३५

मार्कण्डेय उवाच

विश्वास-प्रस्तुतिः

कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् ।
आर्षेण तु विधानेन यथा दृष्टं यथा श्रुतम् ॥ १ ॥

मूलम्

प्रयागतीर्थयात्रार्थो यः प्रयाति नरः क्वचित् ।
बलीवर्दं समारूढः शृणु तस्यापि यत्फलम् ॥ २ ॥

नरके वसते घोरे समाः कल्पशतायुतम् ।
विश्वास-प्रस्तुतिः

ततो निवर्तते घोरो गवां क्रोधो हि दारुणः ।
सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः ॥ ३ ॥

यस्तु पुत्रांस्तथा बालान् स्नापयेत् पाययेत् तथा ।
यथात्मना तथा सर्वान् दानं विप्रेषु दापयेत् ॥ ४ ॥

ऐश्वर्याल्लोभमोहाद् वा गच्छेद् यानेन यो नरः ।
निष्फलं तस्य तत् तीर्थं तसमाद्यानं विवर्जयेत् ॥ ५ ॥

गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ।
आर्षेण तु विवाहेन यथा विभवविस्तरम् ॥ ६ ॥

न स पश्यति तं घोरं नरकं तेन कर्मणा ।
उत्तरान् स कुरून् गत्वा मोदते कालमक्षयम् ॥ ७ ॥

वटमूलं समाश्रित्य यस्तु प्राणान् परित्यजेत् ।
सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ॥ ८ ॥

तत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ।
लोकपालाश्च सिद्धाश्च पितरो लोकसम्मताः ॥ ९ ॥

सनत्कुमारप्रमुखास्तथा ब्रह्मर्षयो ऽपरे ।
विश्वास-प्रस्तुतिः

नागाः सुपार्णाः सिद्धाश्च तथा नित्यं समासते ।
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥ १० ॥

गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् ।
प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ॥ ११ ॥

तत्राभिषेकं यः कुर्यात् सङ्गमे संशितव्रतः ।
तुल्यं फलवाप्नोति राजसूयाश्वमेधयोः ॥ १२ ॥

न मातृवचनात् तात न लोकवचनादपि ।
मतिरुत्क्रमणीया ते प्रयागगामनं प्रति ॥ १३ ॥

दश तीर्थ सहस्राणि षष्टिकोट्यस्तथापरे ।
तेषां सान्निध्यमत्रैव तीर्थानां कुरुनन्दन ॥ १४ ॥

या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः ।
सा गतिस्त्यजतः प्राणान् गङ्गायमुनसङ्गमे ॥ १५ ॥

न ते जीवन्ति लोके ऽस्मिन् यत्र तत्र युधिष्ठिर ।
ये प्रयागं न सम्प्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ १६ ॥

एवं दृष्ट्वा तु तत् तीर्थं प्रयागं परमं पदम् ।
मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ १७ ॥

कम्बलाश्वतरौ नागौ यमुनादक्षिणे तटे ।
तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ १८ ॥

तत्र गत्वा नरः स्थानं महादेवस्य धीमतः ।
आत्मानं तारयेत् पूर्वं दशातीतान् दशापरान् ॥ १९ ॥

कृत्वाभिषेकं तु नरः सो ऽश्वमेधफलं लभेत् ।
स्वर्गलोकमवाप्नोति यावदाहूतसम्प्लवम् ॥ २० ॥

पूर्वपार्श्वे तु गङ्गायास्त्रैलोक्यख्यातिमान् नृप ।
अवचः सर्वसामुद्रः प्रतिष्ठानं च विश्रुतम् ॥ २१ ॥

ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति ।
सर्वपापविशुद्धात्मा सो ऽश्वमेधफलं लभेत् ॥ २२ ॥

उत्तरेण प्रतिष्ठानं भागीरथ्यास्तु सव्यतः ।
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ २३ ॥

अश्वमेधफलं तत्र स्मृतमात्रात् तु जायते ।
यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते ॥ २४ ॥

उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे ।
परित्यजतियः प्राणान् शृणु तस्यापि यत् फलम् ॥ २५ ॥

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
आस्ते स पितृभिः सार्धं स्वर्गलोके नराधिप ॥ २६ ॥

अथं सन्ध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः ।
नरः शुचिरुपासीत ब्रह्मलोकमवाप्नुयात् ॥ २७ ॥

कोटितीर्थं समाश्रित्य यस्तु प्राणान् परित्यजेत् ।
कोटिवर्षसहस्राणि स्वर्गलोके महीयते ॥ २८ ॥

यत्र गङ्गा महाभागा बहुतीर्थतपोवना ।
सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ॥ २९ ॥

क्षितौ तारयते मर्त्यान् नागांस्तारयते ऽप्यधः ।
दिवि तारयते देवांस्तेन त्रिपथगा स्मृता ॥ ३० ॥

यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य तु ।
तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥ ३१ ॥

तीर्थानां परमं तीर्थं नदीनां परमा नदी ।
मोक्षदा सर्वभूतानां महापातकिनामपि ॥ ३२ ॥

सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ।
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ ३३ ॥

सर्वेषामे भूतानां पापोपहतचेतसाम् ।
गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥ ३४ ॥

पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ।
माहेश्वरात् परिभ्रष्टा सर्वपापहरा शुभा ॥ ३५ ॥

कृते युगे तु तीर्थानि त्रेतायां पुष्करं परम् ।
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां विशिष्यते ॥ ३६ ॥

गङ्गामेव निषेवेत प्रयागे तु विशेषतः ।
नान्यत् कलियुगोद्भूतं मलं हन्तुं सुदुष्कृतम् ॥ ३७ ॥

अकामो वा सकामो वा गङ्गायां यो विपद्यते ।
स मृतो जायते स्वर्गे नरकं च न पश्यति ॥ ३८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चत्रिंशो ऽध्यायः