ईश्वर उवाच
विश्वास-प्रस्तुतिः
अवाच्यमेतद् विज्ञानमात्मगुह्यं सनातनम् ।
यन्न देवा विजानन्ति यतन्तो ऽपि द्विजातयः ॥ १ ॥
मूलम्

इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ।
न संसारं प्रपद्यन्ते पूर्वे ऽपि ब्रह्मवादिनः ॥ २ ॥

गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः ।
वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम् ॥ ३ ॥

आत्मायः केवलः स्वस्थः शान्तः सूक्ष्मः सनातनः ।
अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ॥ ४ ॥

सो ऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ।
स कालो ऽग्निस्तदव्यक्तं स एवेदमिति श्रुतिः ॥ ५ ॥

अस्माद् विजायते विश्वमत्रैव प्रविलीयते ।
स मायी मायया बद्धः करोति विविधास्तनूः ॥ ६ ॥

न चाप्ययं संसरति न च संसारयेत् प्रभुः ।
नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ ७ ॥

न प्राणे न मनो ऽव्यक्तं न शब्दः स्पर्श एव च ।
न रूपरसगन्धाश्च नाहं कर्ता न वागपि ॥ ८ ॥

न कर्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ।
न माया नैव च प्राश्चैतन्यं परमार्थतः ॥ ९ ॥

यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।
तद्वदैक्यं न सम्बन्धः प्रपञ्चपरमात्मनोः ॥ १० ॥

छायातपौ यथा लोके परस्परविलक्षणौ ।
तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः ॥ ११ ॥

यद्यात्मा मलिनो ऽस्वस्थो विकारी स्यात् स्वभावतः ।
नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥ १२ ॥

पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः ।
विकारहीनं निर्दुः खमानन्दात्मानमव्ययम् ॥ १३ ॥

अहं कर्ता सुखी दुः खी कृशः स्थूलेति या मतिः ।
सा चाहङ्कारकर्तृत्वादात्मन्यारोप्यते जनैः ॥ १४ ॥

वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् ।
भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् ॥ १५ ॥

तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ।
अज्ञानादन्यथा ज्ञानं तच्च प्रकृतिसङ्गतम् ॥ १६ ॥

नित्योदितः स्वयं ज्योतिः सर्वगः पुरुषः परः ।
अहङ्काराविवेकेन कर्ताहमिति मन्यते ॥ १७ ॥

पश्यन्ति ऋषयो ऽव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ॥ १८ ॥

तेनायं सङ्गतो ह्यात्मा कूटस्थो ऽपि निरञ्जनः ।
स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः ॥ १९ ॥

अनात्मन्यात्मविज्ञानं तस्माद् दुः खं तथेतरम् ।
रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ॥ २० ॥

कर्मण्यस्य भवेद् दोषः पुण्यापुण्यमिति स्थितिः ।
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ॥ २१ ॥

नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ।
एकः स भिद्यते शक्त्या मायया न स्वभावतः ॥ २२ ॥

तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ।
भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ॥ २३ ॥

यथा हि धूमसम्पर्कान्नाकाशो मलिनो भवेत् ।
अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते ॥ २४ ॥

यथा स्वप्रभया भाति केवलः स्फटिको ऽमलः ।
उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ॥ २५ ॥

ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः ।
अर्थस्वरूपमेवाज्ञाः पश्यन्त्यन्ये कुदृष्टयः ॥ २६ ॥

कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ।
दृश्यते ह्यर्थरूपेण पुरुषैर्भ्रान्तिदृष्टिभिः ॥ २७ ॥

यथा संलक्ष्यते रक्तः केवलः स्फटिको जनैः ।
रक्तिकाद्युपधानेन तद्वत् परमपूरुषः ॥ २८ ॥

तस्मादात्माक्षरः शुद्धो नित्यः सर्वगतो ऽव्ययः ।
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ॥ २९ ॥

यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।
योगिनो ऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ ३० ॥

यदा सर्वाणि बूतानि स्वात्मन्येवाभिपश्यति ।
सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते तदा ॥ ३१ ॥

यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।
एकीभूतः परेणासौ तदा भवति केवलः ॥ ३२ ॥
मूलम्
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।
एकीभूतः परेणासौ तदा भवति केवलः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि स्थिताः ।
तदासावमृतीभूतः क्षेमं गच्छति पण्डितः ॥ ३३ ॥

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३४ ॥

यदा पश्यति चात्मानं केवलं परमार्थतः ।
मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः ॥ ३५ ॥

यदा जन्मजरादुः खव्याधीनामेकभेषजम् ।
केवलं ब्रह्मविज्ञानं जायते ऽसौ तदा शिवः ॥ ३६ ॥

यथा नदीनदा लोके सागरेणैकतां ययुः ।
तद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ ३७ ॥

तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः ।
अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ ३८ ॥

तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् ।
अज्ञानमितरत् सर्वं विज्ञानमिति मे मतम् ॥ ३९ ॥

एतद् वः परमं साङ्ख्यं भाषितं ज्ञानमुत्तमम् ।
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ ४० ॥

योगात् सञ्जायते ज्ञानं ज्ञानाद् योगः प्रवर्तते ।
योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ ४१ ॥

यदेव योगिनो यान्ति साङ्ख्यैस्तदधिगम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ ४२ ॥

अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः ।
मज्जन्ति तत्र तत्रैव न त्वात्मैषामिति श्रुतिः ॥ ४३ ॥

यत्तत् सर्वगतं दिव्यमैश्वर्यमचलं महत् ।
ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ ४४ ॥

एष आत्माहमव्यक्तो मायावी परमेश्वरः ।
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ ४५ ॥

सर्वकामः सर्वरसः सर्वगन्धो ऽजरो ऽमरः ।
सर्वतः पाणिपादो ऽहमन्तर्यामी सनातनः ॥ ४६ ॥

अपाणिपादो जवनो ग्रहीता हृदि संस्थितः ।
अचक्षुरपि पश्यामि तथाकर्णः शृणोम्यहम् ॥ ४७ ॥

वेदाहं सर्वमेवेदं न मां जानाति कश्चन ।
प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ ४८ ॥

पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः ।
निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ॥ ४९ ॥

यन्न देवा विजानन्ति मोहिता मम मायया ।
वक्ष्ये समाहिता यूयं शृणुध्वं ब्रह्मवादिनः ॥ ५० ॥

नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः ।
प्रेरयामि तथापीदं कारणं सूरयो विदुः ॥ ५१ ॥

यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः ।
प्रविष्टा मम सायुज्यं लभन्ते योगिनो ऽव्ययम् ॥ ५२ ॥

तेषां हि वशमापन्ना माया मे विश्वरूपिणी ।
लभन्ते परमां शुद्धिं निर्वाणं ते मया सह ॥ ५३ ॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।
प्रसादान्मम योगीन्द्रा एतद् वेदानुशासनम् ॥ ५४ ॥

नापुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः ।
मदुक्तमेतद् विज्ञानं साङ्ख्ययोगसमाश्रयम् ॥ ५५ ॥