४६

सूत उवाच

विश्वास-प्रस्तुतिः

हेमकूटगिरेः शृङ्गे महाकूटैः सुशोभनम् ।
स्फाटिकं देवदेवस्य विमानं परमेष्ठिनः ॥ १ ॥

मूलम्

अथ देवादिदेवस्य भूतेशस्य त्रिशूलिनः ।
देवाः सिद्धगणा यक्षाः पूजां नित्यं प्रकुर्वते ॥ २ ॥

स देवो गिरिशः सार्धं महादेव्या महेश्वरः ।
भूतैः परिवृतो नित्यं भाति तत्र पिनाकधृक् ॥ ३ ॥

विभक्तचारुशिखरः कैलासो यत्र पर्वतः ।
विश्वास-प्रस्तुतिः

निवासः कोटियक्षाणां कुबेरस्य च धीमतः ।
तत्रापि देवदेवस्य भवस्यायतनं महत् ॥ ४ ॥

मूलम्

निवासः कोटियक्षाणां कुबेरस्य च धीमतः ।
तत्रापि देवदेवस्य भवस्यायतनं महत् ॥ ४ ॥

विश्वास-प्रस्तुतिः

मन्दाकिनी तत्र दिव्या रम्या सुविमलोदका ।
नदी नानाविधैः पद्मैरनेकैः समलङ्कृता ॥ ५ ॥

देवदानवगन्धर्वयक्षराक्षसकिन्नरैः ।
उपस्पृष्टजला नित्यं सुपुण्या सुमनोरमा ॥ ६ ॥

अन्याश्च नद्यः शतशः स्वर्णपद्मैरलङ्कृताः ।
विश्वास-प्रस्तुतिः

तासां कूलेषु देवस्य स्थानानि परमेष्ठिनः ।
देवर्षिगणजुष्टानि तथा नारायणस्य च ॥ ७ ॥

सितान्तशिखरे चापि पारिजातवनं शुभम् ।
विश्वास-प्रस्तुतिः

तत्र शक्रस्य विपुलं भवनं रत्नमण्डितम् ।
स्फाटिकस्तम्भसंयुक्तं हेमगोपुरसंयुतम् ॥ ८ ॥

तत्राथ देवदेवस्य विष्णोर्विश्वामरेशितुः ।
सुपुण्यं भवनं रम्यं सर्वरत्नोपशोभितम् ॥ ९ ॥

तत्र नारायणः श्रीमान् लक्ष्म्या सह जगत्पतिः ।
आस्ते सर्वामरश्रेष्ठः पूज्यमानः सनातनः ॥ १० ॥

तथा च वसुधारे तु वसूनां रत्नमण्डितम् ।
स्थानानामष्टकं पुण्यं दुराधर्षं सुरद्विषाम् ॥ ११ ॥

रत्नधारे गिरिवरे सप्तर्षोणां महात्मनाम् ।
सप्ताश्रमाणि पुण्यानि सिद्धावासयुतानि तु ॥ १२ ॥

तत्र हैमं चतुर्द्वारं वज्रनीलादिमण्डितम् ।
सुपुण्यं सुमहत् स्थानं ब्रह्मणो ऽव्यक्तजन्मनः ॥ १३ ॥

तत्र देवर्षयो विप्राः सिद्धा ब्रह्मर्षयो ऽपरे ।
उपासते सदा देवं पितामहमजं परम् ॥ १४ ॥

स तैः सम्पूजितो नित्यं देव्या सह चतुर्मुखः ।
आस्ते हिताय लोकानां शान्तानां परमा गतिः ॥ १५ ॥

अथैकशृङ्गशिखरे महापद्मैरलङ्कृतम् ।
स्वच्छामृतजलं पुण्यं सुगन्धं सुमहत् सरः ॥ १६ ॥

जैगीषव्याश्रमं तत्र योगीन्द्रैरुपशोभितम् ।
विश्वास-प्रस्तुतिः

तत्रासौ भगवान् नित्यमास्ते शिष्यैः समावृतः ।
प्रशान्तदोषैरक्षुद्रैर्ब्रह्मविद्भिर्महात्मभिः ॥ १७ ॥

शङ्खो मनोहरश्चैव कौशिकः कृष्ण एव च ।
सुमना वेदनादश्च शिष्यास्तस्य प्रधानतः ॥ १८ ॥

