४४

सूत उवाच

विश्वास-प्रस्तुतिः

चतुर्दशसहस्रणि योजनानां महापुरी ।
मेरोरुपरि विख्याता देवदेवस्य वेधसः ॥ १ ॥

मूलम्

तत्रास्ते भगवान् ब्रह्मा विश्वात्मा विश्वभावनः ।
उपास्यमानो योगीन्द्रैर्मुनीन्द्रोपेन्द्रशङ्करैः ॥ २ ॥

तत्र देवेश्वरेशानं विश्वात्मानं प्रजापतिम् ।
सनत्कुमारो भगवानुपास्ते नित्यमेव हि ॥ ३ ॥

स सिद्धैरृषिगन्धर्वैः पूज्यमानः सुरैरपि ।
समास्ते योगयुक्तत्मा पीत्वा तत्परमामृतम् ॥ ४ ॥

तत्र देवादिदेवस्य शम्भोरमिततेजसः ।
दीप्तमायतनं शुभ्रं पुरस्ताद् ब्रह्मणः स्थितम् ॥ ५ ॥

दिव्यकान्तिसमायुक्तं चतुर्धारं सुशोभनम् ।
महर्षिगणसङ्कीर्णं ब्रह्मविद्भिर्निषेवितम् ॥ ६ ॥

देव्या सह महादेवः शशाङ्कार्काग्निलोचनः ।
रमते तत्र विश्वेशः प्रमथैः प्रमथेश्वरः ॥ ७ ॥

तत्र वेदविदः शान्ता मुनयो ब्रह्मचारिणः ।
पूजयन्ति महादेवं तापसाः सत्यवादिनः ॥ ८ ॥

तेषां साक्षान्महादेवो मुनीनां ब्रह्मवादिनाम् ।
गृह्णाति पूजां शिरसा पार्वत्या परमेश्वरः ॥ ९ ॥

तत्रैव पर्वतवरे शक्रस्य परमा पुरी ।
नाम्नामरावती पूर्वे सर्वशोभासमन्विता ॥ १० ॥

तमिन्द्रमप्सरः सङ्घा गन्धर्वा गीततत्पराः ।
उपासते सहस्राक्षं देवास्तत्र सहस्रशः ॥ ११ ॥

ये धार्मिका वेदविदो यागहोमपरायणाः ।
तेषां तत् परमं स्थानं देवानामपि दुर्लभम् ॥ १२ ॥

तस्य दक्षिणदिग्भागे वह्नेरमिततेजसः ।
तेजोवती नाम पुरी दिव्याश्चर्यसमन्विता ॥ १३ ॥

तत्रास्ते भगवान् वह्निर्भ्राजमानः स्वतेजसा ।
जपिनां होमिनां स्थानं दानवानां दुरासदम् ॥ १४ ॥

दक्षिणे पर्वतवरे यमस्यापि महापुरी ।
नाम्ना संयमनी दिव्या सिद्धगन्धर्वसेविता ॥ १५ ॥

तत्र वैवस्वतं देवं देवाद्याः पर्युपासते ।
स्थानं तत् सत्यसन्धानां लोके पुण्यकृतां नृणाम् ॥ १६ ॥

तस्यास्तु पश्चिमे भागे निरृतेस्तु महात्मनः ।
रक्षोवती नाम पुरी राक्षसैः सर्वतो वृता ॥ १७ ॥

तत्र तं निरृतिं देवं राक्षसाः पर्युपासते ।
गच्छन्ति तां धर्मरता ये वै तामसवृत्तयः ॥ १८ ॥

पश्चिमे पर्वतवरे वरुणस्य महापुरी ।
नाम्ना सुद्धवती पुण्या सर्वकामर्धिसंयुता ॥ १९ ॥

तत्राप्सरोगणैः सिद्धैः सेव्यमानो ऽमराधिपः ।
विश्वास-प्रस्तुतिः

आस्ते स वरुणो राजा तत्र गच्छन्ति ये ऽम्बुदाः ।
तीर्थयात्रापरी नित्यं ये च लोके ऽधमर्षिणः ॥ २० ॥

