श्रीकूर्म उवाच
विश्वास-प्रस्तुतिः
एवमुक्तास्तु मुनयो नैमिषीया महामतिम् ।
पप्रच्छुरुत्तरं सूतं पृथिव्यादिविनिर्णयम् ॥ १ ॥
मूलम्

कथितो भवता सूत सर्गः स्वयम्भुवः शुभः ।
इदानीं श्रोतुमिच्छामस्त्रिलोकस्यास्य मण्डलम् ॥ २ ॥

यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः ।
वनानि सरितः सूर्यग्रहाणां स्थितिरेव च ॥ ३ ॥

यदाधारमिदं कृत्स्नं येषां पृथ्वी पुरा त्वियम् ।
नृपाणां तत्समासेन सूत वक्तुमिहार्हसि ॥ ४ ॥

वक्ष्ये देवादिदेवाय विष्णवे प्रभविष्णवे ।
नमस्कृत्वाप्रमेयाय यदुक्तं तेन धीमता ॥ ५ ॥

स्वायम्भुवस्य तु मनोः प्रागुक्तो यः प्रियव्रतः ।
पुत्रस्तस्याभवन् पुत्राः प्रजापतिसमा दश ॥ ६ ॥

अग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमांस्तथा ।
मेधा मेधातिथिर्हव्यः सवनः पुत्र एव च ॥ ७ ॥

ज्योतिष्मान् दशमस्तेषां महाबलपराक्रमः ।
धार्मिको दाननिरतः सर्वभूतानुकम्पकः ॥ ८ ॥

मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ।
जातिस्मरा महाभागा न राज्ये दधिरे मतिम् ॥ ९ ॥

प्रियव्रतो ऽभ्यषिञ्चद् वै सप्तद्वीपेषु सप्त तान् ।
जम्बुद्वीपेश्वरं पुत्रमग्नीध्रमकरोन्नृपः ॥ १० ॥

प्लक्ष्द्वीपेश्वरश्चैव तेन मेधातिथिः कृतः ।
शाल्मलेशं वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ॥ ११ ॥

ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः ।
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ॥ १२ ॥

शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः ।
पुष्कराधिपतिं चक्रे सवनं च प्रजापतिः ॥ १३ ॥

पुष्करे सवनस्यापि महावीतः सुतो ऽभवत् ।
धातिकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ ॥ १४ ॥

महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः ।
नाम्ना तु धातकेश्चापि धातकीखण्डमुच्यते ॥ १५ ॥

जलदश्च कुमारश्च सुकुमारो मणीचकः ।
कुसुमोत्तरो ऽथ मोदाकिः सप्तमः स्यान्महाद्रुमः ॥ १६ ॥

जलदं जलदस्याथ वर्षं प्रथममुच्यते ।
कुमारस्य तु कौमारं तृतीयं सुकुमारकम् ॥ १७ ॥

मणीचकं चतुर्थं तु पञ्चमं कुसुमोत्तरम् ।
मोदाकं षष्ठमित्युक्तं सप्तमं तु महाद्रुमम् ॥ १८ ॥

क्रौञ्चद्वीपेश्वरस्यापि सुता द्युतिमतो ऽभवन् ।
कुशलः प्रथमस्तेषां द्वितीयस्तु मनोहरः ॥ १९ ॥

अन्धकारो मुनिश्चैव दुन्दुभिश्चैव सप्तमः ।
तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः ॥ २० ॥

उद्भेदो वेणुमांश्चैवाश्वरथो लम्बनो धृतिः ।
षष्ठः प्रभाकारश्चापि सप्तमः कपिलः स्मृतः ॥ २१ ॥

स्वनामचिह्नितान् यत्र तथा वर्षाणि सुव्रताः ।
ज्ञेयानि सप्त तान्येषु द्वीपेष्वेवं न यो मतः ॥ २२ ॥

श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्युतौ मानसश्चैव सप्तमः सुप्रभो मतः ॥ २३ ॥

