०५

व्यास उवाच

विश्वास-प्रस्तुतिः

एतावदुक्त्वा भगवान् योगिनां परमेश्वरः ।
ननर्त परमं भावमैश्वरं सम्प्रदर्शयन् ॥ १ ॥

मूलम्

एतावदुक्त्वा भगवान् योगिनां परमेश्वरः ।
ननर्त परमं भावमैश्वरं सम्प्रदर्शयन् ॥ १ ॥

विश्वास-प्रस्तुतिः

तं ते ददृशुरीशानं तेजसां परमं निधिम् ।
नृत्यमानं महादेवं विष्णुना गगने ऽमले ॥ २ ॥

मूलम्

तं ते ददृशुरीशानं तेजसां परमं निधिम् ।
नृत्यमानं महादेवं विष्णुना गगने ऽमले ॥ २ ॥

विश्वास-प्रस्तुतिः

यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः ।
तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ ३ ॥

मूलम्

यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः ।
तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ ३ ॥

विश्वास-प्रस्तुतिः

यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् ।
नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ ४ ॥

मूलम्

यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् ।
नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ ४ ॥

विश्वास-प्रस्तुतिः

यत् पादपङ्कजं स्मृत्वा पुरुषो ऽज्ञानजं भयम् ।
जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ ५ ॥

मूलम्

यत् पादपङ्कजं स्मृत्वा पुरुषो ऽज्ञानजं भयम् ।
जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ ५ ॥

विश्वास-प्रस्तुतिः

यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः ।
ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ ६ ॥

मूलम्

यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः ।
ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ ६ ॥

विश्वास-प्रस्तुतिः

यो ऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः ।
तमेव मोचकं रुद्रमाकाशे ददृशुः परम् ॥ ७ ॥

मूलम्

यो ऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः ।
तमेव मोचकं रुद्रमाकाशे ददृशुः परम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

सहस्रशिरसं देवं सहस्रचरणाकृतिम् ।
सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ ८ ॥

मूलम्

सहस्रशिरसं देवं सहस्रचरणाकृतिम् ।
सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् ।
दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ ९ ॥

मूलम्

वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् ।
दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् ।
दंष्ट्राकरालं दुर्धर्षं सूर्यकोटिसमप्रभम् ॥ १० ॥

मूलम्

ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् ।
दंष्ट्राकरालं दुर्धर्षं सूर्यकोटिसमप्रभम् ॥ १० ॥

अण्डस्थं चाण्डबाह्यस्थं बाह्यमभ्यन्तरं परम् ।
विश्वास-प्रस्तुतिः

सृजन्तमनलज्वालं दहन्तमखिलं जगत् ।
नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ ११ ॥

मूलम्

सृजन्तमनलज्वालं दहन्तमखिलं जगत् ।
नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

महादेवं महायोगं देवानामपि दैवतम् ।
पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ १२ ॥

मूलम्

महादेवं महायोगं देवानामपि दैवतम् ।
पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् ।
कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ १३ ॥

मूलम्

पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् ।
कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

उमापतिं विरूपाक्षं योगानन्दमयं परम् ।
ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ १४ ॥

मूलम्

उमापतिं विरूपाक्षं योगानन्दमयं परम् ।
ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् ।
महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ १५ ॥

मूलम्

शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् ।
महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ १५ ॥

आधारं सर्वशक्तीनां महायोगेश्वरेश्वरम् ।
विश्वास-प्रस्तुतिः

योगिनां परमं ब्रह्म योगिनां योगवन्दितम् ।
योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ॥ १६ ॥

मूलम्

योगिनां परमं ब्रह्म योगिनां योगवन्दितम् ।
योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

क्षणेन जगतो योनिं नारायणमनामयम् ।
ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः ॥ १७ ॥

मूलम्

क्षणेन जगतो योनिं नारायणमनामयम् ।
ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः ॥ १७ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् ।
कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ १८ ॥

मूलम्

दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् ।
कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ १८ ॥

