व्यास उवाच
विश्वास-प्रस्तुतिः
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।
ओष्ठावलमोकौ स्पृष्ट्वा वासो विपरिधाय च ॥ १ ॥
मूलम्

रेतोमूत्रपुरीषाणामुत्सर्गे ऽयुक्तभाषणे ।
ष्ठीवित्वाध्ययनारम्भे कासश्वासागमे तथा ॥ २ ॥

चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः ।
सन्ध्ययोरुभयोस्तद्वदाचान्तो ऽप्याचमेत् पुनः ॥ ३ ॥

उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् ।
आचामेदश्रुपाते वा लोहितस्य तथैव च ॥ ४ ॥

भोजने सन्ध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ।
आचान्तो ऽप्याचमेत् सुप्त्वा सकृत्सकृदथान्यतः ॥ ५ ॥

अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेव वा ।
स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय च ॥ ६ ॥

उपस्पृशेज्जलं वार्द्रं तृणं वा भूमिमेव वा ।
केशानां चात्मनः स्पर्शे वाससो ऽक्षालितस्य च ॥ ७ ॥

अनुष्णाभिरफेनाबिरदुष्टाभिश्च धर्मतः ।
शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्मुखः ॥ ८ ॥

शिरः प्रावृत्य कण्ठं वा मुक्तकच्छसिखो ऽपि वा ।
अकृत्वा पादयोः शौचमाचान्तो ऽप्यशुचिर्भवेत् ॥ ९ ॥

सोपानत्को जलस्थो वा नोष्णीषी वाचमेद् बुधः ।
न चैव वर्षधाराभिर्न तिष्ठन् नोद्धृतोदकैः ॥ १० ॥

नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ।
न पादुकासनस्थो वा बहिर्जानुरथापि वा ॥ ११ ॥

न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्व एव च ।
नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ॥ १२ ॥

शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च ।
न चैवाङ्गुलिभिः शब्दं न कुर्वन् नान्यमानसः ॥ १३ ॥

न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः ।
न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा ॥ १४ ॥

हृद्गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ।
प्राशिताभिस्तथावैश्यः स्त्रीशूद्रौ स्पर्शतो ऽन्ततः ॥ १५ ॥

अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते ।
अन्तराङ्गुष्ठदेशिन्यो पितॄणां तीर्थमुत्तमम् ॥ १६ ॥

कनिष्ठामूलतः पश्चात् प्राजापत्यं प्रचक्षते ।
अङ्गुल्यग्रे स्मृतं दैवं तदेवार्षं प्रकीर्तितम् ॥ १७ ॥

मूले वा दैवमार्षं स्यादाग्नेयं मध्यतः स्मृतं ।
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ॥ १८ ॥

ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् ।
कायेन वाथ दैवेन तु पित्र्येण वै द्विजाः ॥ १९ ॥

त्रिः प्राश्नीयादपः पूर्वं ब्राह्मणः प्रयतस्ततः ।
सम्मृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत् ॥ २० ॥

अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः ।
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापृटद्वयम् ॥ २१ ॥

सर्वासामथ योगेन हृदयं तु तलेन वा ।
संस्पृशेद् वा शिरस्तद्वदङ्गुष्ठेनाथवा द्वयम् ॥ २२ ॥

त्रिः प्राश्नीयाद् यदम्भस्तु सुप्रीतास्तेन देवताः ।
ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः ॥ २३ ॥

गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् ।
संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ॥ २४ ॥

नासत्यदस्त्रौ प्रीयेते स्पृष्टे नासापुटद्वये ।
कर्णयोः स्पृष्टयोस्तद्वत् प्रीयेते चानिलानलौ ॥ २५ ॥

संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः ।
मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेत् ॥ २६ ॥

नोच्छिष्टं कुर्वते मुख्या विप्रुषो ऽङ्गं नयन्ति याः ।
दन्तवद् दन्तलग्नेषु जिह्वास्पर्शे ऽशुचिर्भवेत् ॥ २७ ॥

स्पृशान्ति बिन्दवः पादौ य आचामयतः परान् ।
भूमिगैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ २८ ॥

मदुपर्के च सोमे च ताम्बूलस्य च भक्षणे ।
फलमूले चेक्षुदण्डे न दोषं प्राह वे मनुः ॥ २९ ॥

प्रचरंश्चान्नपानेषु द्रव्यहस्तो भवेन्नरः ।
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ ३० ॥

तैजसं वै समादाय यद्युच्छिष्टो भवेद् द्विजः ।
भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ ३१ ॥

अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् ।
वस्त्रादिषु विकल्पः स्यात् तत्संस्पृष्ट्वाचमेदिह ॥ ३२ ॥

अरण्ये ऽनुदके रात्रौ चौरव्याघ्राकुले पथि ।
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ॥ ३३ ॥

निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ।
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद् दक्षिणामुखः ॥ ३४ ॥

अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्ठतृणेन वा ।
प्रावृत्य च शिरः कुर्याद् विण्मूत्रस्य विसर्जनम् ॥ ३५ ॥

छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु ।
अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥ ३६ ॥

न गोमये न कृष्टे वा महावृक्षे न शाड्वले ।
न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ॥ ३७ ॥

न जीर्णदेवायतने न वल्मीके कदाचन ।
न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ॥ ३८ ॥

तुषाङ्गारकपालेषु राजमार्गे तथैव च ।
न क्षेत्रे न विले वापि न तीर्थे न चतुष्पथे ॥ ३९ ॥

नोद्यानोदसमीपे वा नोषरे न पराशुचौ ।
न सोपानत्पादुको वा छत्री वा नान्तरिक्षके ॥ ४० ॥

न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर्गवाम् ।
न देवदेवालययोरपामपि कदाचन ॥ ४१ ॥

न ज्योतींषि निरीक्षन्वानसन्ध्याभिमुखो ऽपिवा ।
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥ ४२ ॥

आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणम् ।
कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥ ४३ ॥

नाहरेन्मृत्तिकां विप्रः पांशुलान्न च कर्दमात् ।
न मार्गान्नोषराद् देशाच्छौचशिष्टां परस्य च ॥ ४४ ॥

न देवायतनात् कूपाद् ग्रामान्न च जलात् तथा ।
उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः ॥ ४५ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयोदशो ऽध्यायः