०६

ईश्वर उवाच

विश्वास-प्रस्तुतिः

शृणुध्वमृषयः सर्वे यथावत् परमेष्ठिनः ।
वक्ष्यामीशस्य माहात्म्यं यत्तद्वेदविदो विदुः ॥ १ ॥

मूलम्

सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता ।
सर्वलोकैकसंहर्ता सर्वात्माहं सनातनः ॥ २ ॥

सर्वेषामेव वस्तूनामन्तर्यामी पिता ह्यहम् ।
मध्ये चान्तः स्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ ३ ॥

भवद्भिरद्भुतं दृष्टं यत्स्वरूपं तु मामकम् ।
ममैषा ह्युपमा विप्रा मायया दर्शिता मया ॥ ४ ॥

सर्वेषामेव भावानामन्तरा समवस्थितः ।
प्रेरयामि जगत् कृत्स्नं क्रियाशाक्तिरियं मम ॥ ५ ॥

ययेदं चेष्टते विश्वं तत्स्वभावानुवर्ति च ।
सो ऽहं कालो जगत् कृत्स्नं प्रेरयामि कलात्मकम् ॥ ६ ॥

एकांशेन जगत् कृत्स्नं करोमि मुनिपुङ्गवाः ।
संहराम्येकरूपेण द्विधावस्था ममैव तु ॥ ७ ॥

आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्तकः ।
क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ॥ ८ ॥

ताभ्यां सञ्जायते विश्वं संयुक्ताभ्यां परस्परम् ।
महदादिक्रमेणैव मम तेजो विजृम्भते ॥ ९ ॥

यो हि सर्वजगत्साक्षी कालचक्रप्रवर्तकः ।
हिरण्यगर्भो मार्तण्डः सो ऽपि मद्देहसम्भवः ॥ १० ॥

तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् ।
दत्तवानात्मजान् वेदान् कल्पादौ चतुरो द्विजाः ॥ ११ ॥

स मन्नियोगतो देवो ब्रह्मा मद्भावभावितः ।
दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ॥ १२ ॥

स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् ।
भूत्वा चतुर्मुखः सर्गं सृजत्येवात्मसम्भवः ॥ १३ ॥

यो ऽपि नारायणो ऽनन्तो लोकानां प्रभवाव्ययः ।
ममैव परमा मूर्तिः करोति परिपालनम् ॥ १४ ॥

यो ऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः ।
मदाज्ञयासौ सततं संहरिष्यति मे तनुः ॥ १५ ॥

हव्यं वहति देवानां कव्यं कव्याशिनामपि ।
पाकं च कुरुते वह्निः सो ऽपि मच्छक्तिचोदितः ॥ १६ ॥

भुक्तमाहारजातं च पचते तदहर्निशम् ।
वैश्वानरो ऽग्निर्भगवानीश्वरस्य नियोगतः ॥ १७ ॥

यो ऽपि सर्वाम्भसां योनिर्वरुणो देवपुङ्गवः ।
सो ऽपि सञ्जीवयेत् कृत्स्नमीशस्यैव नियोगतः ॥ १८ ॥

यो ऽन्तस्तिष्ठति भूतानां बहिर्देवः प्रभञ्जनः ।
मदाज्ञयासौ भूतानां शरीराणि बिभर्ति हि ॥ १९ ॥

यो ऽपि सञ्जीवनो नॄणां देवानाममृताकरः ।
सोमः स मन्नियोगेन चोदितः किल वर्तते ॥ २० ॥

यः स्वभासा जगत् कृत्स्नं प्रकाशयति सर्वदा ।
सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयम्भुवः ॥ २१ ॥

यो ऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ।
यज्वनां फलदो देवो वर्तते ऽसौ मदाज्ञया ॥ २२ ॥

यः प्रशास्ता ह्यसाधूनां वर्तते नियमादिह ।
यमो वैवस्वतो देवो देवदेवनियोगतः ॥ २३ ॥

यो ऽपि सर्वधनाध्यक्षो धनानां सम्प्रदायकः ।
सो ऽपीश्वरनियोगेन कुबेरो वर्तते सदा ॥ २४ ॥

यः सर्वरक्षसां नाथस्तामसानां फलप्रदः ।
मन्नियोगादसौ देवो वर्तते निरृतिः सदा ॥ २५ ॥

वेतालगणभूतानां स्वामी भोगफलप्रदः ।
ईशानः किल भक्तानां सो ऽपि तिष्ठन्ममाज्ञया ॥ २६ ॥

