ऋषय ऊचुः
विश्वास-प्रस्तुतिः
माहात्म्यमविमुक्तस्य यथावत् तदुदीरितम् ।
इदानीं तु प्रयागस्य माहात्म्यं ब्रूहि सुव्रत ॥ १ ॥
मूलम्

यानि तीर्थानि तत्रैव विश्रुतानि महान्ति वै ।
इदानीं कथयास्माकं सूत सर्वार्थविद् भवान् ॥ २ ॥

शृणुध्वमृषयः सर्वे विस्तरेण ब्रवीमि वः ।
प्रयागस्य च माहात्म्यं यत्र देवः पितामहः ॥ ३ ॥

मार्कण्डेयेन कथितं कौन्तेयाय महात्मने ।
यथा युधिष्ठिरायैतत् तद्वक्ष्ये भवतामहम् ॥ ४ ॥

निहत्य कौरवान सर्वान् भ्रातृभिः सह पार्थिवः ।
शोकेन महाताविष्टा मुमोह स युधिष्ठिरः ॥ ५ ॥

अचिरेणाथ कालेन मार्कण्डेयो महातपाः ।
सम्प्राप्तो हास्तिनपुरं राजद्वारे स तिष्ठति ॥ ६ ॥

द्वारपालो ऽपि तं दृष्ट्वा राज्ञः कथितवान् द्रुतम् ।
मार्कण्डेयो द्रष्टुमिच्छंस्त्वामास्ते द्वार्यसौ मुनिः ॥ ७ ॥

त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परम् ।
स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने ॥ ८ ॥

अद्य मे सफलं जन्म अद्य मे तारितं कुलम् ।
अद्य मे पितरस्तुष्टास्त्वयि तुष्टे महामुने ॥ ९ ॥

सिंहासनमुपस्थाप्य पादशौचार्चनादिभिः ।
युधिष्ठिरो महात्मेति पूजयामास तं मुनिम् ॥ १० ॥

मार्कण्डेयस्ततस्तुष्टः प्रोवाच स युधिष्ठिरम् ।
किमर्थं मुह्यसे विद्वन् सर्वं ज्ञात्वाहमागतः ॥ ११ ॥

ततो युधिष्ठिरो राजा प्रणम्याह महामुनिम् ।
कथय त्वं समासेन येन मुच्येत किल्बिषैः ॥ १२ ॥

निहता वहवो युद्धे पुंसो निरपराधिनः ।
अस्माभिः कौरवैः सार्धं प्रसङ्गान्मुनिपुङ्गव ॥ १३ ॥

येन हिंसासमुद्भूताज्जन्मान्तरकृतादपि ।
मुच्यते पातकादस्मात् तद् भवान् वक्तुमर्हति ॥ १४ ॥

शृणु राजन् महाभाग यन्मां पृच्छसि भारत् ।
प्रयागगमनं श्रेष्ठं नराणां पापनाशनम् ॥ १५ ॥

तत्र देवो महादेवो रुद्रो विश्वामरेश्वरः ।
समास्ते भगवान् ब्रह्मा स्वयम्भूरपि दैवदैः ॥ १६ ॥

भगवञ्च्छ्रोतुमिच्छामि प्रयागगमने फलम् ।
मृतानां का गतिस्तत्र स्नातानामपि किं फलम् ॥ १७ ॥

ये वसन्ति प्रयागे तु ब्रूहि तेषां तु किं फलम् ।
भवता विदितं ह्येतत् तन्मे ब्रूहि नमो ऽस्तु ते ॥ १८ ॥

कथयिष्यामि ते वत्स या चेष्टा यच्च तत्फलम् ।
पुरा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम् ॥ १९ ॥

एतत् प्रजापतिक्षेत्रं त्रिषु लोकेषु विश्रुतम् ।
अत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ॥ २० ॥

तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति सङ्गताः ।
बहून्यन्यानि तीर्थानि सर्वपापापहानि तु ॥ २१ ॥

कथितुं नेह शक्नोमि बहुवर्षशतैरपि ।
सङ्क्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्तनम् ॥ २२ ॥

षष्टिर्धनुः सहस्राणि यानि रक्षन्ति जाह्नवीम् ।
यमुनां रक्षति सदा सविता सप्तवाहनः ॥ २३ ॥

प्रयागे तु विशेषेण स्वयं वसति वासवः ।
मण्डलं रक्षति हरिः सर्वदेवैश्च सम्मितम् ॥ २४ ॥

न्यग्रोधं रक्षते नित्यं शूलपाणिर्महेश्वरः ।
स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥ २५ ॥

स्वल्पं स्वल्पतरं पापं यदा तस्य नराधिप ।
प्रयागं स्मरमाणस्य सर्वमायाति सङ्क्षयम् ॥ २६ ॥

दर्शनात् तस्य तीर्थस्य नाम सङ्कीर्तनादपि ।
मुत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते ॥ २७ ॥

पञ्च कुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी ।
प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात् ॥ २८ ॥

योजनानां सहस्रेषु गङ्गां यः स्मरते नरः ।
अपि दुष्कृतकर्मासौ लभते परमां गतिम् ॥ २९ ॥

कीर्तनान्मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति ।
तथोपस्पृश्य राजेन्द्र स्वर्गलोके महीयते ॥ ३० ॥

व्याधितो यदि वा दीनः क्रूद्धो वापि भवेन्नरः ।
गङ्गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः ॥ ३१ ॥

दीप्तकाञ्चनवर्णाभैर्विमानैर्भानुवर्णिभिः ।
ईप्सितांल्लभते कामान् वदन्ति मुनिपुङ्गवाः ॥ ३२ ॥

सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः ।
वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणः ॥ ३३ ॥

गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते ।
यावन्न स्मरते जन्म तापत् स्वर्गे महीयते ॥ ३४ ॥

तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्मा नरोत्तम ।
हिरण्यरत्नसम्पूर्णे समृद्धे जायते कुले ॥ ३५ ॥

तदेव स्मरते तीर्थं स्मरणात् तत्र गच्छति ।
देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ॥ ३६ ॥

प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् ।
ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुङ्गवाः ॥ ३७ ॥

सर्वकामफला वृक्षा मही यत्र हिरण्मयी ।
ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ॥ ३८ ॥

स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्तटे शुभे ।
मोदते मुनिभिः सार्धं स्वकृतेनेह कर्मणा ॥ ३९ ॥

सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः ।
ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥ ४० ॥

गुणवान् वित्तसम्पन्नो भवतीह न संशयः ।
कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः ॥ ४१ ॥

गङ्गायमुनयोर्मध्ये यस्तु ग्रामं प्रतीच्छति ।
सुवर्णमथ मुक्तां वा तथैवान्यान् प्रतिग्रहान् ॥ ४२ ॥

स्वकार्ये पितृकार्ये वा देवताभ्यर्चने ऽपि वा ।
निष्फलं तस्य तत् तीर्थं यावत् तत्फलमश्नुते ॥ ४३ ॥

अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च ।
निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ॥ ४४ ॥

कपिलां पाटलावर्णां यस्तु धेनुं प्रयच्छति ।
स्वर्णशृङ्गीं रौप्यखुरां चैलकण्ठां पयस्विनीम् ॥ ४५ ॥

यावद् रोमाणि तस्या वै सन्ति गात्रेषु सत्तम ।
तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥ ४६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुस्त्रिशो ऽध्यायः