व्यास उवाच
विश्वास-प्रस्तुतिः
तिष्ये मायामसूयां च वधं चैव तपस्विनाम् ।
साधयन्ति नरा नित्यं तमसा व्याकुलीकृताः ॥ १ ॥
मूलम्

कलौ प्रमारको रोगः सततं क्षुद् भयं तथा ।
अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ २ ॥

अधार्मिका अनाचारा महाकोपाल्पचेतसः ।
अनृतं वदन्ति ते लुब्धास्तिष्ये जाताः सुदुः प्रजाः ॥ ३ ॥

दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ।
विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥ ४ ॥

नाधीयते कलौ वेदान् न यजन्ति द्विजातयः ।
यजन्त्यन्यायतो वेदान् पठन्ते चाल्पबुद्धयः ॥ ५ ॥

शूद्राणां मन्त्रयौनैश्च सम्बन्धो ब्राह्मणैः सह ।
भविष्यति कलौ तस्मिञ् शयनासनभोजनैः ॥ ६ ॥

राजानः सूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति च ।
भ्रूणहत्या वीरहत्या प्रजायेते नरेश्वर ॥ ७ ॥

स्नानं होमं जपं दानं देवतानां तथार्ऽचनम् ।
अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ॥ ८ ॥

विनिन्दन्ति महादेवं ब्राह्मणान् पुरुषोत्तमम् ।
आम्नायधर्मशास्त्राणि पुराणानि कलौ युगे ॥ ९ ॥

कुर्वन्त्यवेददृष्टानि कर्माणि विविधानि तु ।
स्वधर्मे ऽभिरुचिर्नैव ब्राह्मणानां प्रिजायते ॥ १० ॥

कुशीलचर्याः पाषण्डैर्वृथारूपैः समावृताः ।
बहुयाचनको लोको भविष्यति परस्परम् ॥ ११ ॥

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥ १२ ॥

शुक्लदन्ताजिनाख्याश्च मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ॥ १३ ॥

शस्यचौरा भविष्यन्ति तथा चैलाभिमर्षिणः ।
चौराश्चौरस्य हर्तारो हर्तुर्हर्ता तथापरः ॥ १४ ॥

दुः खप्रचुरताल्पायुर्देहोत्सादः सरोगता ।
अधर्माभिनिवेशित्वात् तमोवृत्तं कलौ स्मृतम् ॥ १५ ॥

काषायिणो ऽथ निर्ग्रन्थास्तथा कापालिकाश्च ये ।
वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे ॥ १६ ॥

आसनस्थान् द्विजान् दृष्ट्वा न चलन्त्यल्पबुद्धयः ।
ताडयन्ति द्विजेन्द्रांश्च शूद्रा राजोपजीविनः ॥ १७ ॥

उच्चासनस्थाः शूद्रास्तु द्विजमध्ये परन्तप ।
ज्ञात्वा न हिंसते राजा कलौ कालबलेन तु ॥ १८ ॥

पुष्पैश्च हसितैश्चैव तथान्यैर्मङ्गलैर्द्विजाः ।
शूद्रानभ्यर्चयन्त्यल्पश्रुतभग्यबलान्विताः ॥ १९ ॥

न प्रेक्षन्ते ऽर्चितांश्चापि शूद्रा द्विजवरान् नृप ।
सेवावसरमालोक्य द्वारि तिष्ठन्ति च द्विजाः ॥ २० ॥

वाहनस्थान् समावृत्य शूद्राञ् शूद्रोपजीविनः ।
सेवन्ते ब्राह्मणास्तत्र स्तुवन्ति स्तुतिभिः कलौ ॥ २१ ॥

अध्यापयन्ति वै वेदाञ् शूद्राञ् शूद्रोपजीविनः ।
पठन्ति वैदिकान् मन्त्रान् नास्तिक्यं घोरमाश्रिताः ॥ २२ ॥

तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ।
यतयश्च भविष्यन्ति शतशो ऽथ सहस्रशः ॥ २३ ॥

