१५

व्यास उवाच

विश्वास-प्रस्तुतिः

वेदं वेदौ तथा वेदान् वेदान् वा चतुरो द्विजाः ।
अधीत्य चाधिगम्यार्थं ततः स्नायाद् द्विजोत्तमः ॥ १ ॥

मूलम्

गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ।
चीर्णव्रतो ऽथ युक्तात्मा सशक्तः स्नातुमर्हति ॥ २ ॥

वैणवीं धारयेद् यष्टिमन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ ३ ॥

छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।
रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ॥ ४ ॥

स्वाध्याये नित्ययुक्तः स्याद् बहिर्माल्यं न धारयेत् ।
अन्यत्रकाञ्चनाद् विप्रोनरक्तां बिभृयात् स्त्रजम् ॥ ५ ॥

शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।
न जीर्णमलवद्वासा भवेद् वै विभवे सति ॥ ६ ॥

न रक्तमुल्बणं चान्यधृतं वासो न कुण्डिकाम् ।
नोपानहौ स्त्रजं चाथ पादुके च प्रयोजयेत् ॥ ७ ॥

उपवीतमलङ्कारं दर्भान् कृष्णाजिनानि च ।
नापसव्यं परीदध्याद् वासो न विकृतं वसेत् ॥ ८ ॥

आहरेद् विधिवद् दारान् सदृशानात्मनः शुभान् ।
रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान् ॥ ९ ॥

अमातृगोत्रप्रभवामसमानर्षिगोत्रजाम् ।
आहरेद् ब्राह्मणो भार्यां शीलशौचसमन्विताम् ॥ १० ॥

ऋतुकालाभिगामी स्याद् यावत् पुत्रो ऽभिजायते ।
वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ ११ ॥

षष्ठ्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ १२ ॥

आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् ।
व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥ १३ ॥

वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ १४ ॥

अब्यसेत् प्रयतो वेदं महायज्ञान् न हापयेत् ।
कुर्याद् गृह्याणि कर्माणि सन्ध्योपासनमेव च ॥ १५ ॥

सख्यं समाधैकैः कुर्यादुपेयादीश्वरं सदा ।
दैवतान्यपि गच्छेत कुर्याद् भार्याभिपोषणम् ॥ १६ ॥

न धर्मं ख्यापयेद् विद्वान् न पापं गूहयेदपि ।
कुर्वोतात्महितं नित्यं सर्वभूतानिकम्पकः ॥ १७ ॥

वयसः कर्मणोर्ऽथस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ॥ १८ ॥

श्रुतिस्मृत्युदितः सम्यक् साधुभिर्यश्च सेवितः ।
तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ॥ १९ ॥

येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥ २० ॥

नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ।
सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥ २१ ॥

सन्ध्यास्नानपरो नित्यं ब्रह्मयज्ञुपरायणः ।
अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्धते ॥ २२ ॥

वीतरागभयक्रोधो लोभमोहविवर्जितः ।
सावित्रीजाप्यनिरतः श्राद्धकृन्मुच्यते गृही ॥ २३ ॥

मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः ।
दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ २४ ॥

त्रिवर्गसेवी सततं देवतानां च पूजनम् ।
कुर्यादहरहर्नित्यं नमस्येत् प्रयतः सुरान् ॥ २५ ॥

विभागशीलः सततं क्षमायुक्तो दयालुकः ।
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ २६ ॥

क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।
अध्यात्मनिरतं ज्ञानमेतद् ब्राह्मणलक्षणम् ॥ २७ ॥

एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।
यथाशक्तिं चरन् कर्म निन्दितानि विवर्जयेत् ॥ २८ ॥

विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।
गृहस्थो मुच्यते बन्धात् नात्र कार्या विचारणा ॥ २९ ॥

विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम् ।
अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा ॥ ३० ॥

स्वदुः खेष्विव कारुण्यं परदुः खेषु सौहृदात् ।
दयेति मुनयः प्राहुः साक्षाद् धर्मस्य साधनम् ॥ ३१ ॥

चतुर्दशानां विद्यानां धारणं हि यतार्थतः ।
विज्ञानमिति तद् विद्याद् येन धर्मो विवर्धते ॥ ३२ ॥

अधीत्य विधिवद् विद्यामर्थं चैवोपलभ्य तु ।
धर्मकार्यान्निवृत्तश्चेन्न तद् विज्ञानमिष्यते ॥ ३३ ॥

सत्येन लोकाञ्जयति सत्यं तत्परमं पदम् ।
यथाभूतप्रवाद् तु सत्यमाहुर्मनीषिणः ॥ ३४ ॥

दमः शरीरोपरमः शमः प्रज्ञाप्रिसादजः ।
अध्यात्ममक्षरं विद्याद् यत्र गत्वा न शोचति ॥ ३५ ॥

यया स देवो भगवान् विद्यया वेद्यते परः ।
साक्षाद् देवो महादेवस्तज्ज्ञानमिति कीर्तितम् ॥ ३६ ॥

तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।
महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ ३७ ॥

धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।
न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥ ३८ ॥

नित्यधर्मार्थकामेषु युज्येत नियतो द्विजः ।
न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ ३९ ॥

सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् ।
धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु ॥ ४० ॥

भूतानां प्रियकारी स्यात् न परद्रोहकर्मधीः ।
न वेददेवतानिन्दां कुर्यात् तैश्च न संवसेत् ॥ ४१ ॥

यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्छुचिः ।
अध्यापयेत् श्रावयेद् वा ब्रह्मलोके महीयते ॥ ४२ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चदशो ऽध्यायः