१२

व्यास उवाच

विश्वास-प्रस्तुतिः

शृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम् ।
कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ॥ १ ॥

मूलम्

आम्नायसिद्धमखिलं ब्रिह्मणानुप्रदर्शितम् ।
ऋषीणां शृण्वतां पूर्वं मनुराह प्रजापतिः ॥ २ ॥

सर्वपापहरं पुण्यमृषिसङ्घैर्निषेवितम् ।
समाहितधियो यूयं शृणुध्वं गदतो मम ॥ ३ ॥

मूलम्

सर्वपापहरं पुण्यमृषिसङ्घैर्निषेवितम् ।
समाहितधियो यूयं शृणुध्वं गदतो मम ॥ ३ ॥

विश्वास-प्रस्तुतिः

कृतोपनयनो वेदानधीयीत द्विजोत्तमाः ।
गर्भाष्टमे ऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः ॥ ४ ॥

दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः ।
भिक्षाहारो गुरुहितो वीक्षमाणो गुरुर्मुखम् ॥ ५ ॥

कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा ।
ब्राह्मणानां त्रिवित् सूत्रं कौशं वा वस्त्रमेव वा ॥ ६ ॥

सदोपवीती चैव स्यात् सदा बद्धशिखो द्विजः ।
अन्यथा यत् कृतं कर्म तद् भवत्ययथाकृतम् ॥ ७ ॥

वसेदविकृतं वासः कार्पासं वा कषायकम् ।
तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम् ॥ ८ ॥

उत्तरं तु समाख्यातं वासः कृष्णाजिनं शुभम् ।
अभावे गव्यमजिनं रौरवं वा विधीयते ॥ ९ ॥

उद्धृत्य दक्षिणं बाहुं सव्ये बाहौ समर्पितम् ।
उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने ॥ १० ॥

सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः ।
प्राचीनावीतमित्युक्तं पित्र्ये कर्मणि योजयेत् ॥ ११ ॥

अग्न्यगारे गवां गोष्ठे होमे जप्ये तथैव च ।
स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ॥ १२ ॥

उपासने गुरूणां च सन्ध्ययोः साधुसङ्गमे ।
उपवीती भवेन्नित्यं विधिरेष सनातनः ॥ १३ ॥

मौञ्जी त्रिवृत् समा श्लक्षणा कार्या विप्रस्य मेखला ।
मुञ्जाभावे कुशेनाहुर्ग्रन्थिनैकेन वा त्रिभिः ॥ १४ ॥

धारयेद् बैल्वपालाशौ दण्डौ केशान्तकौ द्विजः ।
यज्ञार्हवृक्षजं वाथ सौम्यमव्रणमेव च ॥ १५ ॥

सायं प्रातर्द्विजः सन्ध्यामुपासीत समाहितः ।
कामाल्लोभाद् भयान्मोहात् त्यक्तेन पतितो भवेत् ॥ १६ ॥

अग्निकार्यं ततः कुर्यात् सायं प्रातः प्रसन्नधीः ।
स्नात्वा सन्तर्पयेद् देवानृषीन् पितृगणांस्तथा ॥ १७ ॥

देवताभ्यर्चनं कुर्यात् पुष्पैः पत्रेण वाम्बुभिः ।
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ॥ १८ ॥

असावहं भो नामेति सम्यक् प्रणतिपूर्वकम् ।
आयुरारोग्यसिद्ध्यर्थं तन्द्रादिपरिवर्जितः ॥ १९ ॥

आयुष्णान् भव सौम्येति वाच्यो विप्रो ऽभिवादने ।
अकारश्चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ २० ॥

न कुर्याद् यो ऽभिवादस्य द्विजः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ २१ ॥

व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ २२ ॥

लौकिकं वैदिकं चापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ २३ ॥

नोदकं धारयेद् भैक्षं पुष्पाणि समिधस्तथा ।
एवंविधानि चान्यानि न दैवाद्येषु कर्मसु ॥ २४ ॥

ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥ २५ ॥

उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
विश्वास-प्रस्तुतिः

मातुलः श्वशुरस्त्राता मातामहपितामहौ ।
वर्णज्येष्ठः पितृव्यश्च पुंसो ऽत्र गुरवः स्मृताः ॥ २६ ॥