नाशयन्ति ह्यधीतानि नाधिगच्छन्ति चानघ ।
गायन्ति लौकिकैर्गानैर्दैवतानि नराधिप ॥ २४ ॥

वामपाशुपताचारास्तथा वै पाञ्चरात्रिकाः ।
भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ २५ ॥

ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते ।
कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ २६ ॥

कुर्वान्ति चावताराणि ब्राह्मणानां कुलेषु वै ।
दधीचशापनिर्दग्धाः पुरा दक्षाध्वरे द्विजाः ॥ २७ ॥

निन्दन्ति च महादेवं तमसाविष्टचेतसः ।
वृथा धर्मं चरिष्यन्ति कलौ तस्मिन् युगान्तिके ॥ २८ ॥

ये चान्ये शापनिर्दग्धा गौतमस्य महात्मनः ।
सर्वे ते च भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु ॥ २९ ॥

विनिन्दन्ति हृषीकेशं ब्राह्मणान् ब्रह्मवादिनः ।
वेदबाह्यव्रताचारा दुराचारा वृथाश्रमाः ॥ ३० ॥

मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि च ।
तमसाविष्टमनसो वैडालवृत्तिकाधमाः ॥ ३१ ॥

कलौ रुद्रो महादेवो लोकानामीश्वरः परः ।
न देवता भवेन्नृणां देवतानां च दैवतम् ॥ ३२ ॥

करिष्यत्यवताराणि शङ्करो नीललोहितः ।
श्रौतस्मार्तप्रतिष्ठार्थं भक्तानां हितकाम्यया ॥ ३३ ॥

उपदेक्ष्यति तज्ज्ञानं शिष्याणां ब्रह्मसञ्ज्ञितम् ।
सर्ववेदान्तसारं हि धर्मान् वेदनिदर्शितान् ॥ ३४ ॥

ये तं विप्रा निषेवन्ते येन केनोपचारतः ।
विजित्यकलिजान् दोषान् यान्ति ते परमं पदम् ॥ ३५ ॥

अनायासेन सुमहत् पुण्यमाप्नोति मानवः ।
अनेकदोषदुष्टस्य कलेरेष महान् गुणः ॥ ३६ ॥

तस्मात् सर्वप्रयत्नेन प्राप्य माहेश्वरं युगम् ।
विशेषाद् ब्राह्मणो रुद्रमीशानं शरणं व्रजेत् ॥ ३७ ॥

ये नमन्ति विरूपाक्षमीशानं कृत्तिवाससम् ।
प्रसन्नचेतसो रुद्रं ते यान्ति परमं पदम् ॥ ३८ ॥

यथा रुद्रनमस्कारः सर्वकर्मफलो ध्रुवम् ।
अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात् ॥ ३९ ॥

एवंविधे कलियुगे दोषाणामेकशोधनम् ।
महादेवनमस्कारो ध्यानं दानमिति श्रुतिः ॥ ४० ॥

तस्मादनीश्वरानन्यान् त्यक्त्वा देवं महेश्वरम् ।
समाश्रयेद् विरूपाक्षं यदीच्छेत् परमं पदम् ॥ ४१ ॥

नार्चयन्तीह ये रुद्रं शिवं त्रिदशवन्दितम् ।
तेषां दानं तपो यज्ञो वृथा जीवितमेव च ॥ ४२ ॥

नमो रुद्राय महते देवदेवाय शूलिने ।
त्र्यम्बकाय त्रिनेत्राय योगिनां गुरवे नमः ॥ ४३ ॥

शम्भवे स्थाणवे नित्यं शिवाय परमेष्ठिने ।
नमः शोमाय रुद्राय महाग्रासाय हेतवे ॥ ४४ ॥

प्रपद्ये ऽहं विरूपाक्षं शरण्यं ब्रह्मचारिणम् ।
महादेवं महायोगमीशानं चाम्बिकापतिम् ॥ ४५ ॥

योगिनां योगदातारं योगमायासमावृतम् ।
योगिनां कुरुमाचार्यं योगिगम्यं पिनाकिनम् ॥ ४६ ॥

