सूत उवाच
विश्वास-प्रस्तुतिः
एवमेष महादेवो देवदेवः पितामहः ।
करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः ॥ १ ॥
मूलम्

तस्य ये रश्मयो विप्राः सर्वलोकप्रदीपकाः ।
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥ २ ॥

सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च ।
विश्वव्यचाः पुनश्चान्यः संयद्वसुरतः परः ॥ ३ ॥

अर्वावसुरिति ख्यातः स्वराडन्यः प्रकीर्तितः ।
सुपुम्नः सूर्यरश्मिस्तु पुष्णाति शिशिरद्युतिम् ॥ ४ ॥

तिर्यगूर्ध्वप्रचारो ऽसौ सुषुम्नः परिपठ्यते ।
हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ॥ ५ ॥

विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति सर्वदा ।
विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा ॥ ६ ॥

वृहस्पतिं प्रपुष्णाति रश्मिरर्वावसुः प्रभोः ।
शनैश्चरं प्रपुष्णाति सप्तमस्तु सुराट् तथा ॥ ७ ॥

एवं सूर्यप्रभावेन सर्वा नक्षत्रतारकाः ।
वर्धन्ते वर्धिता नित्यं नित्यमाप्याययन्ति च ॥ ८ ॥

दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः ।
आदानान्नित्यमादित्यस्तेजसां तमसां प्रभुः ॥ ९ ॥

नादेयांश्चैव सामुद्रान् कूप्यांश्चैव सहस्रदृक् ।
स्थावराञ्जङ्गमांश्चैव यच्च कुल्यादिकं पयः ॥ १० ॥

तस्य रश्मिसहस्रं तच्छीतवर्षोष्णनिस्त्रवम् ।
तासां चतुः शतं नाड्यो वर्षन्ते चित्रमूर्तयः ॥ ११ ॥

वन्दनाश्चैव याज्याश्च केतना भूतनास्तथा ।
अमृता नाम ताः सर्वा रश्मयो वृष्टिसर्जनाः ॥ १२ ॥

रश्म्यो मेष्यश्च पौष्यश्च ह्लादिन्यो हिमसर्जनाः ।
चन्द्रास्ता नामतः सर्वाः पीताभाः स्युर्गभस्तयः ॥ १३ ॥

शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा ।
शुक्रास्ता नामतः सर्वास्त्रिविधा घर्मसर्जनाः ॥ १४ ॥

मनुष्यानौषधेनेह स्वधया च पितॄनपि ।
अमृतेन सुरान् सर्वांस्त्रिभिस्त्ररिंस्तर्पयत्यसौ ॥ १५ ॥

शरद्यपि च वर्षासु चतुर्भैः सम्प्रवर्षति ।
हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ॥ १६ ॥

वरुणो माघमासे तु सूर्यः पूषा तु फल्गुने ।
चैत्रे मासि भवेदंशो धाता वैशाखतापनः ॥ १७ ॥

ज्येष्ठामूले भवेदिन्द्रः आषाढे सविता रविः ।
विवस्वान् श्रावणे मासि प्रौष्ठपद्यां भगः स्मृतः ॥ १८ ॥

पर्जन्यो ऽश्वयुजि त्वष्टाकार्तिके मासि भास्करः ।
मार्गशीर्ष भवेन्मित्रः पौषे विष्णुः सनातनः ॥ १९ ॥

पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि ।
षड्भिः सहस्रैः पूषा तु देवोंशः सप्तभिस्तथा ॥ २० ॥

धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ।
विवस्वान् दशभिः पाति पात्येकादशभिर्भगः ॥ २१ ॥

अर्यमा दशभैः पाति पर्जन्यो नवभिस्तपेत् ।
षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति विश्वसृक् ॥ २२ ॥

श्वेतो वर्षासु वर्णेन पाण्डुरः शरदि प्रभुः ।
हेमन्ते ताम्रवर्णः स्याच्छिशिरे लोहितो रविः ॥ २३ ॥

ओषधीषु बलं धत्ते स्वधामपि पितृष्वथ ।
सूर्यो ऽमरत्वममृते त्रयं त्रिषु नियच्छति ॥ २४ ॥

चन्द्रमाः सोमपुत्रश्च शुक्रश्चैव बृहस्पतिः ।
भौमो मन्दस्तथा राहुः केतुमानपि चाष्टमः ॥ २५ ॥

सर्वे ध्रुवे निबद्धा वै ग्रहास्ते वातरश्मिभिः ।
भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम् ॥ २६ ॥

अलातचक्रवद् यान्ति वातचक्रेरिता द्विजाः ।
यस्माद् वहति तान् वायुः प्रवहस्तेन स स्मृतः ॥ २७ ॥

रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।
वामदक्षिणतो युक्ता दश तेन निशाकरः ॥ २८ ॥

वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा ।
ह्रासवृद्धी च विप्रेन्द्रा ध्रुवाधाराणि सर्वदा ॥ २९ ॥

स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते ।
आपूर्यते परस्यान्तः सततं दिवसक्रमात् ॥ ३० ॥

क्षीणायितं सुरैः सोममाप्यायति नित्यदा ।
एकेन रश्मिना विप्राः सुषुम्नाख्येन भास्करः ॥ ३१ ॥

एषा सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः ।
पौर्णमास्यां स दृश्येत सम्पूर्णे दिवसक्रमात् ॥ ३२ ॥

सम्पूर्णमर्धमासेन तं सोमममृतात्मकम् ।
पिबन्ति देवता विप्रा यतस्ते ऽमृतभोजनाः ॥ ३३ ॥

ततः पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके ।
अपराह्णे पितृगणा जघन्यं पर्युपासते ॥ ३४ ॥

पिबन्ति द्विकलं कालं शिष्टा तस्य कला तुया ।
सुधामृतमयीं पुण्यां तामन्दोरमृतात्मिकाम् ॥ ३५ ॥

निः सृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् ।
मासतृप्तिमपाप्यग्र्यां पितरः सन्ति निर्वृताः ॥ ३६ ॥

न सोमस्य विनाशः स्यात् सुधा देवैस्तु पीयते ।
एवं सूर्यनिमित्तस्य क्षयो वृद्धिश्च सत्तमाः ॥ ३७ ॥

सोमपुत्रस्य चाष्टाभिर्वाजिभिर्वायुवेगिभिः ।
वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्वतः ॥ ३८ ॥

शुक्रस्य भूमिजैरश्वैः स्यन्दनो दशभिर्वृतः ।
अष्टबिश्चाथ भौमस्य रथो हैमः सुशोभनः ॥ ३९ ॥

रथस्तमोमयो ऽष्टाश्वो मन्दस्यायसनिर्मितः ।
स्वर्भानोर्भास्करारेश्च तथा षड्भिर्हयैर्वृतः ॥ ४० ॥

एते महाग्रहाणां वै समाख्याता रथा नव ।
सर्वे ध्रुवे महाभागा निबद्धा वातरश्मिभिः ॥ ४१ ॥

ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्येशेषतः ।
भ्रमन्ति भ्रामयन्त्येनं सर्वाण्यनिलरश्मिभिः ॥ ४२ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकचत्वारिंशो ऽध्यायः