११

ईश्वर उवाच

विश्वास-प्रस्तुतिः

अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् ।
येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ॥ १ ॥

मूलम्

योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् ।
प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम् ॥ २ ॥

योगात्सञ्जायते ज्ञानं ज्ञानाद् योगः प्रवर्तते ।
योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः ॥ ३ ॥

एककालं द्विकालं वा त्रिकालं नित्यमेव वा ।
ये युञ्जन्तीह मद्योगं ते विज्ञेया महेश्वराः ॥ ४ ॥

योगस्तु द्विविधो ज्ञेयो ह्यभावः प्रथमो मतः ।
अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः ॥ ५ ॥

शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्त्यते ।
अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ॥ ६ ॥

यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् ।
मयैक्यं स महायोगो भाषितः परमेश्वरः ॥ ७ ॥

ये चान्ये योगिनां योगाः श्रूयन्ते ग्रन्थविस्तरे ।
सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम् ॥ ८ ॥

यत्र साक्षात् प्रपश्यन्ति विमुक्ता विश्वमीश्वरम् ।
सर्वेषामेव योगानां स योगः परमो मतः ॥ ९ ॥

सहस्रशो ऽथ शतशो ये चेश्वरबहिष्कृताः ।
न ते पश्यन्ति मामेकं योगिनो यतमानसाः ॥ १० ॥

प्राणायामस्तथा ध्यानं प्रत्याहारो ऽथ धारणा ।
समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम् ॥ ११ ॥

मय्येकचित्ततायोगो वृत्त्यन्तरनिरोधतः ।
तत्साधनान्यष्टधा तु युष्माकं कथितानि तु ॥ १२ ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यमाः सङ्क्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम् ॥ १३ ॥

कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ।
अक्लेशजननं प्रोक्तं त्वहिंसा परमर्षिभिः ॥ १४ ॥

अहिंसायाः परो धर्मो नास्त्यहिंसा परं सुखम् ।
विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्तिता ॥ १५ ॥

सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम् ।
यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः ॥ १६ ॥

परद्रव्यापहरणं चौर्याद् वाथ बलेन वा ।
स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम् ॥ १७ ॥

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ १८ ॥

द्रव्याणामप्यनादानमापद्यपि यथेच्छया ।
अपरिग्रह इत्याहुस्तं प्रयत्नेन पालयेत् ॥ १९ ॥

तपः स्वाध्यायसन्तोषाः शौचमीश्वरपूजनम् ।
समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः ॥ २० ॥

उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः ।
शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ २१ ॥

वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः ।
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ २२ ॥

स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः ।
उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः ॥ २३ ॥

यः शब्दबोधजननः परेषां शृण्वतां स्फुटम् ।
स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम् ॥ २४ ॥

ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकः ।
उपांशुरेष निर्दिष्टः साहस्रो वाचिकाज्जपः ॥ २५ ॥

यत्पदाक्षरसङ्गत्या परिस्पन्दनवर्जितम् ।
चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः ॥ २६ ॥

यदृच्छालाभतो नित्यमलं पुंसो भवेदिति ।
या धीस्तामृषयः प्राहुः सन्तोषं सुखलक्षणम् ॥ २७ ॥

बाह्यमाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः ।
मृज्जलाभ्यां स्मृतं बाह्यं मनःशुद्धिरथान्तरम् ॥ २८ ॥

स्तुतिस्मरणपूजाभिर्वाङ्मनःकायकर्मभिः ।
सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम् ॥ २९ ॥

यमाः सनियमाः प्रोक्ताः प्राणायामं निबोधत ।
प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ॥ ३० ॥

उत्तमाधममध्यत्वात् त्रिधायं प्रतिपादितः ।
स एव द्विविधः प्रोक्तः सगर्भो ऽगर्भ एव च ॥ ३१ ॥

मात्राद्वादशको मन्दश्चतुर्विंशतिमात्रिकः ।
मध्यमः प्राणसंरोधः षट्त्रिंशन्मात्रिकोत्तमः ॥ ३२ ॥

प्रस्वेदकम्पनोत्थानजनकत्वं यथाक्रमम् ।
मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः ॥ ३३ ॥

