३१

सूत उवाच

विश्वास-प्रस्तुतिः

समाभाष्य मुनीन् धीमान् देवदेवस्य शूलिनः ।
जगाम लिङ्गं तद् द्रष्टुं कपर्देश्वरमव्ययम् ॥ १ ॥

मूलम्

स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन् द्विजाः ।
पिशाचमोचने तीर्थे पूजयामास शूलिनम् ॥ २ ॥

तत्राश्चर्यमपश्यंस्ते मुनयो गुरुणा सह ।
मेनिरे क्षेत्रमाहात्म्यं प्रणेमुर्गिरिशं हरम् ॥ ३ ॥

कश्चिदभ्याजगामेदं शार्दूलो घोररूपधृक् ।
मृगीमेकां भक्षयितुं कपर्देश्वरमुत्तमम् ॥ ४ ॥

तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् ।
धावमाना सुसम्भ्रान्ता व्याघ्रस्य वशमागता ॥ ५ ॥

तां विदार्य नखैस्तीक्ष्णैः शार्दूलः सुमहाबलः ।
जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान् ॥ ६ ॥

मृतमात्रा च सा बाला कपर्देशाग्रतो मृगी ।
अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा ॥ ७ ॥

त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा ।
वृषाधिरूढा पुरुषैस्तादृशैरेव संवृता ॥ ८ ॥

पुष्पवृष्टिं विमुञ्चिन्ति खेचरास्तस्य मूर्धनि ।
गणेश्वरः स्वयं भूत्वा न दृष्टस्तत्क्षणात् ततः ॥ ९ ॥

दृष्ट्वैतदाश्चर्यवरं जैमिनिप्रमुखा द्विजाः ।
कपर्देश्वरमाहात्म्यं पप्रच्छुर्गुरुमच्युतम् ॥ १० ॥

तेषां प्रोवाच भगवान् देवाग्रे चोपविश्य सः ।
कपर्देशस्य माहात्म्यं प्रणम्य वृषभध्वजम् ॥ ११ ॥

इदं देवस्य तल्लिङ्गं कपर्दोश्वरमुत्तमम् ।
स्मृत्वैवाशेषपापौघं क्षिप्रमस्य विमुञ्चति ॥ १२ ॥

कामक्रोधादयो दोषा वाराणसीनिवासिनाम् ।
विघ्नाः सर्वे विनश्यन्ति कपर्देश्वरपूजनात् ॥ १३ ॥

तस्मात् सदैव द्रष्टव्यं कपर्देश्वरमुत्तमम् ।
पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः ॥ १४ ॥

ध्यायतामत्र नियतं योगिनां शान्तचेतसाम् ।
जायते योगसंसिद्धिः सा षण्मासे न संशयः ॥ १५ ॥

ब्रह्महत्यादयः पापा विनश्यन्त्यस्य पूजनात् ।
पिशाचमोचने कुण्डे स्नातस्यात्र समीपतः ॥ १६ ॥

अस्मिन् क्षेत्रे पुरा विप्रास्तपस्वी शंसितव्रतः ।
विश्वास-प्रस्तुतिः

शङ्कुकर्ण इति ख्यातः पूजयामास शङ्करम् ।
जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम् ॥ १७ ॥

पुष्पधूपादिभिः स्तोत्रैर्नमस्कारैः प्रदक्षिणैः ।
उवास तत्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम ॥ १८ ॥

कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् ।
अस्थिचर्मपिनद्धाङ्गं निः श्वसन्तं मुहुर्मुहुः ॥ १९ ॥

तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः ।
प्रोवाच को भवान् कस्माद् देशाद् देशमिमंश्रितः ॥ २० ॥

तस्मै पिशाचः क्षुधया पीड्यमानो ऽब्रवीद् वचः ।
विश्वास-प्रस्तुतिः

पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः ।
पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः ॥ २१ ॥

न पूजिता मया देवा गावो ऽप्यतिथयस्तथा ।
न कदाचित् कृतं पुण्यमल्पं वा स्वल्पमेव वा ॥ २२ ॥

एकदा भगवान् देवो गोवृषेश्वरवाहनः ।
विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टे नमस्कृतः ॥ २३ ॥

तदाचिरेण कालेन पञ्चत्वमहमागतः ।
न दृष्टं नन्मया घोरं यमस्य वदनं मुने ॥ २४ ॥

ईदृशीं योनिमापन्नः पैशाचीं क्षुधयान्वितः ।
पिपासयाधुनाक्रान्तो न जानामि हिताहितम् ॥ २५ ॥

यदि कञ्चित् समुद्धर्तुमुपायं पश्यसि प्रभो ।
कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः ॥ २६ ॥

इत्युक्तः शङ्कुकर्णो ऽथ पिशाचमिदमब्रवीत् ।
त्वादृशो न हि लोके ऽस्मिन् विद्यते पुण्यकृत्तमः ॥ २७ ॥

यत् त्वया भगवान् पूर्वं दृष्टो विश्वेश्वरः शिवः ।
संस्पृष्टो वन्दितो भूयः को ऽन्यस्त्वत्सदृशो भुवि ॥ २८ ॥

