५१

सूत उवाच

विश्वास-प्रस्तुतिः

वेदव्यासावताराणि द्वापरे कथितानि तु ।
महादेवावताराणि कलौ शृणुत सुव्रताः ॥ १ ॥

मूलम्

वेदव्यासावताराणि द्वापरे कथितानि तु ।
महादेवावताराणि कलौ शृणुत सुव्रताः ॥ १ ॥

विश्वास-प्रस्तुतिः

आद्ये कलियुगे श्वेतो देवदेवो महाद्युतिः ।
नाम्ना हिताय विप्राणामभूद् वैवस्वते ऽन्तरे ॥ २ ॥

हिमवच्छिखरे रम्ये छगले पर्वतोत्तमे ।
तस्य शिष्याः शिखायुक्ता वभूवुरमितप्रभाः ॥ ३ ॥

श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।
चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥ ४ ॥

सुभानो दमनश्चाथ सुहोत्रः कङ्कणस्तथा ।
लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥ ५ ॥

अष्टमे दधिवाहः स्यान्नवमे वृषभः प्रभुः ।
भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः परः स्मृतः ॥ ६ ॥

द्वादशे ऽत्रिः समाख्यातो बली चाथ त्रयोदशे ।
चतुर्दशे गौतमस्तु वेदशीर्षा ततः परम् ॥ ७ ॥

गोकर्णश्चाभवत् तस्माद् गुहावासः शिखण्ड्यथ ।
जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात् ॥ ८ ॥

श्वेतस्तथा परः शूली डिण्डी मुण्डी च वै क्रमात् ।
सहिष्णुः सोमशर्मा च नकुलीशो ऽन्तिमे प्रभुः ॥ ९ ॥

वैवस्वते ऽन्तरे शम्भोरवतारास्त्रिशूलिनः ।
विश्वास-प्रस्तुतिः

अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः ।
तीर्थे कायावतारे स्याद् देवेशो नकुलीश्वरः ॥ १० ॥

तत्र देवादिदेवस्य चत्वारः सुतपोधनाः ।
शिष्या बभूवुश्चान्येषां प्रत्येकं मुनिपुङ्गवाः ॥ ११ ॥

प्रसन्नमनसो दान्ता ऐश्वरीं भक्तिमाश्रिताः ।
क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान् ॥ १२ ॥

मूलम्

प्रसन्नमनसो दान्ता ऐश्वरीं भक्तिमाश्रिताः ।
क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान् ॥ १२ ॥

श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।
विश्वास-प्रस्तुतिः

दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ।
विकेशश्च विशोकश्च विशापश्शापनाशनः ॥ १३ ॥

सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः ।
सनः सनातनश्चैव मुकारश्च सनन्दनः ॥ १४ ॥

दालभ्यश्च महायोगी धर्मात्मनो महौजसः ।
सुधामा विरजाश्चैव शङ्खपात्रज एव च ॥ १५ ॥

सारस्वतस्तथा मेघो घनवाहः सुवाहनः ।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखो मुनिः ॥ १६ ॥

पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा ।
बलबन्धुर्निरामित्रः केतुशृङ्गस्तपोधनः ॥ १७ ॥

लम्बोदरश्च लम्बश्च लाम्बाक्षो लम्बकेशकः ।
सर्वज्ञः समबुद्धिश्च साध्यः सत्यस्तथैव च ॥ १८ ॥

शुधामा काश्यपश्चैव वसिष्ठो विरजास्तथा ।
अत्रिरुग्रस्तथा चैव श्रवणो ऽथ श्रविष्ठकः ॥ १९ ॥

कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।
कश्यपोह्युशना चैव च्यवनो ऽथ बृहस्पतिः ॥ २० ॥

उतथ्यो वामदेवश्च महाकायो महानिलः ।
वाचश्रवाः सुपीकश्च श्यावाश्वः सपथीश्वरः ॥ २१ ॥

हरिण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ।
सुमन्तुर्वर्चरी विद्वान् कबन्धः कुशिकन्धरः ॥ २२ ॥

प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ।
भल्लापी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः ॥ २३ ॥

उशिजो बृहदुक्थश्च देवलः कपिरेव च ।
शालिहोत्रो ऽग्निवेश्यश्च युवनाश्वः शरद्वसुः ॥ २४ ॥

छगलः कुण्डकर्णश्च कुम्भश्चैव प्रवाहकः ।
उलूको विद्युतश्चैव शाद्वलो ह्याश्वलायनः ॥ २५ ॥

अक्षपादः कुमारश्च उलूको वत्स एव च ।
कुशिकश्चैव गर्गश्च मित्रको ऋष्य एव च ॥ २६ ॥

शिष्या एते महात्मानः सर्वोवर्तेषु योगिनाम् ।
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ॥ २७ ॥

कुर्वन्ति चावताराणि ब्राह्मणानां हिताय हि ।
योगेश्वराणामादेशाद् वेदसंस्थापनाय वै ॥ २८ ॥

ये ब्राह्मणाः संस्मरन्ति नमस्यन्ति च सर्वदा ।
तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः ॥ २९ ॥

इदं वैवस्वतं प्रोक्तमन्तरं विस्तरेण तु ।
भविष्यति च सावर्णो दक्षसावर्ण एव च ॥ ३० ॥

दशमो ब्रह्मसावर्णो धर्मसावर्ण एव च ।
विश्वास-प्रस्तुतिः

द्वादशो रुद्रसावर्णो रोचमानस्त्रयोदशः ।
भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात् ॥ ३१ ॥

अयं वः कथितो ह्यंशः पूर्वो नारायणेरितः ।
भूतभव्यैर्वर्तमानैराख्यानैरुपबृंहितः ॥ ३२ ॥

यः पठेच्छृणुयाद् वापि श्रावयेद् वा द्विजोत्तमान् ।
स सर्वपापनिर्मुक्तो ब्रह्मणा सह मोदते ॥ ३३ ॥

पठेद् देवालये स्नात्वा नदीतीरेषु चैव हि ।
नारायणं नमस्कृत्य भावेन पुरुषोत्तमम् ॥ ३४ ॥

नमो देवादिदेवाय देवानां परमात्मने ।
पुरुषाय पुराणाय विष्णवे कूर्मरूपिणे ॥ ३५ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकपञ्चाशो ऽध्यायः