सगर्भमाहुः सजपमगर्भं विजपं बुधाः ।
एतद् वै योगिनामुक्तं प्राणायामस्य लक्षणम् ॥ ३४ ॥

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥ ३५ ॥

रेचकः पूरकश्चैव प्राणायामो ऽथ कुम्भकः ।
प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ ३६ ॥

रेचको ऽजस्त्रनिश्वासात् पूरकस्तन्निरोधतः ।
साम्येन संस्थितिर्या सा कुम्भकः परिगीयते ॥ ३७ ॥

इन्द्रियाणां विचरतां विषयेषु स्वभावतः ।
निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः ॥ ३८ ॥

हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वतमस्तके ।
एवमादिषु देशेषु धारणा चित्तबन्धनम् ॥ ३९ ॥

देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसन्ततिः ।
वृत्त्यन्तरैरसंसृष्टा तद्ध्यानं सूरयो विदुः ॥ ४० ॥

एकाकारः समाधिः स्याद् देशालम्बनवर्जितः ।
प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् ॥ ४१ ॥

धारणा द्वादशायामा ध्यानं द्वादशधारणाः ।
ध्यानं द्वादशकं यावत् समाधिरभिधीयते ॥ ४२ ॥

आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा ।
साधनानां च सर्वेषामेतत्साधनमुत्तमम् ॥ ४३ ॥

ऊर्वोरुपरि विप्रेन्द्राः कृत्वा पादतले उभे ।
समासीतात्मनः पद्ममेतदासनमुत्तमम् ॥ ४४ ॥

एकं पादमथैकस्मिन् विन्यस्योरुणि सत्तमाः ।
आसीतार्धासनमिदं योगसाधनमुत्तमम् ॥ ४५ ॥

उभे कृत्वा पादतले जानूर्वोरन्तरेण हि ।
समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम् ॥ ४६ ॥

अदेशकाले योगस्य दर्शनं हि न विद्यते ।
अग्न्यभ्यासे जले वापि शुष्कपर्णचये तथा ॥ ४७ ॥

जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे ।
सशब्दे सभये वापि चैत्यवल्मीकसञ्चये ॥ ४८ ॥

अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते ।
नाचरेद् देहबाधे वा दौर्मनस्यादिसम्भवे ॥ ४९ ॥

सुगुप्ते सुशुभे देशे गुहायां पर्वतस्य तु ।
नद्यास्तीरे पुण्यदेशे देवतायतने तथा ॥ ५० ॥

गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते ।
युञ्जीत योगी सततमात्मानं मत्परायणः ॥ ५१ ॥

नमस्कृत्य तु योगीन्द्रान् सशिष्यांश्च विनायकम् ।
गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ॥ ५२ ॥

आसनं स्वस्तिकं बद्ध्वा पद्ममर्धमथापि वा ।
नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः ॥ ५३ ॥

कृत्वाथ निर्भयः शान्तस्त्यक्त्वा मायामयं जगत् ।
स्वात्मन्यवस्थितं देवं चिन्तयेत् परमेश्वरम् ॥ ५४ ॥

शिखाग्रे द्वादशाङ्गुल्ये कल्पयित्वाथ पङ्कजम् ।
धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् ॥ ५५ ॥

ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् ।
चिन्तयेत् परमं कोशं कर्णिकायां हिरण्मयम् ॥ ५६ ॥

सर्वशक्तिमयं साक्षाद् यं प्राहुर्दिव्यमव्ययम् ।
ओङ्कारवाच्यमव्यक्तं रश्मिजालसमाकुलम् ॥ ५७ ॥

चिन्तयेत् तत्र विमलं परं ज्योतिर्यदक्षरम् ।
तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः ॥ ५८ ॥

ध्यायीताकाशमध्यस्थमीशं परमकारणम् ।
तदात्मा सर्वगो भूत्वा न किञ्चिदपि चिन्तयेत् ॥ ५९ ॥

एतद् गुह्यतमं ध्यानं ध्यानान्तरमथोच्यते ।
चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम् ॥ ६० ॥

आत्मानमथ कर्तारं तत्रानलसमत्विषम् ।
मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम् ॥ ६१ ॥

