मार्कण्डेय उवाच
विश्वास-प्रस्तुतिः
षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च ।
माघमासे गमिष्यन्ति गङ्गायमुनसङ्गमम् ॥ १ ॥
मूलम्

गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम् ।
प्रयागे माघमासे तु त्र्यहं स्नातस्य तत् फलम् ॥ २ ॥

गङ्गायमुनयोर्मध्ये कार्षाग्निं यस्तु साधयेत् ।
अहीनाङ्गो ऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥ ३ ॥

यावन्ति रोमकूपाणि तस्य गात्रेषु मानद ।
तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥ ४ ॥

ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ।
स भुक्त्वा विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥ ५ ॥

जलप्रवेशं यः कुर्यात् सङ्गमे लोकविश्रुते ।
राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः ॥ ४ ॥

सोमलोकमवाप्नोति सोमेन सह मोदते ।
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ॥ ७ ॥

स्वर्गतः शक्रलोके ऽसौ मुनिगन्धर्वसेवितः ।
ततो भ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले ॥ ८ ॥

अधः शिरास्त्वयोधारामुर्ध्वपादः पिबेन्नरः ।
शतं वर्षसहस्राणि स्वर्गलोके महीयते ॥ ९ ॥

तस्माद् भ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः ।
भुक्त्वा तु विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥ १० ॥

यः स्वदेहं विकर्तेद् वा शकुनिभ्यः प्रयच्छति ।
विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम् ॥ ११ ॥

शतं वर्षसहस्राणि सोमलोके महीयते ।
ततस्तस्मात् परिभ्रष्टो राजा भवति धार्मिकः ॥ १२ ॥

गुणवान् रूपसम्पन्नो विद्वान् सुप्रियवाक्यवान् ।
भुक्त्वा तु विपुलान् भोगांस्तततीर्थं भजते पुनः ॥ १३ ॥

उत्तरे यमुनातीरे प्रयागस्य तु दक्षिणे ।
ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम् ॥ १४ ॥

एकरात्रोषितः स्नात्वा ऋणैस्तत्र प्रमुच्यते ।
सूर्यलोकमवाप्नोति अनृणश्च सदा भवेत् ॥ १५ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्त्रिंशो ऽध्यायः