तस्या उत्तरदिग्भागे वायोरपि महापुरी ।
नाम्ना गन्धवती पुण्या तत्रास्ते ऽसौ प्रभञ्जनः ॥ २१ ॥

अप्सरोगणगन्धर्वैः सेव्यमानो ऽमरप्रभुः ।
प्राणायामपरामर्त्यास्थानन्तद्यान्ति शाश्वतम् ॥ २२ ॥

तस्याः पूर्वेण दिग्भागे सोमस्य परमा पुरी ।
नाम्ना कान्तिमती शुभ्रा तत्र सोमो विराजते ॥ २३ ॥

तत्र ये भोगनिरता स्वधर्मं पुर्यपासते ।
तेषां तद् रचितं स्थानं नानाभोगसमन्वितम् ॥ २४ ॥

तस्याश्च पूर्वदिग्भागे शङ्करस्य महापुरी ।
नाम्ना यशोवती पुण्या सर्वेषां सुदुरासदा ॥ २५ ॥

तत्रेशानस्य भवनं रुद्रविष्णुतनोः शुभम् ।
घमेश्वरस्य विपुलं तत्रास्ते स गणैर्वृतः ॥ २६ ॥

तत्र भोगाभिलिप्सूनां भक्तानां परमेष्ठिनः ।
निवासः कल्पितः पूर्वं देवदेवेन शूलिना ॥ २७ ॥

विष्णुपादाद् विनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् ।
समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै दिवः ॥ २८ ॥

सा तत्र पतिता दिक्षु चतुर्धा ह्यभवद् द्विजाः ।
सीता चालकनन्दा च सुचक्षुर्भद्रनामिका ॥ २९ ॥

पूर्वेण सीता शैलात् तु शैलं यात्यन्तरिक्षतः ।
ततश्च पूर्ववर्षेण भद्राश्वेनैति चार्णवम् ॥ ३० ॥

तथैवालकनन्दा च दक्षिणादेत्य भारतम् ।
प्रयाति सागरं भित्त्वा सप्तभेदा द्विजोत्तमाः ॥ ३१ ॥

सुचक्षुः पश्चिमगिरीनतीत्य सकलांस्तथा ।
पश्चिमं केतुमालाख्यं वर्षं गत्वैति चार्णवम् ॥ ३२ ॥

भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ।
अतीत्य चोत्तराम्भोधिं समभ्येति महर्षयः ॥ ३३ ॥

आनीलनिषधायामौ माल्यवान् गन्धमादनः ।
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ ३४ ॥

भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ।
पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥ ३५ ॥

जठरो देवकूटश्च मर्यादापर्वतावुभौ ।
दक्षिणोत्तरमायामावानीलनिषधायतौ ॥ ३६ ॥

मूलम्

जठरो देवकूटश्च मर्यादापर्वतावुभौ ।
दक्षिणोत्तरमायामावानीलनिषधायतौ ॥ ३६ ॥

विश्वास-प्रस्तुतिः

गन्धमादनकैलासौ पूर्वपश्चायतावुभौ ।
अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ॥ ३७ ॥

निषधः पारियात्रश्च मर्यादापर्वताविमौ ।
मेरोः पश्चिमदिग्भागे यथापूर्वौ तथा स्थितौ ॥ ३८ ॥

त्रिशृङ्गो जारुधैस्तद्वदुत्तरे वर्षपर्वतौ ।
पूर्वपश्चायतावेतौ अर्णवान्तर्व्यवस्थितौ ॥ ३९ ॥

मर्यादापर्वताः प्रोक्ता अष्टाविह मया द्विजाः ।
जठराद्याः स्थिता मेरोश्चतुर्दिक्षु महर्षयः ॥ ४० ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुश्चत्वारिंशो ऽध्यायः