सूत उवाच
विश्वास-प्रस्तुतिः
स रथो ऽधिष्ठितो देवैरादित्यैर्वसुभिस्तथा ।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ १ ॥
मूलम्

धातार्ऽयमाथ मित्रश्च वरुणः शक्र एव च ।
विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥ २ ॥

भगस्त्वष्टा च विष्णुश्च द्वादशैते दिवाकराः ।
आप्यायन्ति वै भानुं वसन्तादिषु वै क्रमात् ॥ ३ ॥

पुलस्त्यः पुलहश्चात्रिर्वसिष्ठश्चाङ्गिरा भृगुः ।
भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥ ४ ॥

जमदग्निः कौशिकश्च मुनयो ब्रह्मवादिनः ।
स्तुवन्ति देवं विविधैश्छन्दोभिस्ते यथाक्रमम् ॥ ५ ॥

रथकृच्च रथौज्श्च रथचित्रः सुबाहुकः ।
रथस्वनो ऽथ वरुणः सुषेणः सेनजित् तथा ॥ ६ ॥

तार्क्ष्यश्चारिष्टनेमिश्च रथजित् सत्यजित् तथा ।
ग्रामण्यो देवदेवस्य कुर्वते ऽभीशुसङ्ग्रहम् ॥ ७ ॥

अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा ।
सर्पो व्याघ्रस्तथापश्च वातो विद्युद् दिवाकरः ॥ ८ ॥

ब्रह्मोपेतश्च विप्रेन्द्रा यज्ञोपेतस्तथैव च ।
राक्षसप्रवरा ह्येते प्रयान्ति पुरतः क्रमात् ॥ ९ ॥

वासुकिः कङ्कनीरश्च तक्षकः सर्पपुङ्गवः ।
एलापत्रः शङ्खपालस्तथैरावतसञ्ज्ञितः ॥ १० ॥

धनञ्जयो महापद्मस्तथा कर्कोटको द्विजाः ।
कम्बलाश्वतरश्चैव वहन्त्येनं यथाक्रमम् ॥ ११ ॥

तुम्बुरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा ।
उग्रसेनो वसुरुचिरर्वावसुरथापरः ॥ १२ ॥

सूर्यवर्चा द्वादशैते गन्धर्वा गायतां वराः ।
गायन्ति विविधैर्गानैर्भानुं षड्जादिभिः क्रमात् ॥ १३ ॥

क्रतुस्थलाप्सरोवर्या तथान्या पुञ्जिकस्थला ।
मेनका सहजन्या च प्रम्लोचा च द्विजोत्तमाः ॥ १४ ॥

अनुम्लोचा घृतीची च विश्वाची चोर्वशी तथा ।
अन्या च पूर्वचित्तिः स्यादन्या चैव तिलोत्तमा ॥ १५ ॥

ताण्डवैर्विविधैरेनं वसन्तादिषु वै क्रमात् ।
तोषयन्ति महादेवं भानुमात्मानमव्ययम् ॥ १६ ॥

एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु ।
सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् ॥ १७ ॥

ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम् ।
गन्धर्वाप्सरसश्चैनं नृत्यगेयैरुपासते ॥ १८ ॥

ग्रामणीयक्षभूतानि कुर्वते ऽभीषुसङ्ग्रहम् ।
सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति च ॥ १९ ॥

एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च ।
भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः ॥ २० ॥

एते सहैव सूर्येण भ्रमन्ति दिवि सानुगाः ।
विमाने च स्थितो नित्यं कामगे वातरंहसि ॥ २१ ॥

वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः ।
गोपयन्तीह भूतानि सर्वाणीहायुगक्षयात् ॥ २२ ॥

एतेषामेव देवानां यथावीर्यं यथातपः ।
यथायोगं यथासत्त्वं स एष तपति प्रभुः ॥ २३ ॥

अहोरात्रव्यवस्थानकारणं स प्रजापतिः ।
पितृदेवमनुष्यादीन् स सदाप्यायेद् रविः ॥ २४ ॥

तत्र देवो महादेवो भास्वान् साक्षान्महेश्वरः ।
भासते वेदविदुषां नीलग्रीवः सनातनः ॥ २५ ॥

स एष देवो भगवान् परमेष्ठी प्रजापतिः ।
स्थानं तद् विदुरादित्यं वेदज्ञा वेदविग्रहम् ॥ २६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चत्वारिशो ऽध्यायः