाच

विश्वास-प्रस्तुतिः

न हिंस्यात् सर्वभूतानिनानृतं वावदेत् क्वचित् ।
नाहितं नाप्रियं वाक्यं न स्तेनः स्याद् कदाचन ॥ १ ॥

मूलम्

तृणं वा यदि वा शाकं मृदं वा जलमेव वा ।
परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥ २ ॥

न राज्ञः प्रतिगृह्णीयान्न शूद्रपतितादपि ।
न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद् बुधः ॥ ३ ॥

नित्यं याचनको न स्यात् पुनस्तं नैव याचयेत् ।
प्राणानपहरत्येवं याचकस्तस्य दुर्मतिः ॥ ४ ॥

न देवद्रव्यहारी स्याद् विशेषेण द्विजोत्तमः ।
ब्रह्मस्वं वा नापहरेदापद्यपि कदाचन ॥ ५ ॥

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।
देवस्वं चापि यत्नेन सदा परिहरेत् ततः ॥ ६ ॥

पुष्पे शाक्रोदके काष्ठे तथा मूले फले तृणे ।
अदत्तादानमस्तेयं मनुः प्राह प्रजापतिः ॥ ७ ॥

ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः ।
नैकस्मादेव नियतमननुज्ञाय केवलम् ॥ ८ ॥

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद् बुधः ।
धर्मार्थं केवलं विप्रा ह्यन्यथा पतितो भवेत् ॥ ९ ॥

तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।
क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः ॥ १० ॥

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ ११ ॥

प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १२ ॥

अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते ॥ १३ ॥

बैडालव्रतिनः पापा लोके धर्मविनाशकाः ।
सद्यः पतन्ति पापेषु कर्मणस्तस्य तत् फलम् ॥ १४ ॥

पाषण्डिनो विकर्मस्थान् वामाचारांस्तथैव च ।
पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्चयेत् ॥ १५ ॥

वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा ।
द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥ १६ ॥

याजनं योनिसम्बन्धं सहवासं च भाषणम् ।
कुर्वाणः पतते जन्तुस्तस्माद् यत्नेन वर्जयेत् ॥ १७ ॥

देवद्रोहाद् गुरुद्रोहः कोटिकोटिगुणाधिकः ।
ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकम् ॥ १८ ॥

गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया ।
कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ॥ १९ ॥

कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २० ॥

अनृतात् पारदार्याच्च तथाभक्ष्यस्य भक्षणात् ।
अश्रौतधर्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥ २१ ॥

अश्रोत्रियेषु वै दानाद् वृषलेषु तथैव च ।
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥ २२ ॥

नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम् ।
न शूद्रराज्ये निवसेन्न पाषण्डजनैर्वृते ॥ २३ ॥

हिमवद्विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् ।
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद् द्विजः ॥ २४ ॥

कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।
पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद् द्विजः ॥ २५ ॥

अर्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ।
नान्यत्र निवसेत् पुण्यं नान्त्यजग्रामसन्निधौ ॥ २६ ॥

न संवसेच्च पतितैर्न चण्डालैर्न पुक्कसैः ।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ २७ ॥

एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् ।
याजनाध्यापने योनिस्तथैव सहभोजनम् ॥ २८ ॥

सहाध्यायस्तु दशमः सहयाजनमेव च ।
एकादश समुद्दिष्टा दोषाः साङ्कर्यसञ्ज्ञिताः ॥ २९ ॥

समीपे वा व्यवस्थानात् पापं सङ्क्रमते नृणाम् ।
तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ॥ ३० ॥

एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।
भस्मना कृतमर्यादा न तेषां सङ्करो भवेत् ॥ ३१ ॥

अग्निना भस्मना चैव सलिलेनावसेकतः ।
द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते ॥ ३२ ॥

न कुर्याच्छुष्कवैराणि विवादं च न पैशुनम् ।
विश्वास-प्रस्तुतिः

परक्षेत्रे गां धयन्तीं न चाचक्षीत कस्यचित् ।
न संवदेत् सूतके च न कञ्चिन्मर्मणि स्पृशेत् ॥ ३३ ॥

न सूर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम् ।
परस्मै कथयेद् विद्वान् शशिनं वा कदाचन ॥ ३४ ॥

न कुर्याद् बहुभिः सार्धं विरोधं बन्धुभिस्तथा ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ ३५ ॥

तिथिं पक्षस्य न ब्रूयात् न नक्षत्राणि निर्दिशेत् ।
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ॥ ३६ ॥