चिन्तयेत् परमात्मानं तन्मध्ये गगनं परम् ।
ओङ्करबोधितं तत्त्वं शाश्वतं शिवमच्युतम् ॥ ६२ ॥

अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम् ।
तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम् ॥ ६३ ॥

ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरम् ।
विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः ॥ ६४ ॥

संस्थाप्य मयि चात्मानं निर्मले परमे पदे ।
प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा ॥ ६५ ॥

मदात्मा मन्मयो भस्म गृहीत्वा ह्यग्निहोत्रजम् ।
विश्वास-प्रस्तुतिः

तेनोद्धृत्य तु सर्वाङ्गमग्निरित्यादिमन्त्रतः ।
चिन्तयेत् स्वात्मनीशानं परं ज्योतिः स्वरूपिणम् ॥ ६६ ॥

एष पाशुपतो योगः पशुपाशविमुक्तये ।
सर्ववेदान्तसारो ऽयमत्याश्रममिति श्रुतिः ॥ ६७ ॥

एतत् परतरं गुह्यं मत्सायुज्योपपादकम् ।
द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम् ॥ ६८ ॥

ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः ।
सन्तोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः ॥ ६९ ॥

एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते ।
तस्मादात्मगुणोपेतो मद्व्रतं वोढुमर्हति ॥ ७० ॥

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ऽनेन योगेन पूता मद्भावमागताः ॥ ७१ ॥

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
ज्ञानयोगेन मां तस्माद् यजेत परमेश्वरम् ॥ ७२ ॥

अथवा भक्तियोगेन वैराग्येण परेण तु ।
चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः ॥ ७३ ॥

सर्वकर्माणि सन्न्यस्य भिक्षाशी निष्परिग्रहः ।
प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम् ॥ ७४ ॥

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारो यो मद्भक्तः स मे प्रियः ॥ ७५ ॥

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः ॥ ७६ ॥

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः ॥ ७७ ॥

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः ॥ ७८ ॥

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति ॥ ७९ ॥

सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः ।
मत्प्रसादादवाप्नोति शाश्वतं परमं पदम् ॥ ८० ॥

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।
निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत् ॥ ८१ ॥

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तो ऽपि नैव तेन निबध्यते ॥ ८२ ॥

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम् ॥ ८३ ॥

यदृच्छालाभतुष्टस्य द्वन्द्वातीतस्य चैव हि ।
कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम् ॥ ८४ ॥

मन्मना मन्नमस्कारो मद्याजी मत्परायणः ।
मामुपैष्यति योगीशं ज्ञात्वा मां परमेश्वरम् ॥ ८५ ॥

मद्बुद्धयो मां सततं बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः ॥ ८६ ॥

एवं नित्याभियुक्तानां मायेयं कर्मसान्वगम् ।
नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता ॥ ८७ ॥

मद्बुद्धयो मां सततं पूजयन्तीह ये जनाः ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ८८ ॥

ये ऽन्ये च कामभोगार्थं यजन्ते ह्यन्यदेवताः ।
तेषां तदन्तं विज्ञेयं देवतानुगतं फलम् ॥ ८९ ॥

ये चान्यदेवताभक्ताः पूजयन्तीह देवताः ।
मद्भावनासमायुक्ता मुच्यन्ते ते ऽपि भावतः ॥ ९० ॥

तस्मादनीश्वरानन्यांस्त्यक्त्वा देवानशेषतः ।
मामेव संश्रयेदीशं स याति परमं पदम् ॥ ९१ ॥

त्यक्त्वा पुत्रादिषु स्नेहं निः शोको निष्परिग्रहः ।
यजेच्चामरणाल्लिङ्गे विरक्तः परमेश्वरम् ॥ ९२ ॥

ये ऽर्चयन्ति सदा लिङ्गं त्यक्त्वा भोगानशेषतः ।
एकेन जन्मना तेषां ददामि परमैश्वरम् ॥ ९३ ॥

परानन्दात्मकं लिङ्गं केवलं सन्निरञ्जनम् ।
ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम् ॥ ९४ ॥