सर्वे योगरताः शान्ता भस्मोद्धूलितविग्रहाः ।
उपासते महावीर्या ब्रह्मविद्यापरायणाः ॥ १९ ॥

तेषामनुग्रिहार्थाय यतीनां शान्तचेतसाम् ।
सान्निध्यं कुरुते भूयो देव्या सह महेश्वरः ॥ २० ॥

अन्यानिचाश्रमाणि स्युस्तस्मिन् गिरिवरोत्तमे ।
मुनीनां युक्तमनसां सरांसि सरितस्तथा ॥ २१ ॥

तेषु योगरता विप्रा जापकाः संयतेन्द्रियाः ।
ब्रह्मण्यासक्तमनसो रमन्ते ज्ञानतत्पराः ॥ २२ ॥

आत्मन्यात्मानमाधाय शिखान्तान्तरमास्थितम् ।
धायायन्ति देवमीशानं येन सर्वमिदं ततम् ॥ २३ ॥

सुमेघे वासवस्थानं सहस्रादित्यसन्निभम् ।
तत्रास्ते भगवानिन्द्रः शच्या सह सुरेश्वरः ॥ २४ ॥

गजशैले तु दुर्गाया भवनं मणितारणम् ।
आस्ते भगवती दुर्गा तत्र साक्षान्महेश्वरी ॥ २५ ॥

उपास्यमाना विविधैः शक्तिभेदैरितस्ततः ।
पीत्वा योगामृतं लब्ध्वा साक्षादानन्दमैश्वरम् ॥ २६ ॥

सुनीलस्य गिरेः शृङ्गे नानाधातुसमुज्ज्वले ।
राक्षसानां पुराणि स्युः सरांसि शतशो द्विजाः ॥ २७ ॥

तथा पुरशतं विप्राः शतशृङ्गे महाचले ।
स्फाटिकस्तम्भसंयुक्तं यक्षाणाममितौजसाम् ॥ २८ ॥

श्वेतोदरगिरेः शृङ्गे सुपर्णस्य महात्मनः ।
प्राकारगोपुरोपेतं मणितोरणमण्डितम् ॥ २९ ॥

स तत्र गरुडः श्रीमान् साक्षाद् विष्णुरिवापरः ।
ध्यात्वास्ते तत् परं ज्योतिरात्मानं विष्णुमव्ययम् ॥ ३० ॥

अन्यच्च भवनं पुण्यं श्रीशृङ्गे मुनिपुङ्गवाः ।
श्रीदेव्याः सर्वरत्नाढ्यं हैमं सुमणितोरणम् ॥ ३१ ॥

तत्र सा परमा शक्तिर्विष्णोरतिमनोरमा ।
अनन्तविभवा लक्ष्मीर्जगत्सम्मोहनोत्सुका ॥ ३२ ॥

अध्यास्ते देवगन्धर्वसिद्धचारणवन्दिता ।
विचिन्त्य जगतोयोनिं स्वशक्तिकिरणोज्ज्वला ॥ ३३ ॥

तत्रैव देवदेवस्य विष्णोरायतनं महत् ।
सरांसि तत्र चत्वारि विचित्रकमलाश्रया ॥ ३४ ॥

तथा सहस्रशिखरे विद्याधरपुराष्टकम् ।
रत्नसोपानसंयुक्तं सरोभिश्चोपशोभितम् ॥ ३५ ॥

नद्यो विमलपानीयाश्चित्रनीलोत्पलाकराः ।
कर्णिकारवनं द्विव्यं तत्रास्ते शङ्करोमया ॥ ३६ ॥

पारियात्रे महाशैले महालक्ष्म्याः पुरं शुभम् ।
रम्यप्रासादसंयुक्तं घण्टाचामरभूषितम् ॥ ३७ ॥

नृत्यद्भिरप्सरः सङ्घैरितश्चेतश्च शोभितम् ।
मृदङ्गमुरजोद्घुष्टं वीणावेणुनिनादितम् ॥ ३८ ॥

गन्धर्वकिन्नराकीर्णं संवृतं सिद्धपुङ्गवैः ।
भास्वद्भित्तिसमाकीर्णं महाप्रासादसङ्कुलम् ॥ ३९ ॥

गणेश्वराङ्गनाजुष्टं धार्मिकाणां सुदर्शनम् ।
तत्र सा वसते देवी नित्यं योगपरायणा ॥ ४० ॥

