ईश्वर उवाच
विश्वास-प्रस्तुतिः
अव्यक्तादभवत् कालः प्रधानं पुरुषः परः ।
तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत् ॥ १ ॥
मूलम्

सर्वतः पाणिपादं तत् सर्वतो ऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ २ ॥

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम् ॥ ३ ॥

सर्वोपमानरहितं प्रमाणातीतगोचरम् ।
निर्विकल्पं निराभासं सर्वावासं परामृतम् ॥ ४ ॥

अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रु वमव्ययम् ।
निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ॥ ५ ॥

स आत्मा सर्वभूतानां स बाह्याभ्यन्तरः परः ।
सो ऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ॥ ६ ॥

मया ततमिदं विश्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ॥ ७ ॥

प्रधानं पुरुषं चैव तत्त्वद्वयमुदाहृतम् ।
तयोरनादिरुद्दिष्टः कालः संयोजकः परः ॥ ८ ॥

त्रयमेतदनाद्यन्तमव्यक्ते समवस्थितम् ।
तदात्मकं तदन्यत् स्यात् तद्रूपं मामकं विदुः ॥ ९ ॥

महदाद्यं विशेषान्तं सम्प्रसूते ऽखिलं जगत् ।
या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ॥ १० ॥

पुरुषः प्रकृतिस्थो हि भुङ्क्तेयः प्राकृतान् गुणान् ।
अहङ्कारविमुक्तत्वात् प्रोच्यते पञ्चविंशकः ॥ ११ ॥

आद्यो विकारः प्रकृतेर्महानात्मेति कथ्यते ।
विज्ञानशक्तिर्विज्ञाता ह्यहङ्कारस्तदुत्थितः ॥ १२ ॥

एक एव महानात्मा सो ऽहङ्कारो ऽभिधीयते ।
स जीवः सो ऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ॥ १३ ॥

तेन वेदयते सर्वं सुखं दुःखं च जन्मसु ।
स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ॥ १४ ॥

तेनाविवेकतस्तस्मात् संसारः पुरुषस्य तु ।
स चाविवेकः प्रकृतौ सङ्गात् कालेन सो ऽभवत् ॥ १५ ॥

कालः सृजति भूतानि कालः संहरति प्रजाः ।
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ १६ ॥

सो ऽन्तरा सर्वमेवेदं नियच्छति सनातनः ।
प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः ॥ १७ ॥

सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः ।
मनसश्चाप्यहङ्कारमहङ्कारान्महान् परः ॥ १८ ॥

महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत् ॥ १९ ॥

सो ऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ।
नास्ति मत्तः परं भूतं मां विज्ञाय विमुच्यते ॥ २० ॥

नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ २१ ॥

सो ऽहं सृजामि सकलं संहरामि सदा जगत् ।
मायी मायामयो देवः कालेन सह सङ्गतः ॥ २२ ॥

मत्सन्निधावेष कालः करोति सकलं जगत् ।
नियोजयत्यनन्तात्मा ह्येतद् वेदानुशासनम् ॥ २३ ॥