सनत्कुमारः सनको भृगुश्च सनातनश्चैव सनन्दनश्च । रुद्रो ऽङ्गिरा वामदेवाथ शुक्रो महर्षिरत्रिः कपिलो मरीचिः ॥ १९ ॥ दृष्ट्वाथ रुद्रं जगदीशितारं तं पद्मनाभाश्रितवामभागम् । ध्यात्वा हृदिस्थं प्रणिपत्य मूर्ध्ना बद्ध्वाञ्जलिं स्वेषु शिरःसु भूयः ॥ २० ॥ ओङ्कारमुच्चार्य विलोक्य देवम् अन्तःशरीरे निहितं गुहायाम् । समस्तुवन् ब्रह्ममयैर्वचोभिर् आनन्दपूर्णायतमानसास्ते ॥ २१ ॥ मुनय ऊचुः त्वामेकमीशं पुरुषं पुराणं प्राणेश्वरं रुद्रमनन्तयोगम् । नमाम सर्वे हृदि सन्निविष्टं प्रचेतसं ब्रह्ममयं पवित्रम् ॥ २२ ॥ त्वां पश्यन्ति मुनयो ब्रह्मयोनिं दान्ताः शान्ता विमलं रुक्मवर्णम् । ध्यात्वात्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं तत्परं च ॥ २३ ॥ त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः । अणोरणीयान् महतो महीयाम्- स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ २४ ॥ हिरण्यगर्भो जगदन्तरात्मा त्वत्तो ऽधिजातः पुरुषः पुराणः । सञ्जायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ २५ ॥ त्वत्तो वेदाः सकलाः सम्प्रसूता- स्त्वय्येवान्ते संस्थितिं ते लभन्ते । पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ २६ ॥ त्वयैवेदं भ्राम्यते ब्रह्मचक्रं मायावी त्वं जगतामेकनाथः । नमामस्त्वां शरणं सम्प्रपन्ना योगात्मानं चित्पतिं दिव्यनृत्यम् ॥ २७ ॥ पश्यामस्त्वां परमाकाशमध्ये नृत्यन्तं ते महिमानं स्मरामः । सर्वात्मानं बहुधा सन्निविष्टं ब्रह्मानन्दमनुभूयानुभूय ॥ २८ ॥ ओङ्कारस्ते वाचको मुक्तिबीजं त्वमक्षरं प्रकृतौ गूढरूपम् । तत्त्वां सत्यं प्रवदन्तीह सन्तः स्वयम्प्रभं भवतो यत्प्रकाशम् ॥ २९ ॥ स्तुवन्ति त्वां सततं सर्ववेदा नमन्ति त्वामृषयः क्षीणदोषाः । शान्तात्मानः सत्यसन्धा वरिष्ठं विशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ ३० ॥ एको वेदो बहुशाखो ह्यनन्तस् त्वामेवैकं बोधयत्येकरूपम् । वेद्यं त्वां शरणं ये प्रपन्ना- स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ३१ ॥ भवानीशो ऽनादिमांस्तेजोराशिर् ब्रह्मा विश्वं परमेष्ठी वरिष्ठः । स्वात्मानन्दमनुभूयाधिशेते स्वयं ज्योतिरचलो नित्यमुक्तः ॥ ३२ ॥ एको रुद्रस्त्वं करोषीह विश्वं त्वं पालयस्यखिलं विश्वरूपः । त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं सम्प्रपन्नाः ॥ ३३ ॥ त्वामेकमाहुः कविमेकरुद्रं प्राणं बृहन्तं हरिमग्निमीशम् । इन्द्रं मृत्युमनिलं चेकितानं धातारमादित्यमनेकरूपम् ॥ ३४ ॥ त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषोत्तमो ऽसि ॥ ३५ ॥ त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानधीशः । त्वं विश्वनाभिः प्रकृतिः प्रतिष्ठा सर्वेश्वरस्त्वं परमेश्वरो ऽसि ॥ ३६ ॥ त्वामेकमाहुः पुरुषं पुराण- मादित्यवर्णं तमसः परस्तात् । चिन्मात्रमव्यक्तमचिन्त्यरूपं खं ब्रह्म शून्यं प्रकृतिं निर्गुणं च ॥ ३७ ॥ यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् । किमप्यचिन्त्यं तव रूपमेतत् तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ ३८ ॥ योगेश्वरं रुद्रमनन्तशक्तिं परायणं ब्रह्मतनुं पवित्रम् । नमाम सर्वे शरणार्थिनस्त्वां प्रसीद भूताधिपते महेश ॥ ३९ ॥ त्वत्पादपद्मस्मरणादशेष- संसारबीजं विलयं प्रयाति । मनो नियम्य प्रणिधाय कायं प्रसादयामो वयमेकमीशम् ॥ ४० ॥ नमो भवायास्तु भवोद्भवाय कालाय सर्वाय हराय तुभ्यम् । नमो ऽस्तु रुद्राय कपर्दिने ते नमो ऽग्नये देव नमः शिवाय ॥ ४१ ॥
विश्वास-प्रस्तुतिः

ततः स भगवान् देवः कपर्दी वृषवाहनः ।
संहृत्य परमं रूपं प्रकृतिस्थो ऽभवद् भवः ॥ ४२ ॥

मूलम्

ततः स भगवान् देवः कपर्दी वृषवाहनः ।
संहृत्य परमं रूपं प्रकृतिस्थो ऽभवद् भवः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

ते भवं भूतभव्येशं पूर्ववत् समवस्थितम् ।
दृष्ट्वा नारायणं देवं विस्मिता वाक्यमब्रुवन् ॥ ४३ ॥

मूलम्

ते भवं भूतभव्येशं पूर्ववत् समवस्थितम् ।
दृष्ट्वा नारायणं देवं विस्मिता वाक्यमब्रुवन् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

भगवन् भूतभव्येश गोवृषाङ्कितशासन ।
दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ ४४ ॥

मूलम्

भगवन् भूतभव्येश गोवृषाङ्कितशासन ।
दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ ४४ ॥

विश्वास-प्रस्तुतिः

भवत्प्रसादादमले परस्मिन् परमेश्वरे ।
अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ ४५ ॥

मूलम्

भवत्प्रसादादमले परस्मिन् परमेश्वरे ।
अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ ४५ ॥

विश्वास-प्रस्तुतिः

इदानीं श्रोतुमिच्छामो माहात्म्यं तव शङ्कर ।
भूयो ऽपि तव यन्नित्यं याथात्म्यं परमेष्ठिनः ॥ ४६ ॥

मूलम्

इदानीं श्रोतुमिच्छामो माहात्म्यं तव शङ्कर ।
भूयो ऽपि तव यन्नित्यं याथात्म्यं परमेष्ठिनः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः ।
प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ४७ ॥

मूलम्

स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः ।
प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ४७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) पञ्चमो ऽध्यायः