तेन कर्मविपाकेन देशमेतं समागतः ।
विश्वास-प्रस्तुतिः

स्नानं कुरुष्व शीघ्रं त्वमस्मिन् कुण्डे समाहितः ।
येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि ॥ २९ ॥

स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम् । स्मृत्वा कपर्देश्वरमीशितारं चक्रे समाधाय मनो ऽवगाहम् ॥ ३० ॥ तदावगाढो मुनिसन्निधाने ममार दिव्याभरणोपपन्नः । अदृश्यतार्कप्रतिमे विमाने शशाङ्कचिह्नाङ्कितचारुमौलिः ॥ ३१ ॥ विभाति रुद्रैरभितो दिवस्थैः समावृतो योगिभैरप्रमेयैः । सबालखिल्यादिभिरेष देवो यथोदये भानुरशेषदेवः ॥ ३२ ॥ स्तुवन्ति सिद्धा दिवि देवसङ्घा नृत्यन्ति दिव्याप्सरसो ऽभिरामाः । मुञ्चन्ति वृष्टिं कुसुमाम्बुमिश्रां गन्धर्वविद्याधरकिन्नराद्याः ॥ ३३ ॥ संस्तूयमानो ऽथ मुनीन्द्रसङ्घै- रवाप्य बोधं भगवात्प्रसादात् । समाविशन्मण्डलमेतदग्र्यं त्रयीमयं यत्र विभाति रुद्रः ॥ ३४ ॥ दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम् । विचिन्त्य रुद्रं कविमेकमग्निं प्रणम्य तुष्टाव कपर्दिनं तम् ॥ ३५ ॥ शङ्कुकर्ण उवाच कपर्दिनं त्वां परतः परस्ताद् गोप्तारमेकं पुरुषं पुराणम् । व्रजामि योगेश्वरमीशितार- मादित्यमग्निं कपिलाधिरूढम् ॥ ३६ ॥ त्वां ब्रह्मपारं हृदि सन्निविष्टं हिरण्मयं योगिनमादिमन्तम् । व्रजामि रुद्रं शरणं दिवस्थं महामुनिं ब्रह्ममयं पवित्रम् ॥ ३७ ॥ सहस्रपादाक्षिशिरो ऽभियुक्तं सहस्रबाहुं नमसः परस्तात् । त्वां ब्रहामपारं प्रणमामि शम्भुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ॥ ३८ ॥ यतः प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन । तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये ॥ ३९ ॥ अलिङ्गमालोकविहीनरूपं स्वयम्प्रभं चित्पतिमेकरुद्रम् । तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतो ऽन्यदस्ति ॥ ४० ॥ यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमार्थभूताः । पश्यन्ति देवं प्रणतो ऽस्मि नित्यं तं ब्रह्मपारं भवतः स्वरूपम् ॥ ४१ ॥ न यत्र नामादिविशेषकॢप्ति- र् न सन्दृशे तिष्ठति यत्स्वरूपम् । तं ब्रह्मपारं प्रणतो ऽस्मि नित्यं स्वयम्भुवं त्वां शरणं प्रपद्ये ॥ ४२ ॥ यद् वेदवादाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् । पश्यन्त्यनेकं भवतः स्वरूपं सब्रह्मपारं प्रणतो ऽस्मि नित्यम् ॥ ४३ ॥ यतः प्रधानं पुरुषः पुराणो विवर्तते यं प्रणमन्ति देवाः । नमामि तं ज्योतिषि सन्निविष्टं कालं बृहन्तं भवतः स्वरूपम् ॥ ४४ ॥ व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुरारिम् । शिवं प्रपद्ये हरमिन्दुमौलिं पिनाकिनं त्वां शरणं व्रजामि ॥ ४५ ॥
विश्वास-प्रस्तुतिः

स्तुत्वैवं शङ्कुकर्णो ऽसौ भगवन्तं कपर्दिनम् ।
पपात दण्डवद् भूमौ प्रोच्चरन् प्रणवं परम् ॥ ४६ ॥

तत्क्षणात् परमं लिङ्गं प्रादुर्भूतं शिवात्मकम् ।
ज्ञानमानन्दमद्वैतं कोटिकालाग्निसन्निभम् ॥ ४७ ॥

शङ्कुकर्णो ऽथ मुक्तात्मा तदात्मा सर्वगो ऽमलः ।
निलिल्ये विमले लिङ्गे तद्भुतमिवाभवत् ॥ ४८ ॥

एतद् रहस्यमाख्यातं माहात्म्यं वः कपर्दिनः ।
न कश्चिद् वेत्ति तमसा विद्वानप्यत्र मुह्यति ॥ ४९ ॥

य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम् ।
भक्तः पापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ॥ ५० ॥

पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् ।
प्रातर्मध्याह्नसमये स योगं प्राप्नुयात् परम् ॥ ५१ ॥

इहैव नित्यं वत्स्यामो देवदेवं कपर्दिनम् ।
द्रक्ष्यामः सततं देवं पूजयामो ऽथ शूलिनम् ॥ ५२ ॥

इत्युक्त्वा भगवान् व्यासः शिष्यैः सह महामुनिः ।
उवास तत्र युक्तात्मा पूजयन् वै कपर्दिनम् ॥ ५३ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकत्रिशोध्यायः