ये चान्ये नियता भक्ता भावयित्वा विधानतः ।
यत्र क्वचन तल्लिङ्गमर्चयन्ति महेश्वरम् ॥ ९५ ॥

जले वा वह्निमध्ये वाव्योम्नि सूर्ये ऽथवान्यतः ।
रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम् ॥ ९६ ॥

सर्वं लिङ्गमयं ह्येतत् सर्वं लिङ्गे प्रतिष्ठितम् ।
तस्माल्लिङ्गे ऽर्चयेदीशं यत्र क्वचन शाश्वतम् ॥ ९७ ॥

अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् ।
काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गन्तुयोगिनाम् ॥ ९८ ॥

यद्यनुत्पन्नविज्ञानो विरक्तः प्रीतिसंयुतः ।
यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः ॥ ९९ ॥

अथवा शतरुद्रीयं जपेदामरणाद् द्विजः ।
एकाकी यतचित्तात्मा स याति परमं पदम् ॥ १०० ॥

वसेद् वामरणाद् विप्रो वाराणस्यां समाहितः ।
सो ऽपीश्वरप्रसादेन याति तत् परमं पदम् ॥ १०१ ॥

तत्रोत्क्रमणकाले हि सर्वेषामेव देहिनाम् ।
ददाति तत् परं ज्ञानं येन मुच्येत बन्धनात् ॥ १०२ ॥

वर्णाश्रमविधिं कृत्स्नं कुर्वाणो मत्परायणः ।
तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम् ॥ १०३ ॥

ये ऽपि तत्र वसन्तीह नीचा वा पापयोनयः ।
सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः ॥ १०४ ॥

किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम् ।
धर्मं समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः ॥ १०५ ॥

एतद् रहस्यं वेदानां न देयं यस्य कस्य चित् ।
धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे ॥ १०६ ॥

व्यास उवाच
विश्वास-प्रस्तुतिः

इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् ।
व्याजहार समासीनं नारायणमनामयम् ॥ १०७ ॥

मूलम्

इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् ।
व्याजहार समासीनं नारायणमनामयम् ॥ १०७ ॥

विश्वास-प्रस्तुतिः

मयैतद् भाषितं ज्ञानं हितार्थं ब्रह्मवादिनाम् ।
दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम् ॥ १०८ ॥

उक्त्वैवमथ योगीन्द्रानब्रवीद् भगवानजः ।
हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः ॥ १०९ ॥

भवन्तो ऽपि हि मज्ज्ञानं शिष्याणां विधिपूर्वकम् ।
उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम ॥ ११० ॥

अयं नारायणो यो ऽहमीश्वरो नात्र संशयः ।
नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम् ॥ १११ ॥

ममैषा परमा मूर्तिर्नारायणसमाह्वया ।
सर्वभूतात्मभूतस्था शान्ता चाक्षरसञ्ज्ञिता ॥ ११२ ॥

ये त्वन्यथा प्रपश्यन्ति लोके भेददृशो जनाः ।
न ते मां सम्प्रपश्यन्ति जायन्ते च पुनः पुनः ॥ ११३ ॥

ये त्विमं विष्णुमव्यक्तं मां वा देवं महेश्वरम् ।
एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः ॥ ११४ ॥

तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् ।
मामेव सम्प्रपश्यध्वं पूजयध्वं तथैव हि ॥ ११५ ॥

ये ऽन्यथा मां प्रपश्यन्ति मत्वेमं देवतान्तरम् ।
ते यान्ति नरकान् घोरान् नाहं तेषुव्यवस्थितः ॥ ११६ ॥

मूर्खं वा पण्डितं वापि ब्राह्मणं वा मदाश्रयम् ।
मोचयामि श्वपाकं वा न नारायणनिन्दकम् ॥ ११७ ॥

तस्मादेष महायोगी मद्भक्तैः पुरुषोत्तमः ।
अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि ॥ ११८ ॥

एवमुक्त्वा समालिङ्ग्य वासुदेवं पिनाकधृक् ।
अन्तर्हितो ऽभवत् तेषां सर्वेषामेव पश्यताम् ॥ ११९ ॥

नारायणो ऽपि भगवांस्तापसं वेषमुत्तमम् ।
जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः ॥ १२० ॥

