१०

ईश्वर उवाच

विश्वास-प्रस्तुतिः

अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् ।
स्वयञ्ज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ॥ १ ॥

मूलम्

अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् ।
स्वयञ्ज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ॥ १ ॥

विश्वास-प्रस्तुतिः

अव्यक्तं कारणं यत्तदक्षरं परमं पदम् ।
निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ॥ २ ॥

मूलम्

अव्यक्तं कारणं यत्तदक्षरं परमं पदम् ।
निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ॥ २ ॥

विश्वास-प्रस्तुतिः

तन्निष्ठाः शान्तसङ्कल्पा नित्यं तद्भावभाविताः ।
पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ॥ ३ ॥

मूलम्

तन्निष्ठाः शान्तसङ्कल्पा नित्यं तद्भावभाविताः ।
पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ॥ ३ ॥

विश्वास-प्रस्तुतिः

अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुङ्गवाः ।
नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम् ॥ ४ ॥

मूलम्

अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुङ्गवाः ।
नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

एतत्तत्परमं ज्ञानं केवलं कवयो विदुः ।
अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ॥ ५ ॥

मूलम्

एतत्तत्परमं ज्ञानं केवलं कवयो विदुः ।
अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ॥ ५ ॥

विश्वास-प्रस्तुतिः

यज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् ।
ममात्मासौ तदेवेमिति प्राहुर्विपश्चितः ॥ ६ ॥

मूलम्

यज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् ।
ममात्मासौ तदेवेमिति प्राहुर्विपश्चितः ॥ ६ ॥

विश्वास-प्रस्तुतिः

ये ऽप्यनेकं प्रपश्यन्ति ते ऽपि पश्यन्ति तत्परम् ।
आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम् ॥ ७ ॥

मूलम्

ये ऽप्यनेकं प्रपश्यन्ति ते ऽपि पश्यन्ति तत्परम् ।
आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् ।
भक्त्या मां सम्प्रपश्यन्ति विज्ञेयास्ते तदात्मकाः ॥ ८ ॥

मूलम्

ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् ।
भक्त्या मां सम्प्रपश्यन्ति विज्ञेयास्ते तदात्मकाः ॥ ८ ॥

विश्वास-प्रस्तुतिः

साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् ।
नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः ॥ ९ ॥

मूलम्

साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् ।
नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः ॥ ९ ॥

विश्वास-प्रस्तुतिः

भजन्ते परमानन्दं सर्वगं यत्तदात्मकम् ।
स्वात्मन्यवस्थिताः शान्ताः परे ऽव्यक्ते परस्य तु ॥ १० ॥

मूलम्

भजन्ते परमानन्दं सर्वगं यत्तदात्मकम् ।
स्वात्मन्यवस्थिताः शान्ताः परे ऽव्यक्ते परस्य तु ॥ १० ॥

विश्वास-प्रस्तुतिः

एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् ।
निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ॥ ११ ॥

मूलम्

एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् ।
निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ॥ ११ ॥

विश्वास-प्रस्तुतिः

तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् ।
स ईश्वरो महादेवस्तं विज्ञाय विमुच्यते ॥ १२ ॥

मूलम्

तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् ।
स ईश्वरो महादेवस्तं विज्ञाय विमुच्यते ॥ १२ ॥

न तत्र सूर्यः प्रविभातीह चन्द्रो न नक्षत्राणि तपनो नोत विद्युत् । तद्भासेदमखिलं भाति नित्यं तन्नित्यभासमचलं सद्विभाति ॥ १३ ॥ नित्योदितं संविदा निर्विकल्पं शुद्धं बृहन्तं परमं यद्विभाति । अत्रान्तरं ब्रह्मविदो ऽथ नित्यं पश्यन्ति तत्त्वमचलं यत् स ईशः ॥ १४ ॥ नित्यानन्दममृतं सत्यरूपं शुद्धं वदन्ति पुरुषं सर्ववेदाः । तदेवेदमिति प्रणवेनेशितारं धायायन्ति वेदार्थविनिश्चितार्थाः ॥ १५ ॥ न भूमिरापो न मनो न वह्निः प्राणो ऽनिलो गगनं नोत बुद्धिः । न चेतनो ऽन्यत् परमाकाशमध्ये विभाति देवः शिव एव केवलः ॥ १६ ॥ इत्येतदुक्तं परमं रहस्यं ज्ञानामृतं सर्ववेदेषु गूढम् । जानाति योगी विजने ऽथ देशे युञ्जीत योगं प्रयतो ह्यजस्रम् ॥ १७ ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) दशमो ऽध्यायः