व्यास उवाच
विश्वास-प्रस्तुतिः
एवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः ।
आहूतो ऽध्ययनं कुर्याद् वीक्षमाणो गुरोर्मुखम् ॥ १ ॥
मूलम्

नित्यमुद्यतपाणिः स्यात् साध्वाचारः सुसंयतः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ २ ॥

प्रतिश्रवणसम्भाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ ३ ॥

नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ ४ ॥

नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्वोत गतिभाषणचेष्टितम् ॥ ५ ॥

गुरोर्यत्र परीवादो निन्दा चापि प्रवर्तते ।
कर्णैं तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ॥ ६ ॥

दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
न चैवास्योत्तरं ब्रूयात् स्थितो नासीत सन्निधौ ॥ ७ ॥

उदकुम्भं कुशान् पुष्पं समिधो ऽस्याहरेत् सदा ।
मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ॥ ८ ॥

नास्य निर्माल्यशयनं पादुकोपानहावपि ।
आक्रमेदासनं चास्य छायादीन् वा कदाचन ॥ ९ ॥

साधयेद् दन्तकाष्ठादीन् लब्धं चास्मै निवेदयेत् ।
अनापृच्छ्य न गन्तव्यं भवेत् प्रियहिते रतः ॥ १० ॥

जृम्भितं हसितं चैव कण्ठप्रावरणं तथा ।
वर्जयेत् सन्निधौ नित्यमवस्फोचनमेव च ॥ ११ ॥

यथाकालमधीयीत यावन्न विमना गुरुः ।
आसीताधो गुरोः कूर्चे फलके वा समाहितः ॥ १२ ॥

आसने शयने याने नैव तिष्ठेत् कदाचन ।
धावन्तमनुधावेत गच्छन्तमनुगच्छति ॥ १३ ॥
मूलम्
आसने शयने याने नैव तिष्ठेत् कदाचन ।
धावन्तमनुधावेत गच्छन्तमनुगच्छति ॥ १३ ॥
विश्वास-प्रस्तुतिः
गो ऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ १४ ॥

जितेन्द्रियः स्यात् सततं वश्यात्माक्रोधनः शुचिः ।
प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ॥ १५ ॥

गन्धमाल्यं रसं कल्यां शुक्तं प्राणिविहिंसनम् ।
अभ्यङ्गं चाञ्चनोपानच्छत्रधारणमेव च ॥ १६ ॥

आतर्जनं परीवादं स्त्रीप्रेक्षालम्भनं तथा ।
परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥ १७ ॥

उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् ।
आहरेद् यावदर्थानि भैक्ष्यं चाहरहश्चरेत् ॥ १८ ॥

कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत् ।
अनृत्यदर्शो सततं भवेद् गीतादिनिः स्पृहः ॥ १९ ॥

नादित्यं वै समीक्षेत न चरेद् दन्तधावनम् ।
एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम् ॥ २० ॥

गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः ।
कलापकर्षणस्नानं नाचरेद्धि कदाचन ॥ २१ ॥

न कुर्यान्मानसं विप्रो गुरोस्त्यागे कदाचन ।
मोहाद्वा यदि वा लोभात् त्यक्तेन पतितो भवेत् ॥ २२ ॥

लौकिकं वैदिकं चापि तथाध्यात्मिकमेव च ।
आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन ॥ २३ ॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ॥ २४ ॥

गुरोर्गुरौ सन्निहिते गुरुवद् भक्तिमाचरेत् ।
न चातिसृष्टो गुरुणा स्वान् गुरूनबिवादयेत् ॥ २५ ॥

विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥ २६ ॥

श्रेयःसु गुरुवद् वृत्तिं नित्यमेव समाचरेत् ।
गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ २७ ॥

बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।
अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ २८ ॥

उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद् गुरुपुत्रस्य पादयोः शौचमेव च ॥ २९ ॥

गुरुवत् परिपूज्यास्तु सवर्णा गुरुयोषितः ।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ ३० ॥

अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ ३१ ॥

गुरुपत्नी तु युवती नाभिवाद्येह पादयोः ।
कुर्वोत वन्दनं भूम्यामसावहमिति ब्रुवन् ॥ ३२ ॥

विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वोत सतां धर्ममनुस्मरन् ॥ ३३ ॥

मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा ।
सम्पूज्या गुरुपत्नीव समास्ता गुरुभार्यया ॥ ३४ ॥

भ्रातुर्भार्योपसङ्ग्राह्या सवर्णाहन्यहन्यपि ।
विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसम्बन्धियोषितः ॥ ३५ ॥

पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि ।
मातृवद् वृत्तिमातिष्ठेन्मात् ताभ्यो गरीयसी ॥ ३६ ॥

एवमाचारसम्पन्नमात्मवन्तमदाम्भिकम् ।
वेदमध्यापयेद् धर्मं पुराणाङ्गानि नित्यशः ॥ ३७ ॥

संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् ।
हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ॥ ३८ ॥

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
शक्तो ऽन्नदोर्ऽथो स्वःसाधुरध्याप्या दश धर्मतः ॥ ३९ ॥

आप्तः प्रियो ऽथ विधिवत् षडध्याप्या द्विजातयः ।
एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितान् ॥ ४० ॥

उपसङ्गृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ।
अधीष्व भो इति ब्रूयाद् विरामो ऽस्त्विति चारमेत् ॥ ४१ ॥

प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः ।
प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ॥ ४२ ॥

ब्राह्मणः प्रणवं कुर्यादन्ते च विधिवद् द्विजः ।
कुर्यादध्ययनं नित्यं स ब्रह्माञ्जलिपूर्वतः ॥ ४३ ॥

सर्वेषामेव भूतानां वेदश्चक्षुः सनातनम् ।
अधीयीताप्ययं नित्यं ब्राह्मण्याच्च्यवते ऽन्यथा ॥ ४४ ॥

यो ऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः ।
प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि ॥ ४५ ॥

यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ।
सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ॥ ४६ ॥

अथर्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः ।
धर्माङ्गानि पुराणानि मांसैस्तर्पयते सुरान् ॥ ४७ ॥

अपां समीपे नियतो नैत्यकं विधिमाश्रितः ।
गायत्रीमप्यधीयीत गत्वारण्यं समाहितः ॥ ४८ ॥

सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्तितः ॥ ४९ ॥

गायत्रीं चैव वेदांश्च तुलयातोलयत् प्रभुः ।
एकतश्चतुरो वेदान् गायत्रीं च तथैकतः ॥ ५० ॥

ओङ्कारमादितः कृत्वा व्याहृतीस्तदनन्तरम् ।
ततो ऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ॥ ५१ ॥

पुराकल्पे समुत्पन्ना भूर्भुवःस्वः सनातनाः ।
महाव्याहृतयस्तिस्त्रः सर्वाशुभनिबर्हणाः ॥ ५२ ॥

प्रधानं पुरुषः कालो विष्णुर्ब्रह्मा महेश्वरः ।
सत्त्वं रजस्तमस्तिस्त्रः क्रमाद् व्याहृतयः स्मृताः ॥ ५३ ॥

ओङ्कारस्तत् परं ब्रह्म सावित्री स्यात् तदक्षरम् ।
एष मन्त्रो महायोगः सारात् सार उदाहृतः ॥ ५४ ॥

यो ऽधीते ऽहन्यहन्येतां गायत्रीं वेदमातरम् ।
विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥ ५५ ॥

गायत्री वेदजननी गायत्री लोकपावनी ।
न गायत्र्याः परं जप्यमेतद् विज्ञाय मुच्यते ॥ ५६ ॥

श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।
आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥ ५७ ॥

उत्सृज्य ग्रामनगरं मासान् विप्रोर्ऽद्धपञ्चमान् ।
अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥ ५८ ॥

पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमे ऽहनि ॥ ५९ ॥

छन्दांस्यूर्ध्वमथोभ्यस्येच्छुक्लपक्षेषु वै द्विजः ।
वेदाङ्गानि पुराणानि कृष्णपक्षे च मानवम् ॥ ६० ॥

इमान् नित्यमनध्यायानदीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणो ह्यभ्यस्यन्नपि यत्नतः ॥ ६१ ॥

विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे ।
आकालिकमनध्यायमेतेष्वाह प्रजापतिः ॥ ६२ ॥

एतानभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।
तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥ ६३ ॥

निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।
एतानाकालिकान् विद्यादनध्यायानृतावपि ॥ ६४ ॥

प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ।
सज्योतिः स्यादनध्यायः शेषरात्रौ यथा दिवा ॥ ६५ ॥

नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ।
धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः ॥ ६६ ॥

अन्तः शवगते ग्रामे वृषलस्य च सन्निधौ ।
अनध्यायो रुद्यमाने समवाये जनस्य च ॥ ६७ ॥

उदके मध्यरात्रे च विण्मूत्रे च विसर्जने ।
उच्छिष्टः श्राद्धबुक् चैव मनसापि न चिन्तयेत् ॥ ६८ ॥

प्रतिगृह्य द्विजो विद्वानेकोदिष्टस्य केतनम् ।
त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ॥ ६९ ॥

यावदेको ऽनुदिष्टस्य स्नेहो गन्धश्च तिष्ठति ।
विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ॥ ७० ॥

शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥ ७१ ॥

नीहारे बाणशब्दे च सन्ध्ययोरुभयोरपि ।
अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ॥ ७२ ॥

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ।
अष्टकासु त्वहोरात्रं ऋत्वन्त्यासु च रात्रिषु ॥ ७३ ॥

मार्गशीर्षे तथा पौषे माघमासे तथैव च ।
तिस्त्रो ऽष्टकाः समाख्याता कृष्णपक्षेतु सूरिभिः ॥ ७४ ॥

श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च ।
कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥ ७५ ॥

समानविद्ये च मृते तथा सब्रह्मचारिणि ।
आचार्ये संस्थिते वापि त्रिरात्रं क्षपणं स्मृतम् ॥ ७६ ॥

छिद्राण्येतानि विप्राणांये ऽनध्यायः प्रकीर्तिताः ।
हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत् ॥ ७७ ॥

नैत्यके नास्त्यनध्यायः सन्ध्योपासन एव च ।
उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ॥ ७८ ॥

एकामृचमथैकं वा यजुः सामाथवा पुनः ।
अष्टकाद्यास्वधीयीत मारुते चातिवायति ॥ ७९ ॥

अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।
न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत् ॥ ८० ॥

एष धर्मः समासेन कीर्तितो ब्रह्मचारिणाम् ।
ब्रह्मणाभिहितः पूर्वमृषीणां भावितात्मनाम् ॥ ८१ ॥

यो ऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः ।
स सम्मूढो न सम्भाष्यो वेदबाह्यो द्विजातिभिः ॥ ८२ ॥

न वेदपाठमात्रेण सन्तुष्टो वै भवेद् द्विजः ।
पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ॥ ८३ ॥

यो ऽधीत्य विधिवद् वेदं वेदार्थं न विचारयेत् ।
ससान्वयः शूद्रकल्पः पात्रतां न प्रपद्यते ॥ ८४ ॥

यदि त्वात्यन्तिकं वासं कर्तुमिच्छति वै गुरौ ।
युक्तः परिचरेदेनमाशरीरविमोक्षणात् ॥ ८५ ॥

गत्वा वनं वा विधिवज्जुहुयाज्जातवेदसम् ।
अधीयीत सदा नित्यं ब्रह्मनिष्ठः समाहितः ॥ ८६ ॥

सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः ।
अभ्यसेत् सततं युक्ते भस्मस्नानपरायणः ॥ ८७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशो ऽध्यायः