४३

सूत उवाच

विश्वास-प्रस्तुतिः

एतद् ब्रह्माण्डमाख्यातं चतुर्दशविधं महत् ।
अतः परं प्रवक्ष्यामि भूर्लोकस्यास्य निर्णयम् ॥ १ ॥

मूलम्

जम्बुद्वीपः प्रधानो ऽयं प्लक्षः शाल्मल एव च ।
कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः ॥ २ ॥

एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः ।
द्वीपाद् द्वीपो महानुक्तः सागरादपि सागरः ॥ ३ ॥

क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदकः ।
दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः ॥ ४ ॥

पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता ।
द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः ॥ ५ ॥

जम्बूद्वीपः समस्तानां द्वीपानां मध्यतः शुभः ।
तस्य मध्ये महामेरुर्विश्रुतः कनकप्रभः ॥ ६ ॥

चतुरशीतिसाहस्त्रो योजनैस्तस्य चोच्छ्रयः ।
प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ ७ ॥

मूले षोडशसाहस्त्रो विस्तारस्तस्य सर्वतः ।
भूपद्मास्यास्य शैलो ऽसौ कर्णिकात्वेन संस्थितः ॥ ८ ॥

हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ।
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ ९ ॥

लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथा परे ।
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ १० ॥

भारतं दक्षिणं वर्षं ततः किम्पुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥ ११ ॥

रम्यकं चोत्तरं वर्षं तस्यैवानुहिरण्मयम् ।
उत्तराः कुरवश्चैव यथैते भरतास्तथा ॥ १२ ॥

नवसाहस्त्रमेकैकमेतेषां द्विजसत्तमाः ।
इलावृतं च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ॥ १३ ॥

मेरोश्चतुर्दिशं तत्र नवसाहस्त्रविस्तृतम् ।
विश्वास-प्रस्तुतिः

इलावृतं महाभागाश्चात्वारस्तत्र पर्वताः ।
विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः ॥ १४ ॥

पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ।
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥ १५ ॥

कदम्बस्तेषु जम्बुश्च पिप्पलो वट एव च ।
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महर्षयः ॥ १६ ॥

महागजप्रमाणानि जम्ब्वास्तस्याः फलानि च ।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १७ ॥

रसेन तस्याः प्रख्याता तत्र जम्बूनदीति वै ।
सरित् प्रवर्तते चापि पीयते तत्र वासिभिः ॥ १८ ॥

न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ।
तत्पानात् सुस्थमनसां नराणां तत्र जायते ॥ १९ ॥

तीरमृत्तत्र सम्प्राप्य वायुना सुविशोषिता ।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ २० ॥

भद्राश्वः पूर्वतो मेरोः केतुमालश्च पश्चिमे ।
वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये इलावृतम् ॥ २१ ॥

वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् ।
वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम् ॥ २२ ॥

अरुणोदं महाभद्रमसितोदं च मानसम् ।
सरांस्येतानि चत्वारि देवयोग्यानि सर्वदा ॥ २३ ॥

सितान्तश्च कुमुद्वांश्च कुरुरी माल्यवांस्तथा ।
वैकङ्को मणिशैलश्च ऋक्षवांश्चाचलोत्तमाः ॥ २४ ॥

महानीलो ऽथ रुचकः सबिन्दुर्मन्दरस्तथा ।
विश्वास-प्रस्तुतिः

वेणुमांश्चैव मेघश्च निषधो देवपर्वतः ।
इत्येते देवरचिताः सिद्धावासाः प्रकीर्तिताः ॥ २५ ॥

अरुणोदस्य सरसः पूर्वतः केसराचलः ।
त्रिकूटशिखरश्चैव पतङ्गो रुचकस्तथा ॥ २६ ॥

निषधो वसुधारश्च कलिङ्गस्त्रिशिखः शुभः ।
समूलो वसुधारश्च कुरवश्चैव सानुमान् ॥ २७ ॥

ताम्रातश्च विशालश्च कुमुदो वेणुर्वतः ।
एकशृङ्गो महाशैलो गजशैलः पिशाचकः ॥ २८ ॥

मूलम्

ताम्रातश्च विशालश्च कुमुदो वेणुर्वतः ।
एकशृङ्गो महाशैलो गजशैलः पिशाचकः ॥ २८ ॥

विश्वास-प्रस्तुतिः

पञ्चशैलो ऽथ कैलासो हिमवांशचाचलोत्तमः ।
इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ॥ २९ ॥

महाभद्रस्य सरसो दक्षिणे केसराचलः ।
शिखिवासश्च वैदूर्यः कपिलो गन्धमादनः ॥ ३० ॥

जारुधिश्च सुगन्धिश्च श्रीशृङ्गश्चाचलोत्तमः ।
सुपार्श्वश्च सुपक्षश्च कङ्कः कपिल एव च ॥ ३१ ॥

पिञ्जरो भद्रशैलश्च सुरसश्च महाबलः ।
अञ्जनो मधुमांस्तद्वत् कुमुदो मुकुटस्तथा ॥ ३२ ॥

सहस्रशिखरश्चैव पाण्डुरः कृष्ण एव च ।
पारिजातो महाशैलस्तथैव कपिलोदकः ॥ ३३ ॥

मूलम्

सहस्रशिखरश्चैव पाण्डुरः कृष्ण एव च ।
पारिजातो महाशैलस्तथैव कपिलोदकः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

सुषेणः पुण्डरीकश्च महामेघस्तथैव च ।
एते पर्वतराजानः सिद्धगन्धर्वसेविताः ॥ ३४ ॥

असितोदस्य सरसः पश्चिमे केसराचलः ।
शङ्खकूटो ऽथ वृषभो हंसो नागस्तथा परः ॥ ३५ ॥

कालाञ्जनः शुक्रशैलो नीलः कमल एव च ।
विश्वास-प्रस्तुतिः

पुष्पकश्च सुमेघश्च वाराहो विरजास्तथा ।
मयूरः कपिलश्चैव महाकपिल एव च ॥ ३६ ॥

मूलम्

पुष्पकश्च सुमेघश्च वाराहो विरजास्तथा ।
मयूरः कपिलश्चैव महाकपिल एव च ॥ ३६ ॥

विश्वास-प्रस्तुतिः

इत्येते देवगन्धर्वसिद्धसङ्घनिषेविताः ।
सरसो मानसस्येह उत्तरे केसराचलाः ॥ ३७ ॥

मूलम्

इत्येते देवगन्धर्वसिद्धसङ्घनिषेविताः ।
सरसो मानसस्येह उत्तरे केसराचलाः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् ।
सन्ति चैवान्तरद्रोण्यः सरांसि च वनानि च ॥ ३८ ॥

वसन्ति तत्र मुनयः सिद्धाश्च ब्रह्मभाविताः ।
प्रसन्नाः शान्तरजसः सर्वदुः खविवर्जिताः ॥ ३९ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां सहितायां पूर्वविभागे त्रिचत्वारिशो ऽध्यायः