न देवगुरुविप्राणां दीयमानं तु वारयेत् ।
विश्वास-प्रस्तुतिः

न चात्मानं प्रशंसेद् वा परनिन्दां च वर्जयेत् ।
वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ॥ ३७ ॥

यस्तु देवानृषीन् विप्रान्वेदान् वा निन्दति द्विजः ।
न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ॥ ३८ ॥

निन्दयेद् वै गुरुं देवं वेदं वा सोपबृंहणम् ।
कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥ ३९ ॥

तूष्णीमासीत निन्दायां न ब्रूयात् किञ्चिदुत्तरम् ।
कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत् ॥ ४० ॥

वर्जयेद् वै रहस्यानि परेषां गूहयेद् बुधः ।
विवादं स्वजनैः सार्धं न कुर्याद् वै कदाचन ॥ ४१ ॥

न पापं पापिनां ब्रूयादपापं वा द्विजात्तमाः ।
सतेनतुल्यदोषः स्यान्मिथ्या द्विर्देषवान् भवेत् ॥ ४२ ॥

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् ।
तानिपुत्रान् पशून्घ्निन्ति तेषां मिथ्याभिशंसिनाम् ॥ ४३ ॥

ब्रिह्महत्यासुरापाने स्तेयगुर्वङ्गनागमे ।
दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ॥ ४४ ॥

नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः ।
विश्वास-प्रस्तुतिः

नास्तं यान्तं न वारिस्थं नोपसृष्टं न मघ्यगम् ।
तिरोहितं वाससा वा नादर्शान्तरगामिनम् ॥ ४५ ॥

न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ।
विश्वास-प्रस्तुतिः

न च मूत्रं पुरीषं वा न च संस्पृष्टमैथुनम् ।
नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः ॥ ४६ ॥

पतितव्यङ्गचण्डालानुच्छिष्टान् नावलोकयेत् ।
नाभिभाषेत च परमुच्छिष्टो वावगुण्ठितः ॥ ४७ ॥

न पश्येत् प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।
विश्वास-प्रस्तुतिः

न तैलोदकयोश्छायां न पत्नीं भोजने सति ।
नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥ ४८ ॥

नाश्नीयात् भार्यया सार्धन्नैनामीक्षेत चाश्नतीम् ।
क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम् ॥ ४९ ॥

नोदके चात्मनो रूपं न कूलं श्वभ्रमेव वा ।
न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन ॥ ५० ॥

न शूद्राय मतिं दद्यात् कृशरं पायसं दधि ।
नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ॥ ५१ ॥

न चैवास्मै व्रतं दद्यान्न च धर्मं वदेद् बुधः ।
न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत् ॥ ५२ ॥

लोभं दम्भं तथा यत्नादसूयां ज्ञानकुत्सनम् ।
ईर्ष्यां मदं तथा शोकं मोहं च परिवर्जयेत् ॥ ५३ ॥

न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् ।
न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित् ॥ ५४ ॥

नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ।
न विशिष्टानसत्कुर्यात् नात्मानं वा शपेद् बुधः ॥ ५५ ॥

न नखैर्विलिखेद् भूमिं गां च संवेशयेन्न हि ।
न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान् ॥ ५६ ॥

आवासे भोजने वापि न त्यजेत् हसयायिनम् ।
नावगाहेदपो नग्नो वह्निं नातिव्रजेत् पदा ॥ ५७ ॥

शिरो ऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।
विश्वास-प्रस्तुतिः

न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ।
रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ॥ ५८ ॥

न पाणिपादवाङ्नेत्रचापल्यं समुपाश्रयेत् ।
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ॥ ५९ ॥

न चाङ्गनखवादं वै कुर्यान्नाञ्जलिना पिबेत् ।
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ॥ ६० ॥

न शातयेदिष्टकाभिः फलानि न फलेन च ।
न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ॥ ६१ ॥

न भेदनमवस्फोटं छेदनं वा विलेखनम् ।
कुर्याद् विमर्दनं धीमान् नाकस्मादेव निष्फलम् ॥ ६२ ॥

नोत्सङ्गेभक्षयेद् भक्ष्यं वृथा चेष्टां च नाचरेत् ।
न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ॥ ६३ ॥

न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।
न लौकिकैः स्तवैर्देवांस्तोषयेद् बाह्यजैरपि ॥ ६४ ॥

नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् ।
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ॥ ६५ ॥

न गच्छेन्न पठेद् वापि न चैव स्वशिरः स्पृशेत् ।
न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ॥ ६६ ॥

