२९

ऋषय ऊचुः

विश्वास-प्रस्तुतिः

प्राप्य वाराणसीं दिव्यां कृष्णद्वैपायनो मुनिः ।
किमकार्षोन्महाबुद्धिः श्रोतुं कौतूहलं हि नः ॥ १ ॥

मूलम्

सूत उवाच
विश्वास-प्रस्तुतिः

प्राप्य वाराणसी दिव्यामुपस्पृश्य महामुनिः ।
पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम् ॥ २ ॥

तमागतं पुनिं दृष्ट्वा तत्र ये निवसन्ति वै ।
पूजयाञ्चक्रिरे व्यासं मुनयो मुनिपुङ्गवम् ॥ ३ ॥

पप्रच्छुः प्रणताः सर्वे कथाः पापविनाशनीः ।
महादेवाश्रयाः पुण्या मोक्षधर्मान् सनातनान् ॥ ४ ॥

स चापि कथयामास सर्वज्ञो भगवानृषिः ।
माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान् ॥ ५ ॥

तेषां मध्ये मुनीन्द्राणां व्यासशिष्यो महामुनिः ।
पृष्टवान् जैमिनिर्व्यासं गूढमर्थं सनातनम् ॥ ६ ॥

जैमिनिरुवाच
विश्वास-प्रस्तुतिः

भगवन् संशयं त्वेकं छेत्तुमर्हसि तत्त्वतः ।
न विद्यते ह्यविदितं भवता परमर्षिणा ॥ ७ ॥

केचिद् ध्यानं प्रशंसन्ति धर्ममेवापरे जनाः ।
अन्ये साङ्ख्यं तथा योगं तपस्त्वन्ये महर्षयः ॥ ८ ॥

ब्रह्मचर्यमथो मौनमन्ये प्राहर्महर्षयः ।
अहिंसां सत्यमप्यन्ये सन्न्यासमपरे विदुः ॥ ९ ॥

केचिद् दयां प्रशंसन्ति दानमध्ययनं तथा ।
तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम् ॥ १० ॥

किमेतेषां भवेज्ज्यायः प्रब्रूहि मुनिपुङ्गव ।
यदि वा विद्यते ऽप्यन्यद् गुह्यं तद्वक्तुमर्हसि ॥ ११ ॥

श्रुत्वा स जैमिनेर्वाक्यं कृष्णद्वैपायनो मुनिः ।
प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम् ॥ १२ ॥

साधु साधु महाभाग यत्पृष्टं भवता मुने ।
वक्ष्ये गुह्यतमाद् गुह्यं श्रुण्वन्त्वन्ये महर्षयः ॥ १३ ॥

ईश्वरेण पुरा प्रोक्तं ज्ञानमेतत् सनातनम् ।
गूढमप्राज्ञविद्विष्टं सेवितं सूक्ष्मदर्शिभिः ॥ १४ ॥

नाश्रद्दधाने दातव्यं नाभक्ते परमेष्ठिनः ।
न वेदविद्विषु शुभं ज्ञाननानां ज्ञानमुत्तमम् ॥ १५ ॥

मेरुशृङ्गे पुरा देवमीशानं त्रिपुरद्विषम् ।
देवासनगता देवी महादेवमपृच्छत ॥ १६ ॥

देव्युवाच
विश्वास-प्रस्तुतिः

देवदेव महादेव भक्तानामार्तिनाशन ।
कथं त्वां पुरुषो देवमचिरादेव पश्यति ॥ १७ ॥

साङ्ख्ययोगस्तथा ध्यानं कर्मयोगो ऽथ वैदिकः ।
आयासबहुला लोके यानि चान्यानि शङ्कर ॥ १८ ॥

येन विब्रान्तचित्तानां योगिनां कर्मिणामपि ।
दृश्यो हि भगवान् सूक्ष्मः सर्वेषामथ देहिनाम् ॥ १९ ॥

एतद् गुह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम ।
हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन ॥ २० ॥

ईश्वर उवाच
विश्वास-प्रस्तुतिः

अवाच्यमेतद् विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम् ।
वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः ॥ २१ ॥

परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी ।
सर्वेषामेव भूतानां संसारार्णवतारिणी ॥ २२ ॥

तत्र भक्ता महादेवि मदीयं व्रतमास्थिताः ।
निवसन्ति महात्मानः परं नियममास्थिताः ॥ २३ ॥

उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् ।
ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥ २४ ॥

स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च ।
श्मशानसंस्थितान्येव दिव्यभूमिगतानि च ॥ २५ ॥

भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् ।
अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥ २६ ॥

श्मसानमेतद् विख्यातमविमुक्तमिति श्रुतम् ।
कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ॥ २७ ॥

देवीदं सर्वगुह्यानां स्थानं प्रियतमं मम ।
मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति ते ॥ २८ ॥

दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् ।
ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ॥ २९ ॥

जन्मान्तरसहस्रेषु यत्पापं पूर्वसञ्चितम् ।
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ ३० ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसङ्कराः ।
स्त्रियो म्लेच्छाश्च ये चान्ये सङ्कीर्णाः पापयोनयः ॥ ३१ ॥

कोटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।
कालेन निधनं प्राप्ता अविमुक्ते वरानने ॥ ३२ ॥

चन्द्रार्धमौलयस्त्र्यक्षा महावृषभवाहनाः ।
शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥ ३३ ॥

नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ।
ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥ ३४ ॥

मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् ।
अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ॥ ३५ ॥

दुर्लभा तपसा चापि पूतस्य परमेश्वरि ।
यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ ३६ ॥

प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि ।
अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ॥ ३७ ॥

अविमुक्तं न सेवन्ति मूढा ये तमसावृताः ।
विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः ॥ ३८ ॥

हन्यमानो ऽपि यो विद्वान् वसेद् विघ्नशतैरपि ।
स याति परमं स्थानं यत्र गत्वा न शोचति ॥ ३९ ॥

जन्ममृत्युजरामुक्तं परं याति शिवालयम् ।
विश्वास-प्रस्तुतिः

अपुनर्मरणानां हि सा गतिर्मोक्षकाङ्क्षिणाम् ।
यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डताः ॥ ४० ॥

न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ।
प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते ॥ ४१ ॥

नानावर्णा विवर्णाश्च चण्डालाद्या जुगुप्सिताः ।
विश्वास-प्रस्तुतिः

किल्बिषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा ।
भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ॥ ४२ ॥

अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ।
अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ॥ ४३ ॥

कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये ।
तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ॥ ४४ ॥

प्रायागं नैमिषं पुण्यं श्रीशैलो ऽथ महालयः ।
केदारं भद्रकर्णं च गया पुष्करमेव च ॥ ४५ ॥

कुरुक्षेत्रं रुद्रकोटिर्नर्मदाम्रातकेश्वरम् ।
विश्वास-प्रस्तुतिः

शालिग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम् ।
प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम् ॥ ४६ ॥

एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह ।
न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः ॥ ४७ ॥

वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी ।
प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् ॥ ४८ ॥

अन्यत्र सुलभा गङ्गा श्राद्धं दानं तपो जपः ।
व्रतानि सर्वमेवैतद् वाराणस्यां सुदुर्लभम् ॥ ४९ ॥

यजेत जुहुयान्नित्यं ददात्यर्चयते ऽमरान् ।
वायुभक्षश्च सततं वाराणस्यां स्तितो नरः ॥ ५० ॥

यदि पापो यदि शठो यदि वाधार्मिको नरः ।
वाराणसीं समासाद्य पुनाति सकलं नरः ॥ ५१ ॥

वाराणस्यां महादेवं येर्ऽचयन्ति स्तुवन्ति वै ।
सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः ॥ ५२ ॥

अन्यत्र योगज्ञानाभ्यां सन्न्यासादथवान्यतः ।
प्राप्यते तत् परं स्थानं सहस्रेणैव जन्मना ॥ ५३ ॥

ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै ।
ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना ॥ ५४ ॥

यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ।
अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् ॥ ५५ ॥

यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम् ।
तदेव गुह्यं गुह्यानामेतद् विज्ञाय मुच्यते ॥ ५६ ॥

ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छताम् ।
या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु ॥ ५७ ॥

यानि चैवाविमुक्तस्य देहे तूक्तानि कृत्स्नशः ।
पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा ॥ ५८ ॥

यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः ।
व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम् ॥ ५९ ॥

यत् तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् ।
एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ॥ ६० ॥

भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि ।
यथाविमुक्तादित्ये वाराणस्यां व्यवस्थितम् ॥ ६१ ॥

वरणायास्तथा चास्या मध्ये वाराणसी पुरी ।
तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम् ॥ ६२ ॥

वाराणस्याः परं स्थानं न भूतं न भविष्यति ।
यत्र नारायणो देवो महादेवो दिवेश्वरः ॥ ६३ ॥

तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।
उपासते मां सततं देवदेवं पितामहम् ॥ ६४ ॥

महापातकिनो ये च ये तेभ्यः पापकृत्तमाः ।
वाराणसीं समासाद्य ते यान्ति परमां गतिम् ॥ ६५ ॥

तस्मान्मुमुक्षुर्नियतो वसेद् वै मरणान्तिकम् ।
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ॥ ६६ ॥

किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः ।
ततो नैव चरेत् पापं कायेन मनसा गिरा ॥ ६७ ॥

एतद् रहस्यं वेदानां पुराणानां च सुव्रताः ।
अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः ॥ ६८ ॥

देवतानामृषीणां च शृण्वतां परमेष्ठिनाम् ।
देव्यै देवेन कथितं सर्वपापविनाशनम् ॥ ६९ ॥

यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः ।
यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम् ॥ ७० ॥

यैः समाराधितो रुद्रः पूर्वस्मिन्नेव जन्मनि ।
ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् ॥ ७१ ॥

कलिकल्मषसम्भूता येषामुपहता मतिः ।
न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः ॥ ७२ ॥

ये स्मरन्ति सदा कालं विन्दन्ति च पुरीमिमाम् ।
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ ७३ ॥

यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः ।
नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः ॥ ७४ ॥

आगच्छतामिदं स्थानं सेवितुं मोक्षकाङ्क्षिणाम् ।
मृतानां च पुनर्जनम् न भूयो भवसागरे ॥ ७५ ॥

तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ।
योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः ॥ ७६ ॥

न वेदवचनात् पित्रोर्न चैव गुरुवादतः ।
मतिरुत्क्रमणीया स्यादविमुक्तगतिं प्रति ॥ ७७ ॥

इत्येवमुक्त्वा भगवान् व्यासो वेदविदां वरः ।
सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह ॥ ७८ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे एकोनत्रिशो ऽध्यायः