४२

सूत उवाच

विश्वास-प्रस्तुतिः

ध्रुवादूर्ध्वं महर्लोकः कोटियोजनविस्तृतः ।
कल्पाधिकारिणस्तत्र संस्थिता द्विजपुङ्गवाः ॥ १ ॥

मूलम्

जनलोको महर्लोकात् तथा कोटिद्वयातमकः ।
सनन्दनादयस्तत्र संस्थिता ब्रह्मणः सुताः ॥ २ ॥

जलोकात् तपोलोकः कोटित्रयसमन्वितः ।
वैराजास्तत्र वै देवाः स्थिता दाहविवर्जिताः ॥ ३ ॥

प्राजापत्यात् सत्यलोकः कोटिषट्केन संयुतः ।
अपुनर्मारकास्तत्र ब्रह्मलोकस्तु स स्मृतः ॥ ४ ॥

अत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वतोमुखः ।
आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम् ॥ ५ ॥

विशन्ति यतयः शान्ता नैष्ठिका ब्रह्मचारिणः ।
योगिनस्तापसाः सिद्धा जापकाः परमेष्ठिनम् ॥ ६ ॥

द्वारं तद्योगिनामेकं गच्छतां परमं पदम् ।
तत्र गत्वा न शोचन्ति स विष्णुः स च शङ्करः ॥ ७ ॥

सूर्यकोटिप्रतीकाशं पुरं तस्य दुरासदम् ।
न मे वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥ ८ ॥

तत्र नारायणस्यापि भवनं ब्रह्मणः पुरे ।
शेते तत्र हरिः श्रीमान् मायी मायामयः परः ॥ ९ ॥

स विष्णुलोकः कथितः पुनरावृत्तिवर्जितः ।
यान्ति तत्र महात्मानो ये प्रपन्ना जनार्दनम् ॥ १० ॥

ऊर्ध्वं तद् ब्रह्मसदनात् पुरं ज्योतिर्मयं शुभम् ।
वह्निना च परिक्षिप्तं तत्रास्ते भगवान् भवः ॥ ११ ॥

देव्या सह महादेवश्चिन्त्यमानो मनीषिभिः ।
योगिभिः शतसाहस्त्रैर्भूतै रुद्रैश्च संवृतः ॥ १२ ॥

तत्र ते यान्ति नियता द्विजा वै ब्रह्मचारिणः ।
मदादेवपराः शान्तास्तापसा ब्रह्मवादिनः ॥ १३ ॥

निर्ममा निरहङ्काराः कामक्रोधविवर्जिताः ।
द्रक्ष्यन्ति ब्रह्मणा युक्ता रुद्रलोकः स वै स्मृतः ॥ १४ ॥

एते सप्त महालोकाः पृथिव्याः परिकीर्तिताः ।
महातलादयश्चाधः पातालाः सन्ति वै द्विजाः ॥ १५ ॥

महातलं च पातालं सर्वरत्नोपशोभितम् ।
प्रासादैर्विविधैः शुभ्रैर्देवतायतनैर्युतम् ॥ १६ ॥

अनन्तेन च संयुक्तं मुचुकुन्देन धीमता ।
नृपेण बलिना चैव पातालस्वर्गवासिना ॥ १७ ॥

शैलं रसातलं विप्राः शार्करं हि तलातलम् ।
विश्वास-प्रस्तुतिः

पीतं सुतलमित्युक्तं नितलं विद्रुमप्रभम् ।
सितं हि वितलं प्रोक्तं तलं चैव सितेतरम् ॥ १८ ॥

सुपर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम् ।
रसातलमिति ख्यातं तथान्यैश्च निषेवितम् ॥ १९ ॥

विरोचनहिरण्याक्षतक्षकाद्यैश्च सेवितम् ।
तलातलमिति ख्यातं सर्वशोभासमन्वितम् ॥ २० ॥

वैनतेयादिभिश्चैव कालनेमिपुरोगमैः ।
पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः ॥ २१ ॥

नितलं यवनाद्यैश्च तारकाग्निमुखैस्तथा ।
महान्तकाद्यैर्नागैश्च प्रह्मादेनासुरेण च ॥ २२ ॥

वितलं चैव विख्यातं कम्बलाहीन्द्रसेवितम् ।
महाजम्भेन वीरेण हयग्रीवेण वै तथा ॥ २३ ॥

शङ्कुकर्णेन सम्भिन्नं तथा नमुचिपूर्वकैः ।
तथान्यैर्विवधैर्नागैस्तलं चैव सुशोभनम् ॥ २४ ॥

तेषामधस्तान्नरका मायाद्याः परिकीर्तिताः ।
पापिनस्तेषु पच्यन्ते न ते वर्णयितुं क्षमाः ॥ २५ ॥

पातालानामधश्चास्ते शेषाख्या वैष्णवी तनुः ।
कालाग्निरुद्रो योगात्मा नारसिंहो ऽपि माधवः ॥ २६ ॥

यो ऽनन्तः पठ्येते देवो नागरूपी जनार्दनः ।
तदाधारमिदं सर्वं स कालाग्निमपाश्रितः ॥ २७ ॥

तमाविश्य महायोगी कालस्तद्वदनोत्थितः ।
विषज्वालामयो ऽन्ते ऽसौ जगत् संहरति स्वयम् ॥ २८ ॥

सहस्रमायो ऽप्रतिमः संहर्ता शङ्करोद्भवः ।
तामसी शाम्भवी मूर्तिः कालो लोकप्रकालनः ॥ २९ ॥

इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्विचत्वारिंशो ऽध्यायः