०१

ऋषय ऊचुः

विश्वास-प्रस्तुतिः

भवता कथितः सम्यक् सर्गः स्वायम्भुवस्ततः ।
ब्रह्माण्डस्यास्य विस्तारो मन्वन्तरविनिश्चयः ॥ १ ॥

मूलम्

तत्रेश्वरेश्वरो देवो वर्णिभिर्धर्मतत्परैः ।
ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया ॥ २ ॥

तद्वदाशेषसंसारदुः खनाशमनुत्तमम् ।
ज्ञानं ब्रह्मैकविषयं येन पश्येम तत्परम् ॥ ३ ॥

त्वं हि नारायणात्साक्षात् कृष्णद्वैपायनात् प्रभो ।
अवाप्ताखिलविज्ञानस्तत्त्वां पृच्छामहे पुनः ॥ ४ ॥

श्रुत्वा मुनीनां तद् वाक्यं कृष्णद्वैपायनं प्रभुम् ।
सूतः पौराणिकः स्मृत्वा भाषितुं ह्युपचक्रमे ॥ ५ ॥

अथास्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ।
आजगाम मुनिश्रेष्ठा यत्र सत्रं समासते ॥ ६ ॥

तं दृष्ट्वा वेदविद्वांसं कालमेघसमद्युतिम् ।
व्यासं कमलपत्राक्षं प्रणेमुर्द्विजपुङ्गवाः ॥ ७ ॥

पपात दण्डवद् भूमौ दृष्ट्वासौ रोमहर्षणः ।
प्रदक्षिणीकृत्य गुरुं प्राञ्जलिः पार्श्वगो ऽभवत् ॥ ८ ॥

पृष्टास्ते ऽनामयं विप्राः शौनकाद्या महामुनिम् ।
समाश्वास्यासनं तस्मै तद्योग्यं समकल्पयन् ॥ ९ ॥

अथैतानब्रवीद् वाक्यं पराशरसुतः प्रभुः ।
कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ॥ १० ॥

ततः स सूतः स्वगुरुं प्रणम्याह महामुनिम् ।
ज्ञानं तद् ब्रह्मविषयं मुनीनां वक्तुमर्हसि ॥ ११ ॥

इमे हि मुनयः शान्तास्तापसा धर्मतत्पराः ।
शुश्रूषा जायते चैषां वक्तुमर्हसि तत्त्वतः ॥ १२ ॥

ज्ञानं विमुक्तिदं दिव्यं यन्मे साक्षात् त्वयोदितम् ।
मुनीनां व्याहृतं पूर्वं विष्णुना कूर्मरूपिणा ॥ १३ ॥

श्रुत्वा सूतस्य वचनं मुनिः सत्यवतीसुतः ।
प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम् ॥ १४ ॥

व्यास उवाच
विश्वास-प्रस्तुतिः

वक्ष्ये देवो महादेवः पृष्टो योगीश्वरैः पुरा ।
सनत्कुमारप्रमुखैः स्वयं यत्समभाषत ॥ १५ ॥

सनत्कुमारः सनकस्तथैव च सनन्दनः ।
अङ्गिरा रुद्रसहितो भृगुः परमधर्मवित् ॥ १६ ॥

कणादः कपिलो योगी वामदेवो महामुनिः ।
शुक्रो वसिष्ठो भगवान् सर्वे संयतमानसाः ॥ १७ ॥

परस्परं विचार्यैते संशयाविष्टचेतसः ।
तप्तवन्तस्तपो घोरं पुण्ये बदरिकाश्रमे ॥ १८ ॥

अपश्यंस्ते महायोगमृषिं धर्मसुतं शुचिम् ।
नारायणमनाद्यन्तं नरेण सहितं तदा ॥ १९ ॥

संस्तूय विविधैः स्तोत्रैः सर्वे वेदसमुद्भवैः ।
प्रणेमुर्भक्तिसंयुक्ता योगिनो योगवित्तमम् ॥ २० ॥

विज्ञाय वाञ्छितं तेषां भगवानपि सर्ववित् ।
प्राह गम्भीरया वाचा किमर्थं तप्यते तपः ॥ २१ ॥

अब्रुवन् हृष्टमनसो विश्वात्मानं सनातनम् ।
साक्षान्नारायणं देवमागतं सिद्धिसूचकम् ॥ २२ ॥

वयं संशयमापन्नाः सर्वे वै ब्रह्मवादिनः ।
भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ॥ २३ ॥

त्वं हि तद् वेत्थ परमं सर्वज्ञो भगवानृषिः ।
नारायणः स्वयं साक्षात् पुराणो ऽव्यक्तपूरुषः ॥ २४ ॥

नह्यन्यो विद्यते वेत्ता त्वामृते परमेश्वर ।
शुश्रूषास्माकमखिलं संशयं छेत्तुमर्हसि ॥ २५ ॥

किं कारणमिदं कृत्स्नं को ऽनुसंसरते सदा ।
कश्चिदात्मा च का मुक्तिः संसारः किन्निमित्तकः ॥ २६ ॥

कः संसारयतीशानः को वा सर्वं प्रपश्यति ।
किं तत् परतरं ब्रह्म सर्वं नो वक्तुमर्हसि ॥ २७ ॥

एवमुक्ते तु मुनयः प्रापश्यन् पुरुषोत्तमम् ।
विहाय तापसं रूपं संस्थितं स्वेन तेजसा ॥ २८ ॥

