३७

मार्कण्डय उवाच

विश्वास-प्रस्तुतिः

तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।
समागता महाभागा यमुना यत्र निम्नगा ॥ १ ॥

मूलम्

येनैव निः सृता गङ्गा तेनैव यमुना गता ।
योजनानां सहस्रेषु कीर्तनात् पापनाशनी ॥ २ ॥

तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर ।
विश्वास-प्रस्तुतिः

सर्वपापविनिर्मुक्तः पुनात्यासप्तमं कुलम् ।
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ॥ ३ ॥

अग्नितीर्थमिति ख्यातं यमुनादक्षिण तटे ।
विश्वास-प्रस्तुतिः

पश्चिमे धर्मराजस्य तीर्थं त्वनरकं स्मृतम् ।
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ॥ ४ ॥

कृष्णपक्षे चतुर्दश्यां स्नात्वा सन्तर्पयेच्छुचिः ।
धर्मराजं महापापैर्मुच्यते नात्र संशयः ॥ ५ ॥

दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथापराः ।
प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः ॥ ६ ॥

तिस्त्रः कोट्योर्ऽधकोटी च तीर्थानां वायुरब्रवीत् ।
दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥ ७ ॥

यत्र गङ्गा महाभागा स देशस्तत् तपोवनम् ।
सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ ८ ॥

यत्र देवो महादेवो देव्या सह महेश्वरः ।
आस्ते वटेश्वरो नित्यं तत् तीर्थं तत् तपोवनम् ॥ ९ ॥

इदं सत्यं द्विजातीनां साधूनामात्मजस्य च ।
सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य तु ॥ १० ॥

इदं धन्यमिदं स्वर्ग्यमिदं मेध्यमिदं सुखम् ।
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ ११ ॥

महर्षोणामिदं गुह्यं सर्वपापप्रमोचनम् ।
अत्राधीत्य द्विजो ऽध्यायं निर्मलत्वमवाप्नुयात् ॥ १२ ॥

यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः ।
जातिस्मरित्वं लभते नाकपृष्ठे च मोदते ॥ १३ ॥

प्राप्यन्ते तानितीर्थानि सद्भिः शिष्टानुदर्शिभिः ।
स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥ १४ ॥

एवमुक्त्वा स भगवान् मार्कण्डेयो महामुनिः ।
तीर्तानि कथयामास पृथिव्यां यानि कानिचित् ॥ १५ ॥

भूसमुद्रादिसंस्थानं प्रमाणं ज्योतिषां स्थितम् ।
पृष्टः प्रोवाच सकलमुक्त्वाथ प्रययो मुनिः ॥ १६ ॥

य इदं कल्यमुत्थाय पठते ऽथ शृणोति वा ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ १७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पुर्वविभागे सप्तत्रिंशो ऽध्यायः