सूत उवाच
विश्वास-प्रस्तुतिः
स शिष्यैः संवृतो धीमान् गुरुर्द्वैपायनो मुनिः ।
जगाम विपुलं लिङ्गमोङ्कारं मुक्तिदायकम् ॥ १ ॥
मूलम्

तत्राभ्यर्च्य महादेवं शिष्यैः सह महामुनिः ।
प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥ २ ॥

इदं तद् विमलं लिङ्गमोङ्कारं नाम शोभनम् ।
अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ ३ ॥

एतत् परतरं ज्ञानं पञ्चयतनमुत्तमम् ।
सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम् ॥ ४ ॥

अत्र साक्षान्महादेवः पञ्चायतनविग्रहः ।
रमते भगवान् रुद्रो जन्तूनामपवर्गदः ॥ ५ ॥

यत् तत् पाशुपतं ज्ञानं पञ्चार्थमिति शब्द्यते ।
तदेतद् विमलं लिङ्गमोङ्कारे समवस्थितम् ॥ ६ ॥

शान्त्यतीता तथा शान्तिर्विद्या चैव परा कला ।
प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम् ॥ ७ ॥

पञ्चानामपि देवानां ब्रह्मादीनां सदाश्रयम् ।
ओङ्कारबोधकं लिङ्गं पञ्चायतनमुच्यते ॥ ८ ॥

संस्मरेदैश्वरं लिङ्गं पञ्चायतनमव्ययम् ।
देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः ॥ ९ ॥

अत्र देवर्षयः पूर्वं सिद्धा ब्रह्मर्षयस्तथा ।
उपास्य देवमीशानं प्राप्तवन्तः परं पदम् ॥ १० ॥

मत्स्योदर्यास्तटे पुण्यं स्थानं गुह्यतमं शुभम् ।
गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम् ॥ ११ ॥

कृत्तिवासेश्वरं लिङ्गः मध्यमेश्वरमुत्तमम् ।
विश्वेश्वरं तथोङ्कारं कपर्देश्वरमेव च ॥ १२ ॥

एतानि गुह्यलिङ्गानि वाराणस्यां द्विजोत्तमाः ।
न कश्चिदिह जानाति विना शम्भोरनुग्रहात् ॥ १३ ॥

एवमुक्त्वा ययौ कृष्णः पाराशर्यो महामुनिः ।
कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः ॥ १४ ॥

समभ्यर्च्य तथा शिष्यैर्माहात्म्यं कृत्तिवाससः ।
कथयामास शिष्येभ्यो भगवान् ब्रह्मवित्तमः ॥ १५ ॥

अस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा भवान्तिकम् ।
ब्राह्मणान् हन्तुमायातो ये ऽत्र नित्यमुपासते ॥ १६ ॥

तेषां लिङ्गान्महादेवः प्रादुरासीत् त्रिलोचनः ।
रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः ॥ १७ ॥

हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः ।
वसस्तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः ॥ १८ ॥

अत्र सिद्धिं परां प्राप्ता मुनयो मुनिपुङ्गवाः ।
तेनैव च शरीरेण प्राप्तास्तत् परमं पदम् ॥ १९ ॥

विद्या विद्येश्वरा रुद्राः शिवाये च प्रकीर्तिताः ।
कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः ॥ २० ॥

ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः ।
कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः ॥ २१ ॥

जन्मान्तरसहस्रेण मोक्षो ऽन्यत्राप्यते न वा ।
एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ॥ २२ ॥

आलयः सर्वसिद्धानामेतत् स्थानं वदन्ति हि ।
गोपितं देवदेवेन महादेवेन शम्भुना ॥ २३ ॥

युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारागाः ।
उपासते महादेवं जपन्ति शतरुद्रियम् ॥ २४ ॥

स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् ।
ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ २५ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागेत्रिंशो ऽध्यायः