विभ्राजमानं विमलं प्रभामण्डलमण्डितम् ।
श्रीवत्सवक्षसं देवं तप्तजाम्बूनदप्रभम् ॥ २९ ॥

शङ्खचक्रगदापाणिं शार्ङ्गहस्तं श्रियावृतम् ।
न दृष्टस्तत्क्षणादेव नरस्तस्यैव तेजसा ॥ ३० ॥

तदन्तरे महादेवः शशाङ्काङ्कितशेखरः ।
प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः ॥ ३१ ॥

निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभूषणम् ।
तुष्टुवुर्हृष्टमनसो भक्त्या तं परमेश्वरम् ॥ ३२ ॥

जयेश्वर महादेव जय भूतपते शिव ।
जयाशेषमुनीशान तपसाभिप्रपूजित ॥ ३३ ॥

मूलम्

जयेश्वर महादेव जय भूतपते शिव ।
जयाशेषमुनीशान तपसाभिप्रपूजित ॥ ३३ ॥

विश्वास-प्रस्तुतिः

सहस्रमूर्ते विश्वात्मन् जगद्यन्त्रप्रवर्तक ।
जयानन्त जगज्जन्मत्राणसंहारकारण ॥ ३४ ॥

सहस्रचरणेशान शम्भो योगीन्द्रवन्दित ।
जयाम्बिकापते देव नमस्ते परमेश्वर ॥ ३५ ॥

मूलम्

सहस्रचरणेशान शम्भो योगीन्द्रवन्दित ।
जयाम्बिकापते देव नमस्ते परमेश्वर ॥ ३५ ॥

विश्वास-प्रस्तुतिः

संस्तुतो भगवानीशस्त्र्यम्बको भक्तवत्सलः ।
समालिङ्ग्य हृषीकेशं प्राह गम्भीरया गिरा ॥ ३६ ॥

किमर्थं पुण्डरीकाक्ष मुनीन्द्रा ब्रह्मवादिनः ।
इमं समागता देशं किं वा कार्यं मयाच्युत ॥ ३७ ॥

आकर्ण्य भगवद्वाक्यं देवदेवो जनार्दनः ।
प्राह देवो महादेवं प्रसादाभिमुखं स्थितम् ॥ ३८ ॥

इमे हि मुनयो देव तापसाः क्षीणकल्मषाः ।
अभ्यागता मां शरणं सम्यग्दर्शनकाङ्क्षिणः ॥ ३९ ॥

यदि प्रसन्नो भगवान् मुनीनां भावितात्मनाम् ।
सन्निधौ मम तज्ज्ञानं दिव्यं वक्तुमिहार्हसि ॥ ४० ॥

त्वं हि वेत्थ स्वमात्मानं न ह्यन्यो विद्यते शिव ।
ततस्त्वमात्मनात्मानं मुनीन्द्रेभ्यः प्रदर्शय ॥ ४१ ॥

एवमुक्त्वा हृषीकेशः प्रोवाच मुनिपुङ्गवान् ।
प्रदर्शयन् योगसिद्धिं निरीक्ष्य वृषभध्वजम् ॥ ४२ ॥

सन्दर्शनान्महेशस्य शङ्करस्याथ शूलिनः ।
कृतार्थं स्वयमात्मानं ज्ञातुमर्हथ तत्त्वतः ॥ ४३ ॥

प्रष्टुमर्हथ विश्वेशं प्रत्यक्षं पुरतः स्थितम् ।
ममैव सन्निधावेष यथावद् वक्तुमीश्वरः ॥ ४४ ॥

निशम्य विष्णुवचनं प्रणम्य वृषभध्वजम् ।
सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम् ॥ ४५ ॥

अथास्मिन्नन्तरे दिव्यमासनं विमलं शिवम् ।
किमप्यचिन्त्यं गगनादीश्वरार्हं समुद्बभौ ॥ ४६ ॥

तत्राससाद योगात्मा विष्णुना सह विश्वकृत् ।
तेजसा पूरयन् विश्वं भाति देवो महेश्वरः ॥ ४७ ॥

तं ते देवादिदेवेशं शङ्करं ब्रह्मवादिनः ।
विभ्राजमानं विमले तस्मिन् ददृशुरासने ॥ ४८ ॥

यं प्रपश्यन्तियोगस्थाः स्वात्मन्यात्मानमीश्वरमा ।
अनन्यतेजसं शान्तं शिवं ददृशिरे किल ॥ ४९ ॥

यतः प्रसूतिर्भूतानां यत्रैतत् प्रविलीयते ।
तमासनस्थं भूतानामीशं ददृशिरे किल ॥ ५० ॥

यदन्तरा सर्वमेतद् यतो ऽभिन्नमिदं जगत् ।
स वासुदेवमासीनं तमीशं ददृशुः किल ॥ ५१ ॥

मूलम्

यदन्तरा सर्वमेतद् यतो ऽभिन्नमिदं जगत् ।
स वासुदेवमासीनं तमीशं ददृशुः किल ॥ ५१ ॥

विश्वास-प्रस्तुतिः

प्रोवाच पृष्टो भगवान् मुनीनां परमेश्वरः ।
निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम् ॥ ५२ ॥

तच्छृणुध्वं यथान्यायमुच्यमानं मयानघाः ।
प्रशान्तमानसाः सर्वे ज्ञानमीश्वरभाषितम् ॥ ५३ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) प्रथमो ऽध्यायः