न बालातपमासेवेत् प्रेतधूमं विवर्जयेत् ।
नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ॥ ६७ ॥

नाकारणाद् वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ।
न पादक्षालनं कुर्यात् पादेनैव कदाचन ॥ ६८ ॥

नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद् बुधः ।
विश्वास-प्रस्तुतिः

नाभिप्रासरयेद् देवं ब्राह्मणान् गामथापि वा ।
वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति ॥ ६९ ॥

अशुद्धः शयनं यानं स्वाध्यायं स्नानवाहनम् ।
बहिर्निष्क्रमणं चैव न कुर्वोत कथञ्चन ॥ ७० ॥

स्वप्नमध्ययनं स्नानमुद्वर्तं भोजनं गतिम् ।
उभयोः सन्ध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ॥ ७१ ॥

न स्पृशेत् पाणिनोच्छिष्टो विप्रोगोब्राह्मणानलान् ।
न चासनं पदा वापि न देवप्रतिमां स्पृशेत् ॥ ७२ ॥

नाशुद्धो ऽग्निं परिचरेन्न देवान् कीर्तयेदृषीन् ।
नावगाहेदगाधाम्बु धारयेन्नानिमित्ततः ॥ ७३ ॥

न वामहस्तेनोद्धत्य पिबेद् वक्त्रेण वा जलम् ।
नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥ ७४ ॥

अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा ।
विश्वास-प्रस्तुतिः

व्यतिक्रमेन्न स्त्रवन्तीं नाप्सु मैथुनमाचरेत् ।
चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ॥ ७५ ॥

नास्थिभस्मकपालानि न केशान्न च कण्टकान् ।
तुषाङ्गारकरीषं वा नाधितिष्ठेत् कदाचन ॥ ७६ ॥

न चाग्निं लङ्घयेद् धीमान् नोपदध्यादधः क्वचित् ।
न चैनं पादतः कुर्यान्मुखेन न धमेद् बुधः ॥ ७७ ॥

न कूपमवरोहेत नावेक्षेताशुचिः क्वचित् ।
अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत् तथा ॥ ७८ ॥

सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत् परान् ।
अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत् ॥ ७९ ॥

न वह्निं मुखनिश्वासैर् ज्वालयेन्नाशुचिर्बुधः ।
पुण्यस्थानोदकस्थाने सीमान्तं वा कृषेन्न तु ॥ ८० ॥

न भिन्द्यात् पूर्वसमयमभ्युपेतं कदाचन ।
परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत् ॥ ८१ ॥

परबाधं न कुर्वोत जलवातातपादिभिः ।
विश्वास-प्रस्तुतिः

कारयित्वा स्वकर्माणि कारून् पश्चान्न वञ्चयेत् ।
सायम्प्रातर् गृहद्वारान् भिक्षार्थं नावघट्टयेत् ॥ ८२ ॥

बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम् ।
विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत् ॥ ८३ ॥

न खादन्ब्राह्मणस्तिष्ठेन्न जल्पेद् वा हसन् बुधः ।
स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् ॥ ८४ ॥

न पक्षकेणोपधमेन्न शूर्पेण न पाणिना ।
मुखे नैव धमेदग्निं मुखादग्निरजायत ॥ ८५ ॥

परस्त्रियं न भाषेत नायाज्यं याजयेद् द्विजः ।
नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत् ॥ ८६ ॥

न देवायतनं गच्छेत् कदाचिद् वाप्रदक्षिणम् ।
न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् ॥ ८७ ॥

नैको ऽध्वानं प्रपद्येत नाधार्मिकजनैः सह ।
न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा ॥ ८८ ॥

नोपानद्वर्जितो वाथ जलादिरहितस्तथा ।
विश्वास-प्रस्तुतिः

न रात्रौ नारिणा सार्धं न विना च कमण्डलुम् ।
नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ॥ ८९ ॥

न वत्सतन्त्रीं विततामतिक्रामेत् क्वचिद् द्विजः ।
न निन्देद् योगिनः सिद्धान् व्रतिनो वायतींस्तथा ॥ ९० ॥

देवतायतनं प्राज्ञो देवानां चैव सत्रिणाम् ।
नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि ॥ ९१ ॥

स्वां तु नाक्रमयेच्छायां पतिताद्यैर्न रोगिभिः ।
नाङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन ॥ ९२ ॥

वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघचोदकम् ।
न भक्षयेदभक्ष्याणि नापेयं च पिबेद् द्विजः ॥ ९३ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षोडशो ऽध्यायः