ईश्वर उवाच
विश्वास-प्रस्तुतिः
अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् ।
स्वयञ्ज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ॥ १ ॥
मूलम्

अव्यक्तं कारणं यत्तदक्षरं परमं पदम् ।
निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ॥ २ ॥

तन्निष्ठाः शान्तसङ्कल्पा नित्यं तद्भावभाविताः ।
पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ॥ ३ ॥

अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुङ्गवाः ।
नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम् ॥ ४ ॥

एतत्तत्परमं ज्ञानं केवलं कवयो विदुः ।
अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ॥ ५ ॥

यज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् ।
ममात्मासौ तदेवेमिति प्राहुर्विपश्चितः ॥ ६ ॥

ये ऽप्यनेकं प्रपश्यन्ति ते ऽपि पश्यन्ति तत्परम् ।
आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम् ॥ ७ ॥

ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् ।
भक्त्या मां सम्प्रपश्यन्ति विज्ञेयास्ते तदात्मकाः ॥ ८ ॥

साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् ।
नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः ॥ ९ ॥

भजन्ते परमानन्दं सर्वगं यत्तदात्मकम् ।
स्वात्मन्यवस्थिताः शान्ताः परे ऽव्यक्ते परस्य तु ॥ १० ॥

एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् ।
निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ॥ ११ ॥

तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् ।
स ईश्वरो महादेवस्तं विज्ञाय विमुच्यते ॥ १२ ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) दशमो ऽध्यायः