संसारतारणं रुद्रं ब्रह्माणं ब्रह्मणो ऽधिपम् ।
शाश्वतं सर्वगं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ ४७ ॥

कपर्दिनं कालमूर्तिममूर्ति परमेश्वरम् ।
एकमूर्ति महामूर्ति वेदवेद्यं दिवस्पतिम् ॥ ४८ ॥

नीलकण्ठं विश्वमूर्ति व्यापिनं विश्वरेतसम् ।
कालाग्निं कालदहनं कामदं कामनाशनम् ॥ ४९ ॥

विलोहितं लेलिहानमाहित्यं परमेष्ठिनम् ।
उग्रं पशुपतिं भीमं भास्करं तमसः परम् ॥ ५० ॥

इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः ।
अतीतानागतानां वै यावन्मन्वन्तरक्षयः ॥ ५१ ॥

मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै ।
व्याख्यातानि न सन्देहः कल्पः कल्पेन चैव हि ॥ ५२ ॥

मन्वन्तरेषु सर्वेषु अतीतानागतेषु वै ।
तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत ॥ ५३ ॥

एवमुक्तो भगवता किरीटी श्वेतवाहनः ।
बभार परमां भक्तिमीशाने ऽव्यभिचारिणीम् ॥ ५४ ॥

नमश्चकार तमृषिं कृष्णद्वैपायनं प्रभुम् ।
सर्वज्ञं सर्वकर्तारं स्क्षाद् विष्णुं व्यवस्थितम् ॥ ५५ ॥

तमुवाच पुनर्व्यासः पाथं परपुरञ्जयम् ।
कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतं मुनिः ॥ ५६ ॥

धन्यो ऽस्यनुगृहीतो ऽसि त्वादृशो ऽन्यो न विद्यते ।
त्रैलोक्ये शङ्करे नूनं भक्तः परपुरञ्जय ॥ ५७ ॥

दृष्टवानसि तं देवं विश्वाक्षं विश्वतोमुखम् ।
प्रत्यक्षमेव सर्वेशं रुद्रं सर्वजगद्गुरुम् ॥ ५८ ॥

ज्ञानं तदैश्वरं दिव्यं यथावद् विदितं त्वया ।
स्वयमेव हृषीकेशः प्रीत्योवाच सनातनः ॥ ५९ ॥

गच्छ गच्छ स्वकं स्थानं न शोकं कर्तुमर्हसि ।
व्रजस्व परया भक्त्या शरण्यं शरणं शिवम् ॥ ६० ॥

एवमुक्त्वा स भगवाननुगृह्यार्जुनं प्रभुः ।
जगाम शङ्करपुरीं समाराधयितुं भवम् ॥ ६१ ॥

पाण्डवेयो ऽपि तद् वाक्यात् सम्प्राप्य शरणं शिवम् ।
सन्त्यज्य सर्वकर्माणि तद्भक्तिपरमो ऽभवत् ॥ ६२ ॥

नार्जुनेन समः शम्भोर्भक्त्या भूतो भविष्यति ।
मुक्त्वा सत्यवतीसूनुं कृष्णं वा देवकीसुतम् ॥ ६३ ॥

तस्मै भगवते नित्यं नमः सत्याय धीमते ।
पाराशर्याय मुनये व्यासायामिततेजसे ॥ ६४ ॥

कृष्णद्वैपायनः साक्षाद् विष्णुरेव सनातनः ।
को ह्यन्यस्तत्त्वतो रुद्रं वेत्ति तं परमेश्वरम् ॥ ६५ ॥

नमः कुरुध्वं तमृषिं कृष्णं सत्यवतीसुतम् ।
पाराशर्यं महात्मानं योगिनं विष्णुमव्ययम् ॥ ६६ ॥

एवमुक्तास्तु मुनयः सर्व एव समीहिताः ।
प्रेणेमुस्तं महात्मानं व्यासं सत्यवतीसुतम् ॥ ६७ ॥

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टाविंशो ऽध्यायः