ज्येष्ठः शान्तभयस्तेषां शिशिरश्च सुखोदयः ।
आनन्दश्च शिवश्चैव क्षेमकश्च ध्रुवस्तथा ॥ २४ ॥

प्लक्षद्वीपादिषु ज्ञेयः शाकद्वीपान्तिकेषु वै ।
वर्णाश्रमविभागेन स्वधर्मो मुक्तये द्विजाः ॥ २५ ॥

जम्बुद्वीपेश्वरस्यापि पुत्रास्त्वासन् महाबलाः ।
अग्नीध्रस्य द्विजश्रेष्ठास्तन्नामानि निबोधत ॥ २६ ॥

नाभिः किम्पुरुषश्चैव तथा हरिरिलावृतः ।
रम्यो हिरण्वांश्च कुरुर्भद्राश्वः केतुमाहलकः ॥ २७ ॥

जम्बुद्वीपेश्वरो राजा स चाग्नीध्रो महामतिः ।
विभज्य नवधा तेभ्यो यथान्यायं ददौ पुनः ॥ २८ ॥

नाभेस्तु दक्षिणं वर्षं हिमाह्वं प्रददौ पुनः ।
हेमकूटं ततो वर्षं ददौ किम्पुरुषाय तु ॥ २९ ॥

तृतीयं नैषधं वर्षं हरये दत्तवान् पिता ।
इलावृताय प्रददौ मेरुमध्यमिलावृतम् ॥ ३० ॥

नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता ।
श्वेतं यदुत्तरं वर्षं पित्रा दत्तं हिरण्वते ॥ ३१ ॥

मेरोः पूर्वेण यद् वर्षं भद्राश्वाय न्यवेदयत् ।
गन्धमादनवर्षं तु केतुमालाय दत्तवान् ॥ ३२ ॥

वर्षेष्वेतेषु तान् पुत्रानभिषिच्य नराधिपः ।
संसारकष्टतां ज्ञात्वा तपस्तेपे वनं गतः ॥ ३३ ॥

हिमाह्वयं तु यस्यैतन्नाभेरासीन्महात्मनः ।
तस्यर्षभो ऽभवत् पुत्रो मरुदेव्यां महाद्युतिः ॥ ३४ ॥

सो ऽभिषिच्यर्षभः पुत्रं भरतं पृथिवीपतिः ।
वानप्रस्थाश्रमं गत्वा तपस्तेपे यथाविधि ॥ ३५ ॥

तपसा कर्षितो ऽत्यर्थं कृशो धमनिसन्ततः ।
ज्ञानयोगरतो भूत्वा महापाशुपतो ऽभवत् ॥ ३६ ॥

सुमतिर्भरतस्याभूत् पुत्रः परमधार्मिकः ।
सुमतेस्तैजसस्तस्मादिन्द्रिद्युम्नो व्यजायत ॥ ३७ ॥

परमेष्ठी सुतस्तस्मात् प्रतीहारस्तदन्वयः ।
प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः ॥ ३८ ॥

भवस्तस्मादथोद्गीथः प्रस्तावस्तत्सुतो ऽभवत् ।
पृथुस्ततस्ततो रक्तो रक्तस्यापि गयः सुतः ॥ ३९ ॥

नरो गयस्य तनयस्तस्य पुत्रो विराडभूत् ।
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ॥ ४० ॥

महान्तो ऽपि ततश्चाभूद् भौवनस्तत्सुतो ऽभवत् ।
त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत् सुतः ॥ ४१ ॥

शतजिद् रजसस्तस्य जज्ञे पुत्रशतं द्विजाः ।
तेषां प्रधानो बलवान् विश्वज्योतिरिति स्मृतः ॥ ४२ ॥

आराध्य देवं ब्रह्माणं क्षेमकं नाम पार्थिवम् ।
असूत पुत्रं धर्मज्ञं महाबाहुमरिन्दमम् ॥ ४३ ॥

एते पुरस्ताद् राजानो महासत्त्वा महौजसः ।
एषां वंशप्रसूतैश्च भुक्तेयं पृथिवी पुरा ॥ ४४ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टात्रिंशो ऽध्यायः