३३

सूत उवाच

विश्वास-प्रस्तुतिः

ततः सर्वाणि गुह्यानि तीर्थान्यायतनानि च ।
जगाम भगवान् व्यासो जैमिनिप्रमुखैर्वृतः ॥ १ ॥

मूलम्

प्रयागं परमं तीर्थं प्रयागादधिकं शुभम् ।
विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम् ॥ २ ॥

आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् ।
स्वर्नोलं च महातीर्थं गौरीतीर्थमनुत्तमम् ॥ ३ ॥

प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च ।
जम्बुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम् ॥ ४ ॥

गयातीर्थं महातीर्थं तीर्थं चैव महानदी ।
नारायणं परं तीर्थं वायुतीर्थमनुत्तमम् ॥ ५ ॥

ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् ।
यमतीर्थं महापुण्यं तीर्थं संवर्तकं शुभम् ॥ ६ ॥

अग्नितीर्थं द्विजश्रेष्ठाः कलशेश्वरमुत्तमम् ।
नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ॥ ७ ॥

पर्वताख्यं महागुह्यं मणिकर्णमनुत्तमम् ।
घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ॥ ८ ॥

गङ्गातीर्थं तु देवेशं ययातेस्तीर्थमुत्तमम् ।
कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ॥ ९ ॥

अत्र लिङ्गं पुरानीय ब्रह्मा स्नातुं यदा गतः ।
तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरम् ॥ १० ॥

ततः स्नात्वा समागत्य ब्रह्मा प्रोवाच तं हरिम् ।
मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि ॥ ११ ॥

तमाह विष्णुस्त्वत्तो ऽपि रुद्रे भक्तिर्दृढा मम ।
तस्मात् प्रतिष्ठितं लिङ्गन्नाम्ना तव भविष्यति ॥ १२ ॥

भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम् ।
गन्धर्वतीर्थं परमं वाह्नेयं तीर्थमुत्तमम् ॥ १३ ॥

दौर्वासिकं व्योमतीर्थं चन्द्रतीर्थं द्विजोत्तमाः ।
चित्राङ्गदेश्वरं पुण्यं पुण्यं विद्याधरेश्वरम् ॥ १४ ॥

केदारतीर्थमुग्राख्यं कालञ्जरमनुत्तमम् ।
सारस्वतं प्रभासं च भद्रकर्णं ह्रदं शुभम् ॥ १५ ॥

लौकिकाख्यं महातीर्थं तीर्थं चैव वृषध्वजम् ।
हिरण्यगर्भं गोप्रेक्ष्यं तीर्थं चैव वृषध्वजम् ॥ १६ ॥

उपशान्तं शिवं चैव व्याघ्रेश्वरमनुत्तमम् ।
त्रिलोचनं महातीर्थं लोलार्कं चोत्तराह्वयम् ॥ १७ ॥

कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम् ।
शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् ॥ १८ ॥

एवमादीनि तीर्थानि प्राधान्यात् कथितानि तु ।
न शक्यं विस्तराद् वक्तुं तीर्थसङ्ख्या द्विजात्तमाः ॥ १९ ॥

तेषु सर्वेषु तीर्थेषु स्नात्वाभ्यर्च्य पिनाकिनम् ।
उपोष्य तत्र तत्रासौ पाराशर्यो महामुनिः ॥ २० ॥

तर्पयित्वा पितॄन् देवान् कृत्वा पिण्डप्रिदानकम् ।
जगाम पुनरेवापि यत्र विश्वेश्वरः शिवः ॥ २१ ॥

स्नात्वाभ्यर्च्य परं लिङ्गं शिष्यैः सह महामुनिः ।
उवाच शिष्यान् धर्मात्मा स्वान् देशान् गन्तुमर्हथा ॥ २२ ॥

ते प्रणम्य महात्मानं जग्मुः पैलादयो द्विजाः ।
वासं च तत्र नियतो वाराणस्यां चकार सः ॥ २३ ॥

शान्तो दान्तस्त्रिषवणंस्नात्वाभ्यर्च्य पिनाकिनम् ।
भैक्षाहारो विशुद्धात्मा ब्रह्मचर्यपरायणः ॥ २४ ॥

कदाचिद् वसता तत्र व्यासेनामिततेजसा ।
भ्रममाणेन भिक्षा तु नैव लब्धा द्विजोत्तमाः ॥ २५ ॥

ततः क्रोधावृततनुर्नराणामिह वासिनाम् ।
विघ्नं सृजामि सर्वेषां येन सिद्धिर्विहीयते ॥ २६ ॥

तत्क्षणे सा महादेवी शङ्करार्धशरीरिणी ।
प्रादुरासीत् स्वयं प्रीत्या वेषं कृत्वा तु मानुषम् ॥ २७ ॥

भो भो व्यास महाबुद्धे शप्तव्या भवता न हि ।
गृहाण भिक्षां मत्तस्त्वमुक्त्वैवं प्रददौ शिवा ॥ २८ ॥

उवाच च महादेवी क्रोधनस्त्वं भवान् यतः ।
इह क्षेत्रे न वस्तव्यं कृतघ्नो ऽसि त्वया सदा ॥ २९ ॥

एवमुक्तः स भगवान् ध्यानाज्ज्ञात्वा परां शिवाम् ।
उवाच प्रणतो भूत्वा स्तुत्वा च प्रवरैः स्तवैः ॥ ३० ॥

चतुर्दश्यामथाष्टम्यां प्रवेशं देहि शाङ्करि ।
एवमस्त्वित्यनुज्ञाय देवी चान्तरधीयत ॥ ३१ ॥

एवं स भगवान् व्यासो महायोगी पुरातनः ।
ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्याथ पार्श्वतः ॥ ३२ ॥

एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं सेवन्ति पण्डिताः ।
तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥ ३३ ॥

यः पठेदविमुक्तस्य माहात्म्यं शृणुयादपि ।
श्रावयेद् वा द्विजान् शान्तान् सो ऽपियातिपराङ्गतिम् ॥ ३४ ॥

श्राद्धे वा दैविके कार्ये रात्रावहनि वा द्विजाः ।
नदीनां चैव तीरेषु देवतायतनेषु च ॥ ३५ ॥

स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।
जपेदीशं नमस्कृत्य स याति परमां गतिम् ॥ ३६ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रयस्त्रिशो ऽध्यायः