ईश्वर उवाच
विश्वास-प्रस्तुतिः
शृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः ।
यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत् पुनः ॥ १ ॥
मूलम्

परात् परतरं ब्रह्म शाश्वतं निष्कलं ध्रुवम् ।
नित्यानन्दं निर्विकल्पं तद्धाम परमं मम ॥ २ ॥

अहं ब्रह्मविदां ब्रह्मा स्वयम्भूर्विश्वतोमुखः ।
मायाविनामहं देवः पुराणो हरिरव्ययः ॥ ३ ॥

योगिनामस्म्यहं शम्भुः स्त्रीणां देवी गिरीन्द्रजा ।
आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ॥ ४ ॥

रुद्राणां शङ्करश्चाहं गरुडः पततामहम् ।
ऐरावतो गजेन्द्राणां रामः शस्त्रभृतामहम् ॥ ५ ॥

ऋषीणां च वसिष्ठो ऽहं देवानां च शतक्रतुः ।
शिल्पिनां विश्वकर्माहं प्रह्लादो ऽस्म्यमरद्विषाम् ॥ ६ ॥

मुनीनामप्यहं व्यासो गणानां च विनायकः ।
वीराणां वीरभद्रो ऽहं सिद्धानां कपिलो मुनिः ॥ ७ ॥

पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः ।
वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम् ॥ ८ ॥

अनन्तो भोगिनां देवः सेनानीनां च पावकिः ।
आश्रमाणां च गार्हस्थमीश्वराणां महेश्वरः ॥ ९ ॥

महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम् ।
कुबेरः सर्वयक्षाणां गणेशानां च वीरकः ॥ १० ॥

प्रजापतीनां दक्षो ऽहं निरृतिः सर्वरक्षसाम् ।
वायुर्बलवतामस्मि द्वीपानां पुष्करो ऽस्म्यहम् ॥ ११ ॥

मृगेन्द्राणां च सिंहो ऽहं यन्त्राणां धनुरेव च ।
वेदानां सामवेदो ऽहं यजुषां शतरुद्रियम् ॥ १२ ॥

सावित्री सर्वजप्यानां गुह्यानां प्रणवो ऽस्म्यहम् ।
सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ॥ १३ ॥

सर्ववेदार्थविदुषां मनुः स्वायम्भुवो ऽस्म्यहम् ।
ब्रह्मावर्तस्तु देशानां क्षेत्राणामविमुक्तकम् ॥ १४ ॥

विद्यानामात्मविद्याहं ज्ञानानामैश्वरं परम् ।
भूतानामस्म्यहं व्योम सत्त्वानां मृत्युरेव च ॥ १५ ॥

पाशानामस्म्यहं माया कालः कलयतामहम् ।
गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥ १६ ॥

यच्चान्यदपि लोके ऽस्मिन् सत्त्वं तेजोबलाधिकम् ।
तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम् ॥ १७ ॥

आत्मानः पशवः प्रोक्ताः सर्वे संसारवर्तिनः ।
तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ १८ ॥

मायापाशेन बध्नामि पशूनेतान् स्वलीलया ।
मामेव मोचकं प्राहुः पशूनां वेदवादिनः ॥ १९ ॥

मायापाशेन बद्धानां मोचको ऽन्यो न विद्यते ।
मामृते परमात्मानं भूताधिपतिमव्ययम् ॥ २० ॥

चतुर्विंशतितत्त्वानि माया कर्म गुणा इति ।
एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ २१ ॥

मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः ।
एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे ॥ २२ ॥

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् ।
पायूपस्थं करौ पादौ वाक् चैव दशमी मता ॥ २३ ॥

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि तु ॥ २४ ॥

चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम् ।
अनादिमध्यनिधनं कारणं जगतः परम् ॥ २५ ॥
मूलम्
चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम् ।
अनादिमध्यनिधनं कारणं जगतः परम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् ।
साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥ २६ ॥

सत्त्वं ज्ञानं तमो ऽज्ञानं रजो मिश्रमुदाहृतम् ।
गुणानां बुद्धिवैषम्याद् वैषम्यं कवयो विदुः ॥ २७ ॥

धर्माधर्माविति प्रोक्तौ पाशौ द्वौ बन्धसञ्ज्ञितौ ।
मय्यर्पितानि कर्माणि निबन्धाय विमुक्तये ॥ २८ ॥

अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम् ।
क्लेशाख्यानचलान् प्राहुः पाशानात्मनिबन्धनान् ॥ २९ ॥

एतेषामेव पाशानां माया कारणमुच्यते ।
मूलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥ ३० ॥

स एव मूलप्रकृतिः प्रधानं पुरुषो ऽपि च ।
विकारा महदादीनि देवदेवः सनातनः ॥ ३१ ॥
मूलम्
स एव मूलप्रकृतिः प्रधानं पुरुषो ऽपि च ।
विकारा महदादीनि देवदेवः सनातनः ॥ ३१ ॥
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) सप्तमो ऽध्यायः