०८

ईश्वर उवाच

विश्वास-प्रस्तुतिः

अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुङ्गवाः ।
येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ १ ॥

मूलम्

अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुङ्गवाः ।
येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ १ ॥

विश्वास-प्रस्तुतिः

अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलो ऽव्ययः ।
एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ २ ॥

मूलम्

अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलो ऽव्ययः ।
एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ २ ॥

विश्वास-प्रस्तुतिः

मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् ।
मूलं मायाभिधानं तु ततो जातमिदं जगत् ॥ ३ ॥

मूलम्

मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् ।
मूलं मायाभिधानं तु ततो जातमिदं जगत् ॥ ३ ॥

विश्वास-प्रस्तुतिः

प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च ।
तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ ४ ॥

मूलम्

प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च ।
तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ ४ ॥

विश्वास-प्रस्तुतिः

ततो ऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ।
तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ ५ ॥

मूलम्

ततो ऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ।
तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ ५ ॥

विश्वास-प्रस्तुतिः

ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते ।
न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ ६ ॥

मूलम्

ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते ।
न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ ६ ॥

विश्वास-प्रस्तुतिः

याश्च योनिषु सर्वासु सम्भवन्ति हि मूर्तयः ।
तासां माया परा योनिर्मामेव पितरं विदुः ॥ ७ ॥

मूलम्

याश्च योनिषु सर्वासु सम्भवन्ति हि मूर्तयः ।
तासां माया परा योनिर्मामेव पितरं विदुः ॥ ७ ॥

विश्वास-प्रस्तुतिः

यो मामेवं विजानाति बीजिनं पितरं प्रभुम् ।
स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ८ ॥

मूलम्

यो मामेवं विजानाति बीजिनं पितरं प्रभुम् ।
स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ८ ॥

विश्वास-प्रस्तुतिः

ईशानः सर्वविद्यानां भूतानां परमेश्वरः ।
ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ ९ ॥

मूलम्

ईशानः सर्वविद्यानां भूतानां परमेश्वरः ।
ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ ९ ॥

विश्वास-प्रस्तुतिः

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १० ॥

मूलम्

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १० ॥

विश्वास-प्रस्तुतिः

समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति पराङ्गतिम् ॥ ११ ॥

मूलम्

समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति पराङ्गतिम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ।
प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ १२ ॥

मूलम्

विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ।
प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ १२ ॥

सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विदित्वा षडाहुरङ्गानि महेश्वरस्य ॥ १३ ॥ तन्मात्राणि मन आत्मा च तानि सूक्ष्माण्याहुः सप्त तत्त्वात्मकानि । या सा हेतुः प्रकृतिः सा प्रधानं बन्धः प्रोक्तो विनियोगो ऽपि तेन ॥ १४ ॥ या सा शक्तिः प्रकृतौ लीनरूपा वेदेषूक्ता कारणं ब्रह्मयोनिः । तस्या एकः परमेष्ठी परस्ता- न्महेश्वरः पुरुषः सत्यरूपः ॥ १५ ॥ ब्रह्मा योगी परमात्मा महीयान् व्योमव्यापी वेदवेद्यः पुराणः । एको रुद्रो मृत्युरव्यक्तमेकं बीजं विश्वं देव एकः स एव ॥ १६ ॥ तमेवैकं प्राहुरन्ये ऽप्यनेकं त्वेकात्मानं केचिदन्यत्तथाहुः । अणोरणीयान् महतो ऽसौ महीयान् महादेवः प्रोच्यते वेदविद्भिः ॥ १७ ॥ एवं हि यो वेद गुहाशयं परं प्रभुं पुराणं पुरुषं विश्वरूपम् । हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति ॥ १८ ॥

इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) अष्टमो ऽध्यायः