सूत उवाच
विश्वास-प्रस्तुतिः
अस्मिन् मन्वन्तरे पूर्वं वर्तमाने महान् विभुः ।
द्वापरे प्रथमे व्यासो मनुः स्वायम्भुवो मतः ॥ १ ॥
मूलम्

बिभेद बहुधा वेदं नियोगाद् ब्रह्मणः प्रभोः ।
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥ २ ॥

तृतीये चोशना व्यासश्चतुर्थे स्याद् बृहस्पतिः ।
सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्तितः ॥ ३ ॥

सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे मतः ।
सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ ४ ॥

एकादशे तु त्रिवृषः शततेजास्ततः परः ।
त्रयोदशे तथा धर्मस्तरक्षुस्तु चतुर्दशे ॥ ५ ॥

त्र्यारुणिर्वै पञ्चदशे षोडशे तु धनञ्जयः ।
कृतञ्जयः सप्तदशे ह्यष्टादशे ऋतञ्जयः ॥ ६ ॥

ततो व्यासो भरद्वाजस्तस्मादूर्ध्वं तु गौतमः ।
राजश्रवाश्चैकविंशस्तस्माच्छुष्मायणः परः ॥ ७ ॥

तृणबिन्दुस्त्रयोविंशे वाल्मीकिस्तत्परः स्मृतः ।
पञ्चविशे तथा शक्तिः षड्विंशे तु पराशरः ॥ ८ ॥

अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्वापरे द्विजाः ।
पराशरसुतो व्यासः कृष्णद्वैपायनो ऽभवत् ॥ ९ ॥

स एव सर्ववेदानां पुराणानां प्रदर्शकः ।
पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः ॥ १० ॥

आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम् ।
तत्प्रसादादसौ व्यासं वेदानामकरोत् प्रभुः ॥ ११ ॥

जैमिनिं च सुमन्तुं च वैशम्पायनमेव च ।
पैलं तेषां चतुर्थं च पञ्चमं मां महामुनिः ॥ १२ ॥

ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः ।
यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥ १३ ॥

तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् ।
इतिहासपुराणानि प्रवक्तुं मामयोजयत् ॥ १४ ॥

एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।
चातुर्हेत्रमभूद् यस्मिंस्तेन यज्ञमथाकरोत् ॥ १५ ॥

आध्वर्यवं यजुर्भिः स्यादृग्भिर्हेत्रं द्विजोत्तमाः ।
औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ १६ ॥

ततः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः ।
यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥ १७ ॥

एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा ।
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ १८ ॥

सामवेदं सहस्रेण शाखानां प्रबिभेद सः ।
अथर्वाणमथो वेदं बिभेद नवकेन तु ॥ १९ ॥
मूलम्
सामवेदं सहस्रेण शाखानां प्रबिभेद सः ।
अथर्वाणमथो वेदं बिभेद नवकेन तु ॥ १९ ॥
विश्वास-प्रस्तुतिः
भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः ।
सो ऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनात् ॥ २० ॥

ओङ्कारो ब्रह्मणो जातः सर्वदोषविशोधनः ।
वेदवेद्यो हि भगवान् वासुदेवः सनातनः ॥ २१ ॥

स गीयते परो वेदे यो वेदैनं स वेदवित् ।
एतत् परतरं ब्रह्म ज्योतिरानन्दमुत्तमम् ॥ २२ ॥

वेदवाक्योदितं तत्त्वं वासुदेवः परं पदम् ।
वेदवेद्यमिमं वेत्ति वेदं वेदपरो मुनिः ॥ २३ ॥

स वेदवेद्यो भगवान् वेदमूर्तिर्महेश्वरः ।
स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते ॥ २४ ॥

इत्येदक्षरं वेद्यमोङ्कारं वेदमव्ययम् ।
अवेदं च विजानाति पाराशर्यो महामुनिः ॥ २५ ॥