४५

सूत उवाच

विश्वास-प्रस्तुतिः

केतुमाले नराः कालाः सर्वे पनसभोजनाः ।
स्त्रियश्चोत्पलपत्राभा जीवन्ति च वर्षायुतम् ॥ १ ॥

मूलम्

भद्राश्वे पुरुषाः शुक्लाः स्त्रियश्चन्द्रांशुसन्निभाः ।
दश वर्षसहस्राणि जीवन्ते आम्रभोजनाः ॥ २ ॥

रम्यके पुरुषा नार्यो रमन्ते रजतप्रभाः ।
विश्वास-प्रस्तुतिः

दशवर्षसहस्राणि शतानि दश पञ्च च ।
जीवन्ति चैव सत्त्वस्था न्यग्रोधफलभोजनाः ॥ ३ ॥

हिरण्मये हिरण्याभाः सर्वे च लकुचाशनाः ।
विश्वास-प्रस्तुतिः

एकादशसहस्राणि शतानि दश पञ्च च ।
जीवन्ति पुरुषा नार्यो देवलोकस्थिता इव ॥ ४ ॥

त्रयोदशसहस्राणि शतानि दश पञ्च च ।
जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः ॥ ५ ॥

सर्वे मिथुनजाताश्च नित्यं सुखनिषेविनः ।
चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम् ॥ ६ ॥

तथा किम्पुरुषे विप्रा मानवा हेमसन्निभाः ।
दशवर्षहस्त्राणि जीवन्ति प्लक्षभोजनाः ॥ ७ ॥

यजन्ति सततं देवं चतुर्मूर्ति चतुर्मुखम् ।
ध्याने मनः समाधाय सादरं भक्तिसंयुताः ॥ ८ ॥

तथा च हरिवर्षे तु महारजतसन्निभाः ।
दशवर्षसहस्राणि जीवन्तीक्षुरसाशिनः ॥ ९ ॥

मूलम्

तथा च हरिवर्षे तु महारजतसन्निभाः ।
दशवर्षसहस्राणि जीवन्तीक्षुरसाशिनः ॥ ९ ॥

विश्वास-प्रस्तुतिः

तत्र नारायणं देवं विश्वयोनिं सनातनम् ।
उपासते सदा विष्णुं मानवा विष्णुभाविताः ॥ १० ॥

तत्र चन्द्रप्रभं शुभ्रं शुद्धस्फटिकनिर्मितम् ।
विमानं वासुदेवस्य पारिजातवनाश्रितम् ॥ ११ ॥

चतुर्धारमनोपम्यं चतुस्तोरणसंयुतम् ।
प्राकारैर्दशभिर्युक्तं दुराधर्षं सुदुर्गमम् ॥ १२ ॥

स्फाटिकैर्मण्डपैर्युक्तं देवराजगृहोपमम् ।
स्वर्णस्तम्भसहस्रैश्च सर्वतः समलङ्कृतम् ॥ १३ ॥

हेमसोपानसंयुक्तं नानारत्नोपशोभितम् ।
दिव्यसिंहासनोपेतं सर्वशोभासमन्वितम् ॥ १४ ॥

सरोभिः स्वादुपानीयैर्नदीभिश्चोपशोभितम् ।
नारायणपरैः शुद्धैर्वेदाध्ययनतत्परैः ॥ १५ ॥

योगिभिश्च समाकीर्णं ध्यायद्भिः पुरुषं हरिम् ।
स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम् ॥ १६ ॥

तत्र देवादिदेवस्य विष्णोरमिततेजसः ।
राजानः सर्वकालं तु महिमानं प्रकुर्वते ॥ १७ ॥

गायन्ति चैव नृत्यन्ति विलासिन्यो मनोरमाः ।
स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः ॥ १८ ॥

इलावृते पद्मवर्णा जम्बूफलरसाशिनः ।
त्रयोदश सहस्राणि वर्षाणां वै स्थिरायुषः ॥ १९ ॥

भारते तु स्त्रियः पुंसो नानावर्णाः प्रकीर्तिताः ।
विश्वास-प्रस्तुतिः

नानादेवार्चने युक्ता नानाकर्माणि कुर्वते ।
परमायुः स्मृतं तेषां शतं वर्षाणि सुव्रताः ॥ २० ॥

नानाहाराश्च जीवन्ति पुण्यपापनिमित्ततः ।
विश्वास-प्रस्तुतिः

नवयोजनसाहस्त्रं वर्षमेतत् प्रकीर्तितम् ।
कर्मभूमिरियं विप्रा नराणामधिकारिणाम् ॥ २१ ॥

महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ।
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ २२ ॥

इन्द्रद्युम्नः कशेरुमांस्ताम्रवर्णो गभस्तिमान् ।
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ २३ ॥

अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ।
योजनानां सहस्रं तु द्वीपो ऽयं दक्षिणोत्तरः ॥ २४ ॥

पूर्वे किरातास्तस्यान्ते पशिचमे यवनास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्य मध्ये शूद्रास्तथैव च ॥ २५ ॥

इज्यायुद्धवणिज्याभिर्वर्तयन्त्यत्र मानवाः ।
स्त्रवन्ते पावना नद्यः पर्वतेभ्यो विनिः सृताः ॥ २६ ॥

शतद्रुश्चन्द्रभागा च सरयूर्यमुना तथा ।
इरावती वितस्ता च विपाशा देविका कुहूः ॥ २७ ॥

गोमती धूतपापा च बाहुदा च दृषद्वती ।
कौशिकी लोहिता चैव हिमवत्पादनिः सृताः ॥ २८ ॥

वेदस्मृतिर्वेदवती व्रतघ्नी त्रिदिवा तथा ।
पर्णाशा वन्दना चैव सदानीरा मनोरमा ॥ २९ ॥

चर्मण्वती तथा दूर्या विदिशा वेत्रवत्यपि ।
शिग्रुः स्वशिल्पापि तथा पारियात्राश्रयाः स्मृताः ॥ ३० ॥

नर्मदा सुरसा शोण दशार्णा च महानदी ।
मन्दाकिनी चित्रकूटा तामसी च पिशाचिका ॥ ३१ ॥

चित्रोत्पला विपाशा च मञ्जुला वालुवाहिनी ।
ऋक्षवत्पादजा नद्यः सर्वपापहरा नृणाम् ॥ ३२ ॥

तापी पयोष्णी निर्विन्ध्या शीघ्रोदा च महानदी ।
वेण्या वैतरणी चैव बलाका च कुमुद्वती ॥ ३३ ॥

तोया चैव महागैरी दुर्गा चान्तः शिला तथा ।
विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ ३४ ॥

सोदावरी भीमरथी कृष्णा वर्णा च मत्सरी ।
विश्वास-प्रस्तुतिः

तुङ्गभ्द्रा सुप्रयोगा कावेरी च द्विजोत्तमाः ।
दक्षिणापथगा नद्यः सह्यपादविनिः सृताः ॥ ३५ ॥

ऋतुमाला ताम्रपर्णो पुष्पवत्युत्पलावती ।
मलयान्निः सृता नद्यः सर्वाः शीतजलाः स्मृताः ॥ ३६ ॥

ऋषिकुल्या त्रिसामा च मन्दगा मन्दगामिनी ।
विश्वास-प्रस्तुतिः

रूपा पालासिनी चैव ऋषिका वंशकारिणी ।
शुक्तिमत्पादसञ्जाताः सर्वपापहरा नृणाम् ॥ ३७ ॥

आसां नद्युपनद्यश्च शतशो द्विजपुङ्गवाः ।
सर्वपापहराः पुण्याः स्नानदानादिकर्मसु ॥ ३८ ॥

तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः ।
पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ ३९ ॥

पुण्ड्राः कलिङ्गामगधा दाक्षिणात्याश्चकृत्स्नशः ।
तथापरान्ताः सौराष्ट्राः शूद्राभीरास्तथार्ऽबुदाः ॥ ४० ॥

मालका मालवाश्चैव पारियात्रनिवासिनः ।
सौवीराः सैन्धवा हूणा शाल्वाः कल्पनिवासिनः ॥ ४१ ॥

मद्रा रामास्तथाम्बष्ठाः पारसीकास्तथैव च ।
आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥ ४२ ॥

चत्वारि भारते वर्षे युगानि कवयो ऽब्रुवन् ।
कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ ४३ ॥

यानि किम्पुरुषाद्यानि वर्षाण्यष्टौ महर्षयः ।
न तेषु शोको नायासो नोद्वेगः क्षुद्भयं न च ॥ ४४ ॥

स्वस्थाः प्रजा निरातङ्काः सर्वदुः खविवर्जिताः ।
रमन्ति विविधैर्भावैः सर्वाश्च स्थिरयौवनाः ॥ ४५ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चचत्वारिंशो ऽध्यायः