माता मातामही गुर्वो पितुर्मातुश्च सोदराः ।
श्वश्रूः पितामहीज्येष्ठा धात्री च गुरवः स्त्रियः ॥ २७ ॥

इत्युक्तो गुरुवर्गो ऽयं मातृतः पितृतो द्विजाः ।
अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः ॥ २८ ॥

गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ।
नैतैरुपविशेत् सार्धं विवदेन्नात्मकारणात् ॥ २९ ॥

जीवितार्थमपि द्वेषाद् गुरुभिर्नैव भाषणम् ।
उदितो ऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ॥ ३० ॥

गुरूणामपि सर्वेषां पूज्याः पञ्च विशेषतः ।
तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ॥ ३१ ॥

यो भावयति या सूते येन विद्योपदिश्यते ।
ज्येष्ठो भ्राता च भर्ता च पञ्चैते गुरवः स्मृताः ॥ ३२ ॥

आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ।
पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ॥ ३३ ॥

यावत् पिता च माता च द्वावेतौ निर्विकारिणौ ।
तावत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः ॥ ३४ ॥

पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ।
स पुत्रः सकलं धर्ममाप्नुयात् तेन कर्मणा ॥ ३५ ॥

नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ।
तयोः प्रत्युपकारो ऽपि न कथञ्चन विद्यते ॥ ३६ ॥

तयोर्नित्यं प्रियं कुर्यात् कर्मणा मनसा गिरा ।
न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ॥ ३७ ॥

वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ।
धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः ॥ ३८ ॥

सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ।
शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चापद्यते दिवि ॥ ३९ ॥

यो भ्रातरं पितृसमं ज्येष्ठं मूर्खो ऽवमन्यते ।
तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ॥ ४० ॥

पुंसा वर्त्मनिविष्टेन पूज्यो भर्ता तु सर्वदा ।
याति दातरि लोके ऽस्मिन् उपकाराद्धि गौरवम् ॥ ४१ ॥

येनरा भर्तृपिण्डार्थं स्वान् प्राणान् सन्त्यजन्ति हि ।
तेषामथाक्षयांल्लोकान् प्रोवाच भगवान् मनुः ॥ ४२ ॥

मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।
असावहमिति ब्रूयुः प्रत्युत्थाय यवीयसः ॥ ४३ ॥

अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ ४४ ॥

अभिवाद्याश्च पूज्यश्च शिरसा वन्द्य एव च ।
ब्राह्मणः क्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ॥ ४५ ॥

नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथञ्चन ।
ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ॥ ४६ ॥

ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति स्थितिः ।
सवर्णेषु सवर्णानां कार्यमेवाभिवादनम् ॥ ४७ ॥

गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ ४८ ॥

विद्या कर्म वयो बन्धुर्वित्तं भवति पञ्चमम् ।
मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात् ॥ ४९ ॥

पञ्चानां त्रिषु वर्णेषु भूयांसि बलवन्ति च ।
यत्र स्युः सो ऽत्र मानार्हः शूद्रो ऽपि दशमीं गतः ॥ ५० ॥

पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे ।
वृद्धाय भारबुग्नाय रोगिणे दुर्बलाय च ॥ ५१ ॥

भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतो ऽन्वहम् ।
निवेद्य गुरवे ऽश्नीयाद् वाग्यतस्तदनुज्ञया ॥ ५२ ॥

भवत्पूर्वं चरेद् भैक्ष्यमुपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ ५३ ॥

मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ॥ ५४ ॥

सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ।
भैक्ष्यस्य चरणं प्रोक्तं पतितादिषु वर्जितम् ॥ ५५ ॥

वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचर्याहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम् ॥ ५६ ॥

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ ५७ ॥

सर्वं वा विचरेद् ग्रामं पूर्वोक्तानामसम्भवे ।
नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् ॥ ५८ ॥

समाहृत्य तु तद् भैक्षं यावदर्थममायया ।
भुञ्जीत प्रयतो नित्यं वाग्यतो ऽनन्यमानसः ॥ ५९ ॥

भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेद् व्रती ।
भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ ६० ॥

पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ।
दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ ६१ ॥

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत् ॥ ६२ ॥

प्राङ्मुखो ऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।
नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः ॥ ६३ ॥

प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् ।
शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ॥ ६४ ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वादशो ऽध्यायः