ज्ञातं भवद्भिरमलं प्रसादात् परमेष्ठिनः ।
साक्षादेव महेशस्य ज्ञानं संसारनाशनम् ॥ १२१ ॥

गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः ।
प्रवर्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः ॥ १२२ ॥

इदं भक्ताय शान्ताय धार्मिकायाहिताग्नये ।
विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः ॥ १२३ ॥

एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः ।
नारायणो महायोगी जगामादर्शनं स्वयम् ॥ १२४ ॥

ते ऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम् ।
नारायणं च भूतादिं स्वानि स्थानानि भेजिरे ॥ १२५ ॥

सनत्कुमारो भगवान् संवर्ताय महामुनिः ।
दत्तवानैश्वरं ज्ञानं सो ऽपि सत्यव्रताय तु ॥ १२६ ॥

सनन्दनो ऽपि योगीन्द्रः पुलहाय महर्षये ।
प्रददौ गौतमायाथ पुलहो ऽपि प्रजापतिः ॥ १२७ ॥

अङ्गिरा वेदविदुषे भरद्वाजाय दत्तवान् ।
जैगीषव्याय कपिलस्तथा पञ्चशिखाय च ॥ १२८ ॥

पराशरो ऽपि सनकात् पिता मे सर्वतत्त्वदृक् ।
लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान् ॥ १२९ ॥

ममोवाच पुरा देवः सतीदेहभवाङ्गजः ।
वामदेवो महायोगी रुद्रः किल पिनाकधृक् ॥ १३० ॥

नारायणो ऽपि भगवान् देवकीतनयो हरिः ।
अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम् ॥ १३१ ॥

यदहं लब्धवान् रुद्राद् वामदेवादनुत्तमम् ।
विशेषाद् गिरिशे भक्तिस्तस्मादारभ्य मे ऽभवत् ॥ १३२ ॥

शरण्यं शरणं रुद्रं प्रपन्नो ऽहं विशेषतः ।
भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम् ॥ १३३ ॥

भवन्तो ऽपि हि तं देवं शम्भुं गोवृषवाहनम् ।
प्रपद्यध्वं सपत्नीकाः सपुत्राः शरणं शिवम् ॥ १३४ ॥

वर्तध्वं तत्प्रसादेन कर्मयोगेन शङ्करम् ।
पूजयध्वं महादेवं गोपतिं भूतिभूषणम् ॥ १३५ ॥

एवमुक्ते ऽथ मुनयः शौनकाद्या महेश्वरम् ।
प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम् ॥ १३६ ॥

अब्रुवन् हृष्टमनसः कृष्णद्वैपायनं प्रभुम् ।
साक्षादेव हृषीकेशं सर्वलोकमहेश्वरम् ॥ १३७ ॥

भवत्प्रसादादचला शरण्ये गोवृषध्वजे ।
इदानीं जायते भक्तिर्या देवैरपि दुर्लभा ॥ १३८ ॥

कथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम् ।
येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः ॥ १३९ ॥

त्वत्सन्निधावेष सूतः शृणोतु भगवद्वचः ।
तद्वदाखिललोकानां रक्षणं धर्मसङ्ग्रहम् ॥ १४० ॥

यदुक्तं देवदेवेन विष्णुना कूर्मरूपिणा ।
पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने ॥ १४१ ॥

श्रुत्वा सत्यवतीसूनुः कर्मयोगं सनातनम् ।
मुनीनां भाषितं कृष्णः प्रोवाच सुसमाहितः ॥ १४२ ॥

य इमं पठते नित्यं संवादं कृत्तिवाससः ।
सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते ॥ १४३ ॥

श्रावयेद् वा द्विजान् शुद्धान् ब्रह्मचर्यपरायणान् ।
यो वा विचारयेदर्थं स याति परमां गतिम् ॥ १४४ ॥

यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ १४५ ॥

तस्मात् सर्वप्रयत्नेन पठितव्यो मनीषिभिः ।
श्रोतव्यश्चाथ मन्तव्यो विशेषाद् ब्राह्मणैः सदा ॥ १४६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) एकादशो ऽध्यायः