४९

ऋषय ऊचुः

विश्वास-प्रस्तुतिः

अतीतानागतानीह यानि मन्वन्तराणि तु ।
तानि त्वं कथयास्माकं व्यासांश्च द्वापरे युगे ॥ १ ॥

मूलम्

वेदशाखाप्रणयनं देवदेवस्य धीमतः ।
तथावतारान् धर्मार्थमीशानस्य कलौ युगे ॥ २ ॥

कियन्तो देवदेवस्य शिष्याः कलियुगेषु वै ।
एतत् सर्वं समासेन सूत वक्तुमिहार्हसि ॥ ३ ॥

सूत उवाच
विश्वास-प्रस्तुतिः

मनुः स्वायम्भुवः पूर्वं ततः स्वारोचिषो मनुः ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ४ ॥

षडेते मनवो ऽतीताः साम्प्रतं तु रवेः सुतः ।
वैवस्वतो ऽयं यस्यैतत् सप्तमं वर्तते ऽन्तरम् ॥ ५ ॥

स्वायम्भुवं तु कथितं कल्पादावन्तरं मया ।
अत ऊर्ध्वं निबोधध्वं मनोः स्वारोचिषस्य तु ॥ ६ ॥

पारावताश्च तुषिता देवाः स्वारोचिषे ऽन्तरे ।
विपश्चिन्नाम देवेन्द्रो बभूवासुरसूदनः ॥ ७ ॥

ऊर्जस्तम्भस्तथा प्राणो दान्तो ऽथ वृषभस्तथा ।
तिमिरश्चार्वरीवांश्च सप्त सप्तर्षयो ऽभवन् ॥ ८ ॥

चैत्रकिम्पुरुषाद्याश्च सुताः स्वारोचिषस्य तु ।
द्वितीयमतदाख्यातमन्तरं शृणु चोत्तरम् ॥ ९ ॥

तृतीये ऽप्यन्तरे विप्रा उत्तमो नाम वै मनुः ।
सुशान्तिस्तत्र देवेन्द्रो बभूवामित्रकर्षणः ॥ १० ॥

सुधामानस्तथा सत्याः शिवाश्चाथ प्रतर्दनाः ।
वशवर्तिनश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥ ११ ॥

रजोर्ध्वश्चोर्ध्वबाहुश्च सबलश्चानयस्तथा ।
सुतपाः शुक्र इत्येते सप्त सप्तर्षयो ऽभवन् ॥ १२ ॥

तामसस्यान्तरे देवाः सुरा वाहरयस्तथा ।
सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ १३ ॥

शिबिरिन्द्रस्तथैवासीच्छतयज्ञोपलक्षणः ।
बभूव शङ्करे भक्तो महादेवार्चने रतः ॥ १४ ॥

ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोग्निर्वनकस्तथा ।
पीवरस्त्वृषयो ह्येते सप्त तत्रापि चान्तरे ॥ १५ ॥

पञ्चमे चापि विप्रेन्द्रा रैवतो नाम नामतः ।
मनुर्वसुश्च तत्रेन्द्रो बभूवासुरमर्दनः ॥ १६ ॥

अमिताभा भूतरया वैकुण्ठाः स्वच्छमेधसः ।
एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ १७ ॥

मूलम्

अमिताभा भूतरया वैकुण्ठाः स्वच्छमेधसः ।
एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ १७ ॥

हिरण्यरोमा वेदश्रीरूर्ध्वबाहुस्तथैव च ।
विश्वास-प्रस्तुतिः

वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ।
एते सप्तर्षयो विप्रास्तत्रासन् रैवते ऽन्तरे ॥ १८ ॥

स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।
प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ॥ १९ ॥

षष्ठे मन्वन्तरे चासीच्चाक्षुषस्तु मनुर्द्विजाः ।
मनोजवस्तथैवेन्द्रो देवानपि निबोधतः ॥ २० ॥

आद्याः प्रसूता भाव्याश्च पृथुगाश्च दिवौकसः ।
महानुभावा लेख्याश्च पञ्चैते ह्यष्टका गणाः ॥ २१ ॥

सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्नृषयः शुभाः ॥ २२ ॥

विवस्वतः सुतो विप्राः श्राद्धदेवो महाद्युतिः ।
मनुः स वर्तते धीमान् साम्प्रतं सप्तमे ऽन्तरे ॥ २३ ॥

आदित्या वसवो रुद्रा देवास्तत्र मरुद्गणाः ।
पुरन्दरस्तथैवेन्द्रो बभूव परवीरहा ॥ २४ ॥

वसिष्ठः कश्यपश्चात्रिर्जमदग्निश्च गौतमः ।
विश्वामित्रो भरद्वाजः सप्त सप्तर्षयो ऽभवन् ॥ २५ ॥

विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थिता स्थितौ ।
तदंशभूता राजानः सर्वे च त्रिदिवौकसः ॥ २६ ॥

स्वायम्भुवे ऽन्तरे पूर्वमाकूत्यां मानसः सुतः ।
रुचेः प्रजापतेर्यज्ञस्तदंशेनाभवद् द्विजाः ॥ २७ ॥

ततः पुनरसौ देवः प्राप्ते स्वारोचिषे ऽन्तरे ।
तुषितायां समुत्पन्नस्तुषितैः सह दैवतैः ॥ २८ ॥

औत्तमे ऽप्यन्तरे विष्णुः सत्यैः सह सुरोत्तमैः ।
सत्यायामभवत् सत्यः सत्यरूपो जनार्दनः ॥ २९ ॥

तामसस्यान्तरे चैव सम्प्राप्ते पुनरेव हि ।
हर्यायां हरिभिर्देवैर्हरिरेवाभवद्धरिः ॥ ३० ॥

रैवते ऽप्यन्तरे चैव सम्भूत्यां मानसो ऽभवत् ।
सम्भूतो मानसैः सार्धं देवैः सह महाद्युतिः ॥ ३१ ॥

चाक्षुषे ऽप्यन्तरे चैव वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥ ३२ ॥

मन्वन्तरे ऽत्र सम्प्राप्ते तथा वैवस्वते ऽन्तरे ।
वामनः कश्यपाद् विष्णुरदित्यां सम्बभूव ह ॥ ३३ ॥

त्रिभिः क्रमैरिमांल्लोकाञ्जित्वा येन महात्मना ।
पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥ ३४ ॥

इत्येतास्तनवस्तस्य सप्त मन्वन्तरेषु वै ।
सप्त चैवाभवन् विप्रा याभिः संरक्षिताः प्रजाः ॥ ३५ ॥

यस्माद् विष्टमिदं कृत्स्नं वामनेन महात्मना ।
तस्मात् स वै स्मृतो विष्णुर्विशेर्धातोः प्रवेशनात् ॥ ३६ ॥

एष सर्वं सृजत्यादौ पाति हन्ति च केशवः ।
भूतान्तरात्मा भगवान् नारायण इति श्रुतिः ॥ ३७ ॥

एकांशेन जगत् सर्वं व्याप्य नारायणः स्थितः ।
चतुर्धा संस्थितो व्यापी सगुणो निर्गुणो ऽपि च ॥ ३८ ॥

एका भगवतो मूर्तिर्ज्ञानरूपा शिवामला ।
वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥ ३९ ॥

द्वितीया कालसञ्ज्ञान्या तामसी शेषसञ्ज्ञिता ।
निहन्ति सकलं चान्ते वैष्णवी परमा तनुः ॥ ४० ॥

सत्त्वोद्रिक्ता तथैवान्या प्रद्युम्नेति च सञ्ज्ञिता ।
जगत् स्थापयते सर्वं स विष्णुः प्रकृतिर्ध्रुवा ॥ ४१ ॥

चतुर्थो वासुदेवस्य मूर्तिर्ब्राह्मीति सञ्ज्ञिता ।
राजसी चानिरुद्धाख्या प्रद्युम्नः सृष्टिकारिका ॥ ४२ ॥

यः स्वपित्यखिलं भूत्वा प्रद्युम्नेन सह प्रभुः ।
नारायणाख्यो ब्रह्मासौ प्रिजासर्गं करोति सः ॥ ४३ ॥

या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्वराः ।
तया सम्मोहयेद् विश्वं सदेवासुरमानुषम् ॥ ४४ ॥

सैव सर्वजगत्सूतिः प्रकृतिः परिकीर्तिता ।
वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः ॥ ४५ ॥

प्रधानं पुरुषः कालस्तत्त्वत्रयमनुत्तमम् ।
वासुदेवात्मकं नित्यमेतद् विज्ञाय मुच्यते ॥ ४६ ॥

एकं चेदं चतुष्पादं चतुर्धा पुनरच्युतः ।
बिभेद वासुदेवो ऽसौ प्रद्युम्नो हरिरव्ययः ॥ ४७ ॥

कृष्णद्वैपायनो व्यासो विष्णुर्नारायणः स्वयम् ।
अपान्तरतमाः पूर्वं स्वेच्छया ह्यभवद्धरिः ॥ ४८ ॥

अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः ।
एको ऽयं वेद भगवान् व्यासो नारायणः प्रभुः ॥ ४९ ॥

इत्येतद् विष्णुमाहात्म्यमुक्तं वो मुनिपुङ्गवाः ।
एतत् सत्यं पुनः सत्यमेवं ज्ञात्वा न मुह्यति ॥ ५० ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनपञ्चाशो ऽध्यायः