महालक्ष्मीर्महादेवी त्रिशूलवरधारिणी ।
विश्वास-प्रस्तुतिः

त्रिनेत्रा सर्वशसक्तीभिः संवृता सदसन्मया ।
पश्यन्ति तत्र मुनयः सिद्धा ये ब्रह्मवादिनः ॥ ४१ ॥

सुपार्श्वस्योत्तरे भागे सरस्वत्याः पुरोत्तमम् ।
सरांसि सिद्धजुष्टानि देवभोग्यानि सत्तमाः ॥ ४२ ॥

पाण्डुरस्य गिरेः शृङ्गे विचित्रद्रुमसङ्कुले ।
सन्धर्वाणां पुरशतं दिव्यस्त्रीभिः समावृतम् ॥ ४३ ॥

तेषु नित्यं मदोत्सिक्ता वरनार्यस्तथैव च ।
क्रीडन्ति मुदिता नित्यं विलासैर्भोगतत्पराः ॥ ४४ ॥

अञ्जनस्य गिरेः शृङ्गे नारीणां पुरमुत्तमम् ।
वसन्ति तत्राप्सरसो रम्भाद्या रतिलालसाः ॥ ४५ ॥

चित्रसेनादयो यत्र समायान्त्यर्थिनः सदा ।
सा पुरी सर्वरत्नाढ्या नैकप्रस्त्रवणैर्युता ॥ ४६ ॥

अनेकानि पुराणि स्युः कौमुदे चापि सुव्रताः ।
रुद्राणां शान्तरजसामीश्वरार्पितचेतसाम् ॥ ४७ ॥

तेषु रुद्रा महायोगा महेशान्तरचारिणः ।
समासते परं ज्योतिरारूढाः स्थानमुत्तमम् ॥ ४८ ॥

पिञ्जरस्य गिरेः शृङ्गे गणेशानां पुरत्रयम् ।
नन्दीश्वरस्य कपिले तत्रास्ते सुयशा यतिः ॥ ४९ ॥

तथा च जारुधैः शृङ्गे देवदेवस्य धीमतः ।
दीप्तमायतनं पुण्यं भास्करस्यामितौजसः ॥ ५० ॥

तस्यैवोत्तरदिग्भागे चन्द्रस्थानमनुत्तमम् ।
रमते तत्र रम्यो ऽसौ भगवान् शीतदीधितिः ॥ ५१ ॥

अन्यच्च भवनं दिव्यं हंसशैले महर्षयः ।
सहस्रयोजनायामं सुवर्णमणितोरणम् ॥ ५२ ॥

मूलम्

अन्यच्च भवनं दिव्यं हंसशैले महर्षयः ।
सहस्रयोजनायामं सुवर्णमणितोरणम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

तत्रास्ते भगवान् ब्रह्मा सिद्धसङ्घैरभिष्टुतः ।
सावित्र्या सह विश्वात्मा वासुदेवादिभिर्युतः ॥ ५३ ॥

तस्य दक्षिणदिग्भागे सिद्धानां पुरमुत्तमम् ।
सनन्दनादयो यत्र वसन्ति मुनिपुङ्गवाः ॥ ५४ ॥

पञ्चशैलस्य शिखरे दानवानां पुरत्रयम् ।
नातिदूरेण तस्याथ दैत्यचार्यस्य धीमतः ॥ ५५ ॥

सुगन्धशैलशिखरे सरिद्भिरुपशोभितम् ।
कर्दमस्याश्रमं पुण्यं तत्रास्ते भगवानृषिः ॥ ५६ ॥

तस्यैव पूर्वदिग्भागे किञ्चिद् वै दक्षिणाश्रिते ।
सनत्कुमारो भगवांस्तत्रास्ते ब्रह्मवित्तमः ॥ ५७ ॥

सर्वेष्वेतेषु शैलेषु ततान्येषु मुनीश्वराः ।
सरांसि विमला नद्यो देवानामालयानि च ॥ ५८ ॥

सिद्धलिङ्गानि पुण्यानि मुनिभिः स्थापितानि तु ।
वन्यान्याश्रमवर्याणि सङ्ख्यातुं नैव शक्नुयाम् ॥ ५९ ॥

एष सङ्क्षेपतः प्रोक्तो जम्बूद्वीपस्य विस्तरः ।
न शक्यं विस्तराद् वक्तुं मया वर्षशतैरपि ॥ ६० ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्चत्वारिशो ऽध्यायः