यो वामदेवो ऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः ।
रक्षको योगिनां नित्यं वर्तते ऽसौ मदाज्ञया ॥ २७ ॥

यश्च सर्वजगत्पूज्यो वर्तते विघ्नकारकः ।
विनायको धर्मनेता सो ऽपि मद्वचनात् किल ॥ २८ ॥

यो ऽपि ब्रह्मविदां श्रेष्ठो देवसेनापतिः प्रभुः ।
स्कन्दो ऽसौ वर्तते नित्यं स्वयम्भूर्विधिचोदितः ॥ २९ ॥

ये च प्रजानां पतयो मरीच्याद्या महर्षयः ।
सृजन्ति विविधं लोकं परस्यैव नियोगतः ॥ ३० ॥

या च श्रीः सर्वभूतानां ददाति विपुलां श्रियम् ।
पत्नी नारायणस्यासौ वर्तते मदनुग्रहात् ॥ ३१ ॥

वाचं ददाति विपुलां या च देवी सरस्वती ।
सापीश्वरनियोगेन चोदिता सम्प्रवर्तते ॥ ३२ ॥

याशेषपुरुषान् घोरान्नरकात् तारयिष्यति ।
सावित्री संस्मृता देवी देवाज्ञानुविधायिनी ॥ ३३ ॥

पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ।
यापि ध्याता विशेषेण सापि मद्वचनानुगा ॥ ३४ ॥

यो ऽनन्तमहिमानन्तः शेषो ऽशेषामरप्रभुः ।
दधाति शिरसा लोकं सो ऽपि देवनियोगतः ॥ ३५ ॥

यो ऽग्निः संवर्तको नित्यं वडवारूपसंस्थितः ।
पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ॥ ३६ ॥

ये चतुर्दश लोके ऽस्मिन् मनवः प्रथितौजसः ।
पालयन्ति प्रजाः सर्वास्ते ऽपि तस्य नियोगतः ॥ ३७ ॥

आदित्या वसवो रुद्रा मरुतश्च तथाश्विनौ ।
अन्याश्च देवताः सर्वा मच्छास्त्रेणैव धिष्ठिताः ॥ ३८ ॥

गन्धर्वा गरुडा ऋक्षाः सिद्धाः साध्याश्चचारणाः ।
यक्षरक्षः पिशाचाश्च स्थिताः शास्त्रे स्वयम्भुवः ॥ ३९ ॥

कलाकाष्ठानिमेषाश्च मुहूर्ता दिवसाः क्षपाः ।
ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापतेः ॥ ४० ॥

युगमन्वन्तराण्येव मम तिष्ठन्ति शासने ।
पराश्चैव परार्धाश्च कालभेदास्तथा परे ॥ ४१ ॥

चतुर्विधानि भूतानि स्थावराणि चराणि च ।
नियोगादेव वर्तन्ते देवस्य परमात्मनः ॥ ४२ ॥

पातालानि च सर्वाणि भुवनानि च शासनात् ।
ब्रह्माण्डानि च वर्तन्ते सर्वाण्येव स्वयम्भुवः ॥ ४३ ॥

अतीतान्यप्यसङ्ख्यानि ब्रह्माण्डानि ममाज्ञया ।
प्रवृत्तानि पदार्थौघैः सहितानि समन्ततः ॥ ४४ ॥

ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मगैः ।
वहिष्यन्ति सदैवाज्ञां परस्य परमात्मनः ॥ ४५ ॥

भूमिरापो ऽनलो वायुः खं मनो बुद्धिरेव च ।
भूतादिरादिप्रकृतिर्नियोगे मम वर्तते ॥ ४६ ॥

याशेषजगतां योनिर्मोहिनी सर्वदेहिनाम् ।
माया विवर्तते नित्यं सापीश्वरनियोगतः ॥ ४७ ॥

यो वै देहभृतां देवः पुरुषः पठ्यते परः ।
आत्मासौ वर्तते नित्यमीश्वरस्य नियोगतः ॥ ४८ ॥

विधूय मोहकलिलं यया पश्यति तत् पदम् ।
सापि विद्या महेशस्य नियोगवशवर्तिनी ॥ ४९ ॥

बहुनात्र किमुक्तेन मम शक्त्यात्मकं जगत् ।
मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत् ॥ ५० ॥

अहं हि भगवानीशः स्वयं ज्योतिः सनातनः ।
परमात्मा परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ ५१ ॥

इत्येतत् परमं ज्ञानं युष्माकं कथितं मया ।
ज्ञात्वा विमुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ५२ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) षष्ठो ऽध्यायः