४८

सूत उवाच

विश्वास-प्रस्तुतिः

शाकद्वीपस्य विस्ताराद् द्विगुणेन व्यवस्थितः ।
क्षीरार्णवं समाश्रित्य द्वीपः पुष्करसंवृतः ॥ १ ॥

मूलम्

एक एवात्र विप्रेन्द्राः पर्वतो मानसोत्तरः ।
विश्वास-प्रस्तुतिः

योजनानां सहस्राणि सार्धं पञ्चाशदुच्छ्रितः ।
तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ २ ॥

स एव द्वीपः पश्चार्धे मानसोत्तरसञ्ज्ञितः ।
एक एव महासानुः सन्निवेशाद् द्विधा कृतः ॥ ३ ॥

तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ।
विश्वास-प्रस्तुतिः

अपरौ मानसस्याथ पर्वतस्यानुमण्डलौ ।
महावीतं स्मृतं वर्षं धातकीखण्डमेव च ॥ ४ ॥

स्वादूदकेनोदधिना पुष्करः परिवारितः ।
तस्मिन् द्वीपे महावृक्षो न्यग्रोधो ऽमरपूजितः ॥ ५ ॥

तस्मिन् निवसति ब्रह्मा विश्वात्मा विश्वभावनः ।
तत्रैव मुनिशार्दूलाः शिवनारायणालयः ॥ ६ ॥

वसत्यत्र महादेवो हरोर्ऽद्धहरिरव्ययः ।
विश्वास-प्रस्तुतिः

सम्पूज्यमानो ब्रह्माद्यैः कुमाराद्यैश्च योगिभिः ।
गन्धर्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलः ॥ ७ ॥

स्वस्थास्तत्र प्रजाः सर्वा ब्रह्मणा सदृशत्विषः ।
निरामया विशोकाश्च रागद्वेषविवर्जिताः ॥ ८ ॥

सत्यानृते न तत्रास्तां नोत्तमाधममध्यमाः ।
न वर्णाश्रमधर्माश्च न नद्यो न च पर्वताः ॥ ९ ॥

परेण पुष्करस्याथ स्थितो महान् ।
स्वादूदकसमुद्रस्तु समन्ताद् द्विजसत्तमाः ॥ १० ॥

परेण तस्य महती दृश्यते लोकसंस्थितिः ।
काञ्चनी द्विगुणा भूमिः सर्वा चैव शिलोपमा ॥ ११ ॥

तस्याः परेण शैलस्तु मर्यादात्मात्ममण्डलः ।
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ॥ १२ ॥

योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः ।
तावानेव च विस्तारो लोकालोको महागिरिः ॥ १३ ॥

समावृत्य तु तं शैलं सर्वतो वै तमः स्थितम् ।
तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् ॥ १४ ॥

एतै सप्त महालोकाः पातालाः सप्तकीर्तिताः ।
ब्रह्माण्डस्यैष विस्तारः सङ्क्षेपेण मयोदितः ॥ १५ ॥

अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः ।
सर्वगत्वात् प्रधानस्य कारणस्याव्ययात्मनः ॥ १६ ॥

अण्डेष्वेतेषु सर्वेषु भुवनानि चतुर्दश ।
तत्र तत्र चतुर्वक्त्रा रुद्रा नारायणादयः ॥ १७ ॥

दशोत्तरमथैकैकमण्डावरणसप्तकम् ।
समन्तात् संस्थितं विप्रा यत्र यान्ति मनीषिणः ॥ १८ ॥

अनन्तमेकमव्यक्तनादिनिधनं महत् ।
अतीत्य वर्तते सर्वं जगत् प्रकृतिरक्षरम् ॥ १९ ॥

अनन्तत्वमनन्तस्य यतः सङ्ख्या न विद्यते ।
तदव्यक्तमिति ज्ञेयं तद् ब्रह्म परमं पदम् ॥ २० ॥

अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते ।
तस्य पूर्वं मयाप्युक्तं यत्तन्माहात्म्यमव्ययम् ॥ २१ ॥

गतः स एष सर्वत्र सर्वस्थानेषु वर्तते ।
विश्वास-प्रस्तुतिः

भूमौ रसातले चैव आकाशे पवने ऽनले ।
अर्णवेषु च सर्वेषु दिवि चैव न सशयः ॥ २२ ॥

तथा तमसि सत्त्वे च एष एव महाद्युतिः ।
अनेकधा विभक्ताङ्गः क्रीडते पुरुषोत्तमः ॥ २३ ॥

महेश्वरः परो ऽव्यक्तादण्डमव्यक्तसम्भवम् ।
अण्डाद् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् ॥ २४ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टचत्वारिंशो ऽध्यायः