०४

ईश्वर उवाच

विश्वास-प्रस्तुतिः

वक्ष्ये समाहिता यूयं शृणुध्वं ब्रह्मवादिनः ।
माहात्म्यं देवदेवस्य येनेदं सम्प्रवर्तते ॥ १ ॥

मूलम्

नाहं तपोभिर्विविधैर्न दानेन न चेज्यया ।
शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ २ ॥

अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः ।
मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥ ३ ॥

यस्यान्तरा सर्वमिदं यो हि सर्वान्तरः परः ।
सो ऽहन्धाता विधाता च कालो ऽग्निर्विश्वतोमुखः ॥ ४ ॥

न मां पश्यन्ति मुनयः सर्वे ऽपि त्रिदिवौकसः ।
ब्रह्मा च मनवः शक्रो ये चान्ये प्रथितौजसः ॥ ५ ॥

गृणन्ति सततं वेदा मामेकं परमेश्वरम् ।
यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥ ६ ॥

सर्वे लोका नमस्यन्ति ब्रह्मा लोकपितामहः ।
ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ७ ॥

अहं हि सर्वहविषां भोक्ता चैव फलप्रदः ।
सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंस्थितः ॥ ८ ॥

मां पश्यन्तीह विद्वांशो धार्मिका वेदवादिनः ।
तेषां सन्निहितो नित्यं ये भक्त्या मामुपासते ॥ ९ ॥

ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ।
तेषां ददामि तत् स्थानमानन्दं परमं पदम् ॥ १० ॥

अन्ये ऽपि ये विकर्मस्थाः शूद्राद्या नीचजातयः ।
भक्तिमन्तः प्रमुच्यन्ते कालेन मयि सङ्गताः ॥ ११ ॥

न मद्भक्ता विनश्यन्ति मद्भक्ता वीतकल्मषाः ।
आदावेतत् प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ १२ ॥

यो वै निन्दति तं मूढो देवदेवं स निन्दति ।
यो हि तं पूजयेद् भक्त्या स पूजयति मां सदा ॥ १३ ॥

पत्रं पुष्पं फलं तोयं मदाराधनकारणात् ।
यो मे ददाति नियतः स मे भक्तः प्रियो मतः ॥ १४ ॥

अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् ।
विधाय दत्तवान् वेदानशेषानात्मनिः सृतान् ॥ १५ ॥

अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ।
धार्मिकाणां च गोप्ताहं निहन्ता वेदविद्विषाम् ॥ १६ ॥

अहं वै सर्वसंसारान्मोचको योगिनामिह ।
संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ १७ ॥

मूलम्

अहं वै सर्वसंसारान्मोचको योगिनामिह ।
संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ १७ ॥

विश्वास-प्रस्तुतिः

अहमेव हि संहर्ता स्त्रष्टाहं परिपालकः ।
मायावी मामीका शक्तिर्माया लोकविमोहिनी ॥ १८ ॥

ममैव च परा शक्तिर्या सा विद्येति गीयते ।
नाशयामि तया मायां योगिनां हृदि संस्थितः ॥ १९ ॥

अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ।
आधारभूतः सर्वासां निधानममृतस्य च ॥ २० ॥

मूलम्

अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः ।
आधारभूतः सर्वासां निधानममृतस्य च ॥ २० ॥

विश्वास-प्रस्तुतिः

एका सर्वान्तरा शक्तिः करोति विविधं जगत् ।
आस्थाय ब्रह्माणो रूपं मन्मयी मदधिष्ठिता ॥ २१ ॥

अन्या च शक्तिर्विपुला संस्थापयति मे जगत् ।
भूत्वा नारायणो ऽनन्तो जगन्नाथो जगन्मयः ॥ २२ ॥

तृतीया महती शक्तिर्निहन्ति सकलं जगत् ।
तामसी मे समाख्याता कालाख्या रुद्ररूपिणी ॥ २३ ॥

ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे ।
अपरे भक्तियोगेन कर्मयोगेन चापरे ॥ २४ ॥

सर्वेषामेव भक्तानामिष्टः प्रियतरो मम ।
यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥ २५ ॥

अन्ये च ये त्रयो भक्ता मदाराधनकाङ्क्षिणः ।
ते ऽपि मां प्राप्नुवन्त्येव नावर्तन्ते च वै पुनः ॥ २६ ॥

मया ततमिदं कृत्सनं प्रधानपुरुषात्मकम् ।
मय्येव संस्थितं विश्वं मया सम्प्रेर्यते जगत् ॥ २७ ॥

नाहं प्रेरयिता विप्राः परमं योगमाश्रितः ।
प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सो ऽमृतः ॥ २८ ॥

पश्याम्यशेषमेवेदं वर्तमानं स्वभावतः ।
करोति कालो भगवान् महायोगेश्वरः स्वयम् ॥ २९ ॥

योगः सम्प्रोच्यते योगी माया शास्त्रेषु सूरिभिः ।
योगेश्वरो ऽसौ भगवान् महादेवो महान् प्रभुः ॥ ३० ॥

महत्त्वं सर्वतत्त्वानां परत्वात् परमेष्ठिनः ।
प्रोच्यते भगवान् ब्रह्मा महान् ब्रह्ममयो ऽमलः ॥ ३१ ॥

यो मामेवं विजानाति महायोगेश्वरेश्वरम् ।
सो ऽविकल्पेन योगेन युज्यते नात्र संशयः ॥ ३२ ॥

सो ऽहं प्रेरयिता देवः परमानन्दमाश्रितः ।
नृत्यामि योगी सततं यस्तद् वेद स वेदवित् ॥ ३३ ॥

इति गुह्यतमं ज्ञानं सर्ववेदेषु निष्ठितम् ।
प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ३४ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) चतुर्थो ऽध्यायः