३९

सूत उवाच

विश्वास-प्रस्तुतिः

अतः परं प्रवक्ष्यामि सङ्क्षेपेण द्विजोत्तमाः ।
त्रैलोक्यस्यास्य मानं वो न शक्यं विस्तरेण तु ॥ १ ॥

मूलम्

भूर्लोको ऽथ भुवर्लोकः स्वर्लोको ऽथ महस्ततः ।
जनस्तपश्च सत्यं च लोकास्त्वण्डोद्भवा मताः ॥ २ ॥

सूर्याचन्द्रमसोर्यावत् किरणैरवभासते ।
तावद् भूर्लोक आख्यातः पुराणे द्विजपुङ्गवाः ॥ ३ ॥

यावत्प्रमाणो भूर्लोको विस्तरात् परिमण्डलात् ।
भुवर्लोको ऽपि तावान्स्यान्मण्डलाद् भास्करस्य तु ॥ ४ ॥

ऊर्ध्वंयन्मण्डलाद् व्योमध्रुवोयावद्व्यवस्थितः ।
स्वर्लोकः स समाख्यातस्तत्र वायोस्तु नेमयः ॥ ५ ॥

आवहः प्रवहश्चैव तथैवानुवहः परः ।
संवहो विवहश्चाथ तदूर्ध्वं स्यात् परावहः ॥ ६ ॥

तथा परिवहश्चोर्ध्वं वायोर्वै सप्त नेमयः ।
भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् ॥ ७ ॥

लक्षे दिवाकरस्यापि मण्डलं शशिनः स्मृतम् ।
नक्षत्रमण्डलं कृत्स्नं तल्लक्षेण प्रकाशते ॥ ८ ॥

द्वेलक्षे ह्युत्तरे विप्रा बुधो नक्षत्रमण्डलात् ।
तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ ९ ॥

अङ्गारको ऽपि शुक्रस्य तत्प्रमाणो व्यवस्थितः ।
लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ १० ॥

सौरिर्द्विलक्षेण गुरोर् ग्रहाणामथ मण्डलम् ।
सप्तर्षिमण्डलं तस्माल्लक्षमात्रे प्रिकाशते ॥ ११ ॥

ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रुवः ।
विश्वास-प्रस्तुतिः

मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ।
तत्र धर्मः स भगवान् विष्णुर्नारायणः स्थितः ॥ १२ ॥

नवयोजनसाहस्त्रो विष्कम्भः सवितुः स्मृतः ।
त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥ १३ ॥

द्विगुणस्तस्य विस्ताराद् विस्तारः शशिनः स्मृतः ।
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात् प्रसर्पति ॥ १४ ॥

अद्धृत्य पृथिवीच्छायां निर्मितो मण्डलाकृतिः ।
स्वर्भानोस्तु वृहत् स्थानं तृतीयं यत् तमोमयम् ॥ १५ ॥

चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते ।
भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः ॥ १६ ॥

बृहस्पतेः पादहीनौ वक्रसौरावुभौ स्मृतौ ।
विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥ १७ ॥

तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै ।
बुधेन तानि तुल्यानि विस्तारान्मण्डलात् तथा ॥ १८ ॥

तारानक्षत्ररूपाणि हीनानि तु परस्परात् ।
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने ॥ १९ ॥

सर्वावरनिकृष्टानि तारकामण्डलानि तु ।
योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ २० ॥

उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः ।
सौरो ऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ २१ ॥

तेभ्यो ऽधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः ।
सूर्यः सौमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ २२ ॥

दक्षिणायनमार्गस्थो यदा चरति रश्मिमान् ।
तदा सर्वग्रहाणां स सूर्यो ऽधस्तात् प्रसर्पति ॥ २३ ॥

विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी ।
नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ २४ ॥

नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः ।
वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः ॥ २५ ॥

तस्माच्छनैश्चरो ऽपुयूर्ध्वं तस्मात् सप्तर्षिमण्डलम् ।
ऋषीणां चैव सप्तानान्ध्रु वश्चोर्ध्वं व्यवस्थितः ॥ २६ ॥

योजनानां सहस्राणि भास्करस्य रथो नव ।
ईषादण्डस्तथैव स्याद् द्विगुणो द्विजसत्तमाः ॥ २७ ॥

सार्धकोटिस्तथा सप्त नियुतान्यधिकानि तु ।
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥ २८ ॥

त्रिनाभिमति पञ्चारे षष्णेमिन्यक्षयात्मके ।
संवत्सरमेय कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥ २९ ॥

चत्कारिंशत् सहस्राणि द्वितीयो ऽक्षो विवस्वतः ।
पञ्चान्यानि तु सार्धानि स्यन्दनस्य द्विजोत्तमाः ॥ ३० ॥

अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयोः ।
ह्रस्वो ऽक्षस्तद्युगार्धेन ध्रुवाधारे रथस्य तु ॥ ३१ ॥

द्वितीये ऽक्षे तु तच्चक्रं संस्थितं मानसाचले ।
हयाश्च सप्त छन्दांसि तन्नामानि निबोधत ॥ ३२ ॥

गायत्री च बृहत्युष्णिक् जगती पङ्क्तिरेव च ।
अनष्टुप् त्रिष्टुबित्युक्ताश्छन्दांसि हरयो हरेः ॥ ३३ ॥

मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी ।
दक्षिणे न यमस्याथ वरुणस्य तु पश्चिमे ॥ ३४ ॥

उत्तरेण तु सोमस्य तन्नामानि निबोधत ।
अमरावती संयमनी सुखा चैव विभा क्रमात् ॥ ३५ ॥

काष्ठां गतो दक्षिणतः क्षिप्तेषुरिव सर्पति ।
ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः ॥ ३६ ॥

दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितः ।
सप्तद्वीपेषु विप्रेन्द्रा निशामध्यस्य सम्मुखम् ॥ ३७ ॥

उदयास्तमने चैव सर्वकालं तु सम्मुखे ।
अशेषासु दिशास्वेव तथैव विदिशासु च ॥ ३८ ॥

कुलालचक्रपर्यन्तो भ्रमन्नेष यथेश्वरः ।
करोत्यहस्तथा रात्रिं विमुञ्चन् मेदिनीं द्विजाः ॥ ३९ ॥

दिवाकरकरैरेतत् पूरितं भुवनत्रयम् ।
त्रैलोक्यं कथितं सद्भिर्लोकानां मुनिपुङ्गवाः ॥ ४० ॥

आदित्यमूलमखिलं त्रिलोकं नात्र संशयः ।
भवत्यस्मात् जगत् कृत्स्नं सदेवासुरमानुषम् ॥ ४१ ॥

रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राणां दिवौकसाम् ।
द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ॥ ४२ ॥

सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ।
सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ ४३ ॥

द्वादशान्ये तथादित्या देवास्ते ये ऽधिकारिणः ।
निर्वहन्ति पदं तस्य तदंशा विष्णुमूर्तयः ॥ ४४ ॥

सर्वे नमस्यन्ति सहस्रभानुं गन्धर्वदेवोरगकिन्वन्नराद्याः । यजन्ति यज्ञैर्विविधैर्द्विजेन्द्रा- श्छन्दोमयं ब्रह्ममयं पुराणम् ॥ ४५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितार्या पूर्वविभागे एकोनचत्